________________
AnamaAIN
www.ammam
पञ्चावीताः]
न्यायागमानुसारिणीव्याख्यासमेतम् निमित्तावबन्धात्तु न समानकालमात्माभिव्यक्तिस्तेन मन्यामहे जलभूम्योरप्येतत् पारिणामिकं रसादिवैश्वरूप्यम् , अन्येषाञ्च भूतानामन्यपरिणाम इत्येवं तदप्यन्यस्येत्यवश्यम्भाव्यविभागः, यत्र चाविभागस्तत् प्रधानम् , वैश्वरूप्यस्याविभागकारणपूर्वकत्वात् , मयूरबर्हवैचित्र्यस्येव तदण्डकरसपूर्वकत्वम्, तस्मादस्ति प्रधानमित्येभिः पञ्चभिर्वीतैः समन्वयपरिमाणोपकारशक्तिप्रवृत्तिवैश्वरूप्यगत्याख्यैः सामान्यसंसर्गककर्तृशक्तिमच्छक्याविभागसंज्ञं प्रधानं सिद्धमत एवैकत्वमर्थवत्त्वं परार्थत्वं संहत्यकारिणां पारा-5
ात्, शयनासनादिवदतः पुरुषास्तित्वं[अकर्तृत्वं]अन्यत्वं तद्बहुत्वं पुरुषाणां प्रधानस्याद्यन्तपुरुषार्थयोरुपलब्ध्यनन्तरं निवृत्तिः ब्रीादकगत्या रङ्गनर्तकीवद्वेति प्रधानपुरुषसंयोगविभागौ, [स्थितिः शरीरस्य च] इत्थं इयत् परिमाणफलञ्च शास्त्रम् , तथा संव्यवहारप्रसिद्धरित्यादि यावद्वीतानामिति, व्याख्यातं द्रष्टव्यम् । एतेषामेव पश्चानां वीतानां परिशुद्ध्यर्थाः पश्चैवावीताः, एवमेभिः पञ्चभिर्वीतैः प्रधानस्य परिग्रहं कृत्वा पुनरवीतैः करिष्यामः, परपक्षप्रतिषेधेन स्वपक्षपरिग्रह क्रिया 10 अवीत इत्यपदिष्टं पुरस्तात् , तस्यास्य प्रतिपक्षाः सर्वैकान्तिनः पुरुषेश्वराणुप्रवादा विकारपुरुषा वैनाशिकाश्च तेषां वैनाशिकप्रतिषेधमग्रे वक्ष्यामः, कस्मात् ? किञ्चिद्वैनाशिका हीतर इत्यतः प्रभृत्युपक्रम्यानुपलब्धेर्नास्तीति द्वितीयस्य शिरसोऽभ्युपगतस्यासत उत्पत्त्यभावाद्व्यभिचारप्रसङ्गे गते यावइत्याह-तेनेति, यथा जलभूम्योरेतद्रसगन्धादिवैश्वरूप्यमविभक्तमस्ति एवं स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्वेवमविभागो ज्ञेयः। यत्र सर्वे लोकाः प्रलयकालेऽविभागं गच्छन्ति तत्प्रधानमिति भावः । साधनमुपसंहरति-यत्र चेति । पञ्चवीतानु-16 पसंहरति-एभिः पञ्चभिरिति, समन्वयहेतुना सामान्यलक्षणस्य परिणामहेतुना संसर्गलक्षणस्योपकारेणैककर्तृरूपस्य शक्ति-. प्रवृत्त्या शक्तिमच्छक्यस्य वैश्वरूप्यगत्या चाविभागसंज्ञस्य प्रधानस्य सिद्धिरिति भावः । षष्टितन्त्रशास्त्रं षष्टिपदार्थव्यावर्णनेन लोकव्यवहारप्रसाधकमिति दर्शयति-अत एवेति-"अस्तित्वमेकत्वमथार्थवत्त्वं पारार्थ्यमन्यत्वमकर्तृभावः । योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ पञ्चभिवतः प्रधानस्यास्तित्वमेकत्वम . एकं सदेव बहपुरुषोपभोगमनस परिणमते, अर्थवत्त्वं पुरुषस्य विषयैः संयोजनेन वियोजनेन च, पारार्थ्यमन्यार्थत्वं प्रधानस्य, लोके हि ये संघाता दृष्टास्ते 20 परार्था दृष्टाः पर्यङ्करथगृहादयः, एवं महदादीनां संघातः परार्थ एव, न खार्थो न परस्परार्थो वेति प्रधानगतान्येकत्वार्थवत्त्वपरार्थत्वानि, परत्वादेव पुरुषस्यान्यत्वं निर्गुणत्वादप्रसवधर्मित्वाचाकर्तृत्वं जननमरणादीनां प्रतिनियमाच्च पुरुषबहुत्वमित्य- . त्यत्वाकर्तृत्वबहुत्वानि पुरुषगतानि, अस्तित्वं योगो वियोगश्चेति प्रधानपुरुषोभयमधिकृत्य। पुरुषार्था हि प्रधानस्य प्रवृत्तिः, स च पुरुषार्थो द्विविधः, शब्दाधुपलब्धिरादिः ब्रह्मादिस्थावरान्तेषु पुरुषः शब्दादिभिर्विषयैः योजयितव्य इति, गुणपुरुषान्तरोपलब्धिश्चान्तः तत्त्वाभ्यासात्सम्यग्ज्ञाने जाते पुरुषः खखरूपस्थितो भवति, प्रकृतिरपि कृतार्था निवृत्तप्रसवा भवति, यद्यपि 25 प्रकृतिपुरुषयोः सर्वगतत्वात् संयोगः सर्वदा भवत्येव तथापि निस्तुषो व्रीहिर्जलक्षेत्रादिसहितोऽपि यथा न प्ररोहति तथा प्रकृतिरपि ज्ञानबलेनाभिभूता निवृत्तप्रसवा भवति, पुरुषोऽपि रङ्गगतां नानागीतनृत्यां नर्तकी दृष्ट्वा यथा लोके पुरुषो दृष्टेयं मया बहुधेति तिष्ठत्युपेक्षकस्तथोदासीनस्तिष्ठति तदेवं योगो वियोगश्चोभयोः । पञ्चविंशतितत्त्वज्ञानाधिगमेऽपि पूर्वकृतयोर्धर्माधर्मयोर्बलवत्वाचक्रभ्रमणवत् झडिति न विमुच्यते किन्तु शेषवृत्ति तशरीरोऽवतिष्ठते, शरीरे च विनष्टे कैवल्यमानोतीति दशैतेऽर्थाः पूर्वोक्ताः पञ्चाशत् प्रत्ययसर्गा इति मिलिताः षष्टिपदार्थास्तत्प्रतिपादक शास्त्रम् , एभिरेव पदार्थः लोकव्यवहारप्रसिद्धेरिति 30 भावः । एवं पञ्च वीता व्याख्याता इत्युपसंहरति-तथा संव्यवहारेति, षष्टिपदार्थप्रख्यापकशास्त्रादेव व्यवहारप्रसिद्धरिति भावः। अत्र कियरं मूलं न चारु सम्प्राप्तम् , अथावीतस्य परपक्षप्रतिषेधमूलस्य वीतानुग्राहकस्य प्रसङ्गं दर्शयति-एषा-.. मेवेति प्रधानवादस्य प्रतिपक्षानाह-तस्यास्येति. अन इति, प्रथममित्यर्थः, अपरेषामपि किञ्चिद्वैनाशिकत्वसाधादित्याह-किश्चिदिति । द्वितीयस्य शिरस इति, किं कार्यमादौ सत् ? उतासत् ? आहोखित् सदसदिति
१सि. क. °स्तेमन्येमहोज्वल। द्वा० न० १५ (५३)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org