________________
wwwwww
द्वादशारनयचक्रम्
[विध्युभयारे तैर्यग्योनानां सप्रपश्चानामन्योन्योपकारः, रक्षासंग्रहसेवनपूजनपोषणस्थितिशुश्रूषादेर्विकल्पा वर्णाश्रमादीनां योज्याः । एककर्तृका भेदाः परस्परोपकारकोपकार्यत्वात् , शयनासनादिवत् , तस्मादस्ति प्रधानम् । इतश्चास्ति [प्रधानम् , ] शक्तिमदवस्थामात्रत्वात् , व्यक्तानां कार्यकारणानामधिष्ठितानाश्च स्वकार्यसमर्थाः त्रिषु कालेषु शक्तयोऽवतिष्ठन्ते, तद्यथा-प्राक् प्रवृत्तेः शक्त्यवस्थानमनुमीयते प्रवृत्त्यु5पलब्धेः, प्रवृत्तिकालेऽवस्थानम् , अपवर्गदर्शनात्, प्रवृत्त्युत्तरकालमवस्थानम् , प्रवृत्तिव्यतिरेकेणावस्थादर्शनात् , एवमाद्यन्तवद्व्यक्तमुपलभ्य व्यक्तशक्त्याऽवस्थाऽस्ति, अनवस्थितशक्तेराद्यवसानाभावात् , अवस्थितशक्तरेव तद्भावात् , मृदः पिण्डादिभाववत् , तस्मात् व्यक्तशक्तिप्रवृत्त्युपलब्धेरस्ति प्रधानमिति । इतश्चास्ति प्रधानम् , वैश्वरूप्यस्याविभागप्राप्तेः, देशकालप्रमाणबलरूपप्रत्यासत्तेरवश्यम्भावोच्छेदाभ्याञ्च निवृत्तेः, जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम् , तथा स्थावराणां जङ्गमेषु जङ्गमानां 1" स्थावरेषु स्थावराणां स्थावरेषु जङ्गमाना जङ्गमेषु, जात्यनुच्छेदेन सर्व सर्वात्मकम् , देशकालाकार
wwwwwwwwwww
mamim
wwwimwww.mmm
वातवर्षागमैर्मानुषतैर्यग्योनानुपकरोति, मानुषं इज्यायागस्तुतिभिर्दैवं रक्षति, पोषणभैषज्यैश्च तैर्यग्योनमुपकारोतीति भावः । ब्रह्मक्षत्रविट्शूद्रभेदानां वर्णानामाश्रमाणाञ्च मानुषाणां परस्परमुपकारमाह-रक्षेति। तदेमुपकार्योपकारकभावस्य बुद्धिकृतस्येव दर्शनात् तझ्यवस्थापिता कश्चित्स्यात् यतोऽय विभाग इति प्रधानसिद्धिरित्याह-एककर्तृका इति । अथ प्रवृत्तिमात्रस्य शक्ति
पूर्वत्वात् व्यक्तलक्षणप्रवृत्तिरपि शक्तिपूर्वेति शक्तिमतोऽव्यक्तस्य सिद्धिरिति प्रधानसाधकं तुर्य वीतमाह-इतश्चास्तीति । शक्तीनां 16 त्रिकालावस्थानं साधयति-तद्यथेति, नच प्रवृत्त्युपलब्धिपूर्व नास्ति शक्तिः, तदानीं कार्याभावे तत्वरूपहानिप्रसङ्गादिति वाच्यम् ,
सत्यावरणे प्रदीपस्येव प्रतिबन्धेन कार्याभावेऽपि शक्तिस्वरूपाव्याघातात्, प्रतिबन्धापगमे प्रवृत्तिदर्शनाच्च, न च प्रवृत्तिसमकालमेव सहकारिभिः प्रधाने शक्त्युत्पत्तिरिति वाच्यम् , खगतशक्त्यनुगुणमेव सहकार्युपादानात् प्राक् प्रवृत्तेः शक्तिसिद्धिरिति भावः । ननु प्रवृत्तिसमकालं शक्तेर्विनाशः स्यादित्यत्राह-प्रवृत्तिकाल इति, अपवर्गदर्शनात्-कार्यनिष्टादर्शनादित्यर्थः, यदि प्रवृत्तिसमकालमेव तस्या विनाशः स्यात् , तर्हि कार्यनिष्ठेव न स्यात, तन्निमित्तत्वात् कार्यस्येति. भावः । ननु प्रवृत्त्युत्तरकाले तद्विनाशः 20 स्यादित्यत्राह-प्रवृत्युत्तरकालमिति, विनाशसामय्यभावात् क्षणिकताया अप्रामाणिकत्वात् प्रवृत्तिमन्तरेणापि शक्त्यवस्थाने बाधकाभावात् प्रवृत्त्युत्पत्तिपूर्व तत्सद्भावान्न प्रवृत्त्युत्तरं शक्तिविनाशः, पुनः प्रवृत्तिदर्शनाच्छक्त्यन्तरोत्पत्तौ हेत्वभावाचेति भावः। एवञ्च व्यक्तस्य पूर्वोत्तरकोटिदर्शनादसत्कार्यनिषेधाच तस्यादावन्ते च शक्त्यात्मनाऽवस्थयाऽवस्थानमनमीयते, शक्त्यात्मनाऽनवस्थितस्य पूर्वोत्तरावस्थाऽसम्भवादित्युपसंहरति प्रधानसाधनचतुर्थहेतुम्-एवमाद्यन्तवदिति । अथ
पञ्चमं वीतमाह-इतश्चास्ति प्रधानमिति वैश्वरूप्यं नानारूपं जगदित्यर्थः, तस्याविभागः तिरोभावः, तत्प्राप्तेरित्यर्थः, 25 कार्यमात्रस्य संहारकाले क्वचिदविभागप्राप्तेरिति भावः, यद्वा वैश्वरूप्यस्य जगतः न विभागोऽस्येत्यविभागः अविभक्तः, ततः
प्राप्तेः वैश्वरूप्यस्याविभक्तादुपलब्धेरित्यर्थः, वेश्वरूप्यस्याविभागकारणपूर्वकत्वादिति भावः । तत्र विश्वरूपस्य तिरोभावमाहदेशकालेति । विश्वरूपस्याविभागपूर्वकत्वमाह-जलभूम्योरिति, रसरूपस्पर्शशब्दवतो जलस्य हि गन्धरसरूपस्पर्शशब्दवत्या भूमेश्च पारिणामिकं वनस्पतिलतागुल्मादिषु मूलफलप्रसवपल्लवादिगतरसादिवैश्वरूप्यं दृष्टम्, सोऽयमनेवमात्मिकाया
भूमेरनीदृशस्य वा जलस्य न परिणामो भवितुमर्हति, असत्कार्यवादस्य पराकृतत्वात् , तथा स्थावरणां जगमेषु मनुष्यपशुमृगा30 दिषु रसादिवैचित्र्यं दृष्टम् , उपभुजाना हि ते फलादीनि रूपादिभेदसम्पदमासादयन्ति, एवं जगमानां पारिणामिकं स्थावरेषु दृष्टम् , रुधिरावसेकात् किल दाडिमीफलानि ताल फलमात्राणि भवन्तीति सर्वेषु वस्तुषु सर्वविकारजननशक्तिः सिद्ध्यति, तत्र हेतुमाह-जात्यनुच्छेदेनेति, जलत्वभूमित्वादिजातेः सर्वत्र प्रत्यभिज्ञायमानत्वेनानुच्छेदादिति भावः । ननु सर्व सर्वात्मकञ्चेत् सर्वस्य सर्वदा सर्वथा सन्निधानात् समानकालीनानां भावानामभिव्यक्तिः प्रसज्येत, नहि सन्निहिताविकलकारणं कार्य विलम्बितुमर्हतीत्यत्राह-देशकालेति अयोग्यदेशादिप्रतिबन्धाद्भावानां नैकदाऽभिव्यक्तिः, यथा कुङ्कमस्य पाञ्चालदेशे प्रावृषो 35 निदाधे काले मृग्यां मनुष्यादेरपुण्यवतः सुखस्य नाविर्भावः, देशादेः प्रतिबन्धादिति भावः । एवञ्च विभागाः प्रतिनियता
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org