________________
marawww.www
द्वादशारनयचक्रम्
[विध्युभयारे दनागतेऽपि काले न भविष्यतीति । किञ्चान्यत् यदि व्यक्तस्यासत उत्पत्तिर्भवत्यार्थिभिस्तृणपांशुवालुका मुक्तामणिरजतसुवर्णानि क्रियेरन , कस्मात् ? भावक्रिया गुरुकार्यमभावक्रिया लम्विति, न त्वेवं क्रियते तस्मादयुक्तमित्यादि यावदुक्तोत्तरत्वादसम्यग्विधिः । किश्चान्यत् यदि व्यक्तस्यासत उत्पत्तिर्योन्यभावादेकत्वप्रसङ्गः, प्रधानाभावात् , सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत् प्रसज्येत, कस्मात् ? सामान्यपूर्वकत्वाद्विशेषाणाम् , सामान्यपूर्वका हि लोके विशेषा दृष्टाः, तद्यथा क्षीरपूर्वका [द्रप्स ] दधिमस्तुनवनीतघृतारिष्टकिलाटकूर्चिका भावाः, न त्वसति भावः कश्चिदस्ति यत्पूर्वका व्यक्तविशेषाः स्युः, तस्मात् सामान्यमात्रमिदं व्यक्तं निर्विशेषमित्येतत् [प्राप्तम् ] न विदं तादृक् , तस्मान्नेदं व्यक्तमसत उत्पद्यते, न चेदं सत उत्पद्यते, पारिशेष्यात् प्रधानादेवेदं व्यक्तमुत्प
द्यत इत्येतद्व्यक्तम् , तस्मादस्ति प्रधानमिति एषोऽन्वयवीतस्यावीतः। किञ्चान्यदित्यादि तदेव योन्यभावा10 दनवस्थाप्रसङ्गः परिमाणस्य संसर्गपूर्वकत्वाविनाभावादित्यर्थः, प्रधानाभावान्निष्परिमाणमिदं व्यक्तमव्यवस्थितमित्येतत्प्रसज्यते, कस्मात् ? सतां ह्यर्थानां लोके परिमाणं दृष्टं तुलामानहस्तव्यायामरज्ज्वात्मोपचयैः, नन्वसति भावः कश्चिदस्ति यः प्रतिपद्यमानः परिमाणोऽवतिष्ठेत, तस्मान्निःपरिमाणमिदमव्यवस्थितमित्येतत् प्रसज्येत, न त्विदं तादृक् तस्मान्नेदं व्यक्तमसत उत्पद्यते, न चेदं सत उत्पद्यते परिशेषतः
प्रधानादेवेदम् , तस्मादस्ति तत् । किश्चान्यत् एकजातिसमन्वयाभावप्रसङ्ग इति, तदेव स्थालीघटेत्यादि, 16 दृष्टान्तविशेषः, सामान्यविशेषस्थापनार्थमुच्यते, अत्र परो ब्रूयात् विशेषमात्रस्य दर्शनादसत उत्पत्तिः, तद्यथा-आकारो गौरवमित्यादि धर्मभेदादिति, तत्रोत्तरं ताद्रूप्येणोपकाराददोष इति, धर्मभेदपरिणत्या
wwwwwwwwwwwwwww
विकल्पत्रये द्वितीयविकल्पस्येत्यर्थः, अस्य पक्षस्य वैनाशिकैरभ्युपगमादिति भावः । असत्कार्यवादे दोषान् वक्ति-किञ्चान्य. दिति। सर्वस्मात् सर्वसम्भवः प्रसज्यत इति भावः। भावाद्भावोत्पादापेक्षयाऽभावाद्भावोत्पादे लाघवं हेतुमाह-भावकियेति. दोषान्तरमाह-किश्चान्यदिति. हेतुमाह-योन्यभावादिति. असतो व्यक्तोत्पत्ती व्यक्तस्य उपादानाभावात्यको न विशेषरूपः, सामान्यस्य हि विशेषपरिग्रहः, असतस्तु निरात्मकत्वाद्विशेषपरिग्रहो दुरुपपादः, उक्तञ्च 'निरात्मकत्वादसतां सर्वेषामविशिष्टता'। इति, विशेषप्रयोजकरूपाभावादेकत्वमेव भवेदिति भावः । विशेषाणां हि सामान्यपूर्वकत्वमनुभवसिद्धम्, तथाविधश्च सामान्यमनिच्छतः क्षणिकं विज्ञानमात्रमिच्छतो वैनाशिकस्यैकस्मिन् क्षणे एकस्यैव धर्मस्य भावात् विशेषशून्यं सामान्यमात्रमिदं व्यक्तरूपं जगद्भवेन चैवमस्तीति दर्शयति-सामान्यपूर्वका इति । लोके यद्वस्तु दृश्यते तत् परिच्छिन्नपरिमाणं दृष्टम् , यथा सपरिमाणान्मृत्पिण्डात् परिच्छिन्नपरिमाणो घटो भवति, यद्ययं घटो निष्कारणः स्यात् तदा घटः परिच्छिन्नपरिमाणो न स्यात् , दृश्यते च व्यक्तस्य परिमाणं महदहकारादिभेदम् , तस्मादस्ति प्रधानमस्य योनिरित्याशयेनाह-किञ्चान्यदिति। अनवस्थाप्रसङ्ग इति एतावद्भिरेवोत्पत्तव्यं नान्यैरिति न ह्यस्ति व्यक्तस्य नियमो योन्यभावात् तस्मात् परिमाणानवस्थानमिति भावः । एकजात्यनुगता ये भेदास्तेषामेकमेव तथाभूतं कारणं दृष्टम् , यथा पिण्डस्थासादीनां मृजात्यनुगतत्वान्मृदेकं कारणमिति, अस्यैवावीतमाह-एकजातीति । एकजात्यनुगत्यभावे पर्यायलक्षणधर्ममात्रप्रसङ्गेन वैनाशिकमतमेव प्रसज्यत इवि
सामान्यविशेषात्मकत्वस्थापनाऽऽवश्यकीति तदेवाचष्टे-सामान्यविशेषेति । अस्मदादीन्द्रियैः स्थूलानामेव शब्दस्पर्शरूपरस30 गन्धानां ग्रहणात्तद्व्यतिरिक्तस्य सूक्ष्मस्याविशेषस्यानुपलब्धेरभावादेव शब्दादीनामुत्पाद इत्याशङ्कते-अत्र पर इति, परो
बौद्धादिः, आकार इति, 'आकारो गौरवं रौक्ष्यं वरणं स्थैर्यमेव च । स्थितिभेदः क्षमा कृष्णच्छाया सर्वोपभोग्यता ॥ इति ते पार्थिवा धर्मास्तद्विशिष्टास्तथाऽपरे । जलाग्निपवनाकाशव्यापकास्तान्निबोधत ॥ स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवर
१सि.क. भावा। २ सि.क. विशेषोत्थाप० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org