________________
www
www
द्वादशारनयचक्रम्
[विध्युभयारे गच्छतीति लोके दृष्टम् , तत्परस्परापेक्षामन्तरेण न सम्भवति चक्राक्षवदित्युक्तम् , तस्मात् क्रमयोगपद्यप्रवृत्त्यसम्भवादकार्यकारणत्वप्रसङ्गः, कार्यकारणभूतञ्चैतद्व्यक्तम् , तस्मान्नेदमसत उत्पद्यते, परिशेषतः प्रधानादेवेदमिति कार्यकारणवीतस्यावीतः। किञ्चान्यत् निर्बीजमकस्मादुत्पद्यमानं व्यक्तमनेकादशत्वाखू दानामसम्बद्धं [न] उत्पद्येत, सम्बद्धञ्चोत्पद्यते तस्मान्नेदमसत इति शक्तिवीतस्यावीतः। शेषस्तु प्रस'कानुप्रसक्तविचारेण [अलम् ] । 'संस्थानमादिमद्धर्ममात्र शब्दादीनां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां विनाश्यविनाशिनां तस्मिन् विकारसंज्ञा', [पातं० यो० पा. ३. सू० १३ भाष्ये] तत्र यदुक्तं विकारस्य विनाशित्वात् प्रधानस्य विनाशित्वमित्येतद्युक्तम् , गुणव्यतिरिक्तगुणप्रवृत्तिकारणाभावादाकस्मिक्याः प्रवृत्तेरभावाचेत्यादि प्रत्यभिज्ञानार्थक्रियाहेतुकार्यनियमादिभिश्च हेतुभिरत्यन्तासदुत्पत्ति विनाशप्रतिषेधार्थः सर्वो ग्रन्थो वैश्वरूप्याविभागगतिवत्तस्यावीतो द्रष्टव्य इति, एतेषां प्रधानास्तित्वैक्या10 दिसाधनार्थ[नां ]वीतानां तत्सद्भावस्यान्यथा व्यक्तासम्भवस्य चादर्शनेन त्र्यात्मकयोनिहेतुत्वमवश्यमित्येतदवधारणार्थानाचावीतानामतथार्थत्वमुक्तविधिना प्रतिपादितमेव पुरुषवदपरिणामित्वं वैषम्यात्मकत्वं विपरिणामः पुनः साम्यापत्तिश्चेति तदनुपपत्तेर्जगत्सर्गसंहारकल्पना निर्मूला, प्रधानाभावात् तन्निर्मूलत्वात् पुरुषार्थेन हेतुना प्रयुक्ता प्रवृत्तिरित्येतदपि वितथम् , तद्वितथत्वात्तद्विषयः प्रत्ययोऽप्यज्ञानमेव, तदज्ञानत्वाद् ज्ञानप्राप्यपुरुषार्थाभावोऽपीति समस्ततंत्रार्थविघटनमेवेति किमवशिष्यते वार्षगणे तंत्रे सुभाषि15 ताभिमतमतस्त्याज्योऽयमनुपपन्नः परोक्षार्थवादः, यद्युपपद्येत परोक्षार्थमपि तं गृहीयाम्, न तूपपन्नः।
पूर्वकमिति शक्तिवीतस्यावीतमाह-किश्चान्यदिति । पञ्चमवीतस्यावीतमादर्शयति-संस्थानमिति । गुणापेक्षया गुणिनो नित्यत्वेऽपि तदात्मभूतविकाराविर्भावतिरोभावभेदेन परिणामस्वभावतया न कौटस्थ्य गुणिगुणानाम् , यथा संस्थान-आकाशादिभूतात्मकं शब्दादीनां-शब्दादितन्मात्राणामविनाशिनां-खकार्यापेक्षयाऽविनाशिनामादिमत् परोत्पन्नं धर्ममात्रं विनाशि,
तथा लिङ्ग-महत्तत्त्वं खकारणानामविनाशिनां सत्त्वादिगुणानामादिमद्विनाशि धर्ममात्रम् , तस्मिन्-महदादिद्रव्ये विकारसंज्ञा, 20 सत्त्वादीनान्त्वविनाशित्वं निष्कारणत्वादिति भावः । तत्र कार्यकारणयोरभेदाभ्युपगमाद्विकारनाशे तद्वतः प्रधानस्यापि विनाशःस्यादिति शङ्कते-तत्रेति समाधत्ते-गुणेति, गुणेभ्यो व्यतिरिक्तस्य गुणानां प्रवृत्ती कारणभूतस्य कस्यचिदभावात् , कारणमन्तरेणाकस्मात् गुणानां प्रवृत्तौ सदा प्रवृत्तेरप्रवृत्तेर्वा प्रसङ्गेन ततो नियतप्रवृत्त्यसम्भवाचेत्यर्थः । ननु क्षणिकतैव गुणानां स्यादित्यत्राह-प्रत्यभिज्ञानेति, निरन्वयधर्मामात्राभ्युपगमे स्मृत्याद्यभावप्रसङ्गः, नह्यन्येन दृष्टस्यान्यस्य स्मरणं दृष्टम् ,
प्रत्यभिज्ञायते च योऽहमद्राक्षं सोऽहं स्पृशामीति, तस्मादस्त्यन्वयो धर्मी यो धर्मेष्वेकरूपेणस्थितो यस्य च धर्मोऽन्यथात्वं प्राप्नो28 तीत्यनुभूयमानः प्रत्यभिज्ञायते तस्मान्नेदं विश्वं धर्ममानं निरन्वयमभावमूलकम् , एवमर्थक्रियाऽनुपपत्तिः कार्यकारणनियमानुपपत्तिश्च धर्ममात्रपक्षे भावनीया, तस्मादस्ति धर्माणामन्वयी स्थिरो धर्मी यत्र धर्मा अविभागं गच्छन्ति, तदेव प्रधानमिति भावः। तदेवं पञ्चभिर्वीतैः प्रधानतदेकत्वादिसिद्धिः, प्रधानसद्भावमन्तरेण च व्यक्तस्य सम्भवो नास्तीति व्यतिरेकमुखेनावीतैः प्रधानसिद्धिश्चादर्शितेत्याह-एतेषामिति सर्व एष प्रपञ्चोऽसत्यार्थ इत्याह-अतथार्थत्वमिति पूर्व गुणत्रयात्मकप्रधानस्य प्रत्येक निर्गुणस्वादेकत्वाद्वैषम्यानुपपत्तेरपरिणामित्वमुक्तं पुरुषवत्तस्मात् साम्यापत्तिवैषम्यापत्त्यसम्भवात् जगतः सृष्टिः संहारश्चानुपपन्न एव, 30 अकिञ्चित्करत्वेन प्रधानस्यैवाभावादिति भावः। अत एव च पुरुषार्था प्रधानस्य सर्गादौ प्रवृत्तिरित्येतदप्यनुपपन्नमित्याहतन्निर्मूलत्वादिति । तस्मादेवेशस्याव्यक्तस्य व्यक्तस्य पुरुषस्य च विज्ञानमज्ञानमेव, तथाविधवस्त्वभावादित्याह-तद्वितथत्वादिति । तथा च सांख्यशास्त्रोक्तः सर्वोऽप्यर्थोऽनुपपन्नप्रमाणोऽत्यन्तपरोक्ष एवेति त्याज्य एवेत्याह-वार्षगण इति । एवश्चानेकात्मकैकस्यैव प्रधानस्य सर्वकार्यप्रवृत्तिसमर्थत्वाभ्युपगमो नोचितः शब्दैकगुणवियदप्रवृत्तिप्रसजस्यापादितत्वात् , अपितु
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org