________________
पञ्चावीताः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
४१९
लोकवृत्तान्तनयनादित्युपकारभेदप्रदर्शनात् कार्यकारणभाववीतस्य वीतत्वलेशं न स्पृशतीति तस्मादेव अन्थादवगन्तव्यं यावत् पुरस्ताद्व्याख्यातं यथा तैर्यग्योनमानुषदैवानि परस्परार्थं कुर्वीरन्निति, तत्र यदुक्तं सूतानां तत्समूहानाञ्च व्यावृत्तेर्विशेषमात्रमिदं व्यक्तं, तस्मादसत उत्पद्यत इति एतदयुक्तमिति, पुनरस - त्समन्वयाशङ्कां निरस्य प्रपञ्चेन यावत्तस्माद्युक्तमेतद्योन्यभावाद्भेदप्रसङ्ग इति एषोऽन्वयवी तस्यावीतप्रसङ्गो व्याख्यातः, आचार्येणापि तथैव व्यवस्था तुल्यजातिसमन्वयादित्युक्ता, तेनैव क्रमेण आदिग्रहणात्रयः शेषा अप्यवीताः सूचिताः, तत्र कार्यकारणवीतस्यावीतस्तावत् किञ्चान्यत् कार्यकारणयोश्च व्यक्तमिदं द्विधा कृत्वा कार्यराशि कारणराशिं च किञ्च नौसत उत्पत्तिः, सम्भवतीति वाक्यशेषः, क्रमयौगपद्यप्रवृत्त्यसम्भवात्, परस्परार्थात्मलाभत्वात् कार्यकारणयोरन्योन्यानि रूप्यात्मलाभाभावोऽतः क्रमेण प्रवृत्त्यभावः चक्राक्षवत् असत्त्वादसद्वादिनः तथा युगपदपि, अभूतविनष्टयोरनपेक्षत्वात् खरविषाणवत्, क्रियाऽऽदिमध्यावसानेष्वसत्त्वादेव प्रवृत्त्यसम्भवः, यदारभ्यते तत् क्रियते निष्ठा 10
www.ww
wwwwwww
wwwwww
यत् । शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः ॥ ऊर्ध्वगं पावकं दग्धृ पाचकं लघु भाखरम् । प्रध्वंस्योजखि च ज्योतिः घूर्वेभ्यो भिन्नलक्षणम् ॥ तिर्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम् । चलमच्छायता रौक्ष्यं वायोर्धर्माः पृथग्विधाः ॥ सर्वतो गतिरव्यूहोऽविष्कम्भश्चेति ते त्रयः । आकाशधर्मा व्याख्याताः पूर्वपूर्वविलक्षणाः ॥ संहतानान्तु यत्कार्य सामान्यं ते गवादयः । इतरेतरधर्मेभ्यो विशेषान्नात्र संशयः ॥' इति कारिकोक्ता आकारादयो धर्माः । एते धर्माः पृथिव्यादेर्लोकस्य भूतान्तराणाञ्चोपकारकाः, तत्राकाराद्यथा गवादीनां घटादीनाञ्चाssकारनिर्वृत्तिः, गौरवादेषामवस्थानम्, रौक्ष्यादपां सङ्ग्रहो वैशद्यश्च भूतानाम्, 15 वरणादनभिप्रेतानां छादनम्, स्थैर्याद् वृत्तिः प्रजानां भूतान्तराणाञ्च स्थितेर्मात्रादिसन्निधानाद्यनुग्रहः, भेदाद्धटादिनिष्पत्तिः, व्यूहश्चावयवानाम्, क्षान्तेरुपभोगयोग्यता कृष्णच्छायत्वाद्रात्रिसम्पत्, छायाकार्यप्रसिद्धिश्च सर्वोपभोग्यत्वात् सर्वभूतानुग्रहः । एवं स्नेहादिभिरुपकारोऽभ्यूः । एवं शब्दस्पर्शादिविशिष्टाः पृथिव्यादय आकारादिधर्मैस्सह स्थूलशब्देन परिभाषितो न केवलं धर्ममात्रमित्याशयेनोत्तरयति - ताद्रूष्येणेति, आकारादिरूपेणेत्यर्थः, एकजातिसमन्वितानामेषां पृथिव्यादीनां शब्दादिधर्ममात्रेण सजातीयान्तराद्व्यावृत्तिः तावतैव लोकव्यवहारनयनादिति । उपकार्योपकारकभावरूपकार्यकारणवीत स्यायं 20 परस्परोपकारो नोदाहरणं सम्भवति, अपि तु पूर्वव्यावर्णितोदाहरणमेव युक्तमित्याह - धर्मभेदेति, परिणामो हि त्रिविधः, धर्मिणो धर्मैः परिणामः, धर्माणां लक्षणैः परिणामः, लक्षणानामप्यवस्थाभिः, यथा पृथिव्यादीनां नीलपीतादिर्गवादिर्घटा दिर्वा धर्मपरिणामः, नीलादयश्वातीतादिलक्षणैः परिणमन्ते, लक्षणानाञ्च नवत्वपुराणत्वाद्यवस्थापरिणामः, त्रैविध्यश्च धर्मधर्मिणोर्भेदमवलम्ब्य अमेदाश्रयेण त्वेक एव परिणाम इति बोध्यम् । आचार्येणेति, पञ्चशिखाचार्येणेत्यर्थः, एकजातिसमन्वयमात्रस्यैव हेतुत्वेनोक्तेः, कार्यकारणवीतस्यावीतमाह-तत्र कार्यकारणेति, इदं कार्यमिदं कारणमिति विभागः बुद्ध्या द्विधाऽवस्थापनम्, 25 तश्वावस्थितभावपूर्वकम्, यथा व्यक्ते शयनासनरथशरणादिः, तत्रासत्कार्यपक्षेऽनुपपत्तिमवीते शङ्कते - किञ्च नासत इति, तत्र हेतुमाह- क्रमेति योऽयं परस्परोपकारोऽभ्युपगम्यते स किं क्रमेण ? किं वा युगपत् ?, तत्र न तावत् कार्यकारणयोः क्रमेण परस्परोपकारः, इदम्प्रथमतया कस्यापि प्रथमं प्रवृत्त्यसम्भवात्, अन्यतरकृतोपकाराभावात् उपकारमन्तरेणाप्येकस्य प्रवृत्तावपरस्यापि तथा प्रवृत्तिप्रसङ्गेन कार्यकारणयोर्दृष्टा परस्परापेक्षात्मलाभता नोपपद्येत, दृश्यते च सा, तदिदमुक्तम्- परस्प ऐति । भावानां क्षणिकत्वादेव च युगपदपि प्रवृत्त्यसम्भव इत्याह- तथा युगपदपीति । क्रियेति भावानां क्षणिकत्वा- 30 देव क्रियाया आरम्भप्रवृत्तिनिष्ठा नैकत्र सम्भवन्ति, दृष्टञ्च लोके यदेवारभ्यते तदेव क्रियते तदेव निष्ठां गच्छतीत्येकस्यैव, यदि तु कार्यं सन्न भवेत्तर्हि कारणकार्ययोः परस्परापेक्षा सम्भवेनारम्भप्रवृत्तिनिष्ठा न स्युः, दृष्टाश्वताः, भतः कार्यकारणभाव - सिद्धेरसद्वादभङ्गाच्च प्रधानसिद्धिरिति भावः । कार्येण सम्बद्धं कारणं कार्यस्य जनकं भवति, सम्बन्धश्च कार्यस्यासतो न सम्भवति, कारणैरसम्बद्धत्वे कार्यस्य सर्वं कार्यजातं सर्वस्माद्भवेदविशेषात् न च शक्तिप्रतिनियमात् कार्य प्रतिनियमः, सापि हि शक्तिः कार्यसम्बद्धैव कारणे भवेत्, कार्यस्य चासत्त्वे कथं सम्बन्धः, तस्मात् सदेव कार्यम्, व्यक्तमपि कार्यं तदपि शक्तिमव्यक्त- 35 १ सि. क. त्युक्तम् । २ सि. क. किञ्चानसतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org