________________
Amirmana
कार्यकरणभावहेतुः] न्यायागमानुसारिणीव्याख्यासमेतम्
४१५ दर्शनात् तारसुतारसुनेत्रसुमरीचौत्तमाम्भसिकाख्या इति नव तुष्टयः । एकादशेन्द्रियवधा बधिराघ्राबन्धमूकजडोन्मादकुणिकुष्टिक्लीबोदावर्त्तपमुताः, पूर्वोक्तेभ्यः सिद्ध्युपायेभ्यो विपरीतनामानोऽष्टावसिद्धयः, तथा तुष्टिविपरीतनामानोऽनाम्भसिक्यादयो नवातुष्टय इत्यशक्तिरष्टाविंशतिविधा, अश्रेयःप्रवृत्त्यहङ्कारममकारक्रोधमरणविषादाः तमोमोहमहामोहतामिस्रान्धतामिस्राः पञ्च विपर्यया इत्येतदृष्टफलपरिमाणम् । इत्थं रूपप्रवृत्तिफलपरिमाणमाध्यात्मिकानां कार्यकारणात्मकानां भेदानां । निर्दिष्टम् । अनेन तैर्यग्योनमानुषदेवेष्वपि सप्रपञ्चेषु ज्ञेयम् , तस्मात् परिमितत्वात् संसर्गपूर्वका भेदा ब्रीहाविव संसृष्टा मूलाङ्करपर्णनालकाण्डप्रसवतुषशूकपुष्पक्षोरतन्दुलकणभावाः, यथा वा शुक्रशोणितसंसृष्टाः कललार्बुदमांसपेशिशरीरव्यूढबाल्यकौमारयौवनस्थाविरा भावा इति । इतश्चास्ति प्रधानं भेदानां कार्यकारणभावात् , शब्दात्मना व्यवतिष्ठमानानि सत्त्वरजस्तमांसि प्रकाशप्रवृत्तिनियमैः परस्परार्थं कुर्वन्ति, सत्त्वं शब्दात्मना व्यवतिष्ठमानं तद्भावायेतरयोः प्रवृत्तिं ख्यापयति, एवं रजः प्रव- 10 र्तयति तमो नियमयति, शब्दाद्यारब्धानि पृथिव्यादीन्यारम्भक्रमेण वृत्तिसङ्ग्रहपक्तिव्यूहावकाशदानैः परस्परार्थ कुर्वन्ति, इन्द्रियाण्यन्योन्यविषयग्रहणसाहायकेनोपकुर्वन्ति, यच्च यस्य विषयं प्रख्यापयति अर्जयति पाति संस्कारमभ्युपधत्ते वा तत्कारणमितरत् कार्यम् , स्थानसाधनात्मप्रख्यात्युपभोगैः करणार्थ कर ति कार्यम् , करणं वृद्धिक्षतभनसंरोहणसंशोकपरिपालनैः कार्यार्थ करोति, एवं बाह्याध्यात्मिकानां दैवमानुषनव तुष्टय इति भावः । करणवैकल्यप्रयुक्ता अशक्तीराह-एकादशेति इन्द्रियाणां प्रकर्षापन्नेन तमसा ग्रहणरूपस्य 16 सत्त्वस्याभिभवात् स्वस्वविषयाप्रवृत्तय इन्द्रियाणामेकादशत्वात्तद्वधा अप्येकादश, तत्र बाधिर्याघ्रातृत्वान्धत्वानि श्रोत्रघ्राणचक्षुषाम् , मूकता वाचो जडता रसस्योन्मादो मनसः कुणिता पाणेः कुष्ठिता त्वचः क्लीबतोपस्थस्योदावतः पायोः पङ्गुता पादयोरिति । एवं सिद्धिविपरीतास्तारादिविपरीता असिद्धयः अतारादिनाभ्योऽष्टविधाः, तुष्टय आम्भसिक्यादयस्तद्विपरीता अनाम्भसिक्यादयो नवविधा इत्याह-पूर्वोक्तभ्य इति, विपर्ययभेदानाह-अश्रेयःप्रवृत्तीति अश्रेयसि प्रवृत्तस्य भौतिकेष्वाकारेषु शिरःपाण्यादिध्वात्माभिमानः प्रथमो विपर्ययस्तम इत्युच्यते, करणवृत्तिष्वहं श्रोताऽहं द्रष्टेत्येवमहङ्कारो मोहो द्वितीयः, बाह्येषु विषयेषु पित्रादि- 20 गृहादिषु ममेदमित्यभिनिवेशो महामोहस्तृतीयः, दशविधे कुटुम्बे विषयेषु वा प्रतिहन्यमानस्य यः क्रोधोऽभिनिवेश आवेशः स तामिस्रश्चतुर्थः, मरणविषादोऽन्धतामिस्रः पञ्चम इति सामान्येन पञ्च विपर्ययभेदा इति दृष्ट फलपरिमाणमुक्तम् । तदेवं रूपप्रवृत्तिफलपरिमाणमुक्तमित्याह-इत्थमिति, अथ भूतसर्गमाह-अनेनेति पशुपक्षिमृगसरीसृपस्थावरान्ताः पञ्च तैर्यग्योनाः, मानुष्य एकविधः सर्गः, ब्राह्मप्राजापत्येन्द्रपैत्रगान्धर्वयाक्षराक्षसपैशाचभेदेनाष्टविधो देवसर्ग इति समासतः परिमाणं ज्ञेयमिति भावः । अथ द्वितीयं वीतमुपसंहरति-तस्मादिति व्रीहाविवेति बाह्योदाहरणम् , शुक्रशोणितेति आध्यात्मिकोदाहरणम् , कललबुद्धदपेशीमांसगर्भ-25 कुमारयोवनस्थाविराख्यान्यष्ट विधशरीराणि यथा सूक्ष्मशरीरमाश्रित्य सिद्ध्यन्ति तथेमे भेदा इति भावः। तृतीयं वीतानुमानमाहइतश्चास्तीति कारणञ्च कार्यञ्च कार्यकारणे, अल्पस्वरस्य पूर्वनिपातः तद्भावात् , अत्र कार्यकारणभावपदेन निर्व|निर्वर्तकभावो नाभिप्रेतः, किन्तर्युपकार्योपकारकभावः, यदुपकरोति तत्कारणम्, यदुपक्रियते तत्कार्यम्, तत्र सत्त्वर प्रकाशप्रवृत्तिनियमैर्धमैरितरेतरोपकारेण प्रवृत्तिं दर्शयति-शब्दात्मनेति । एतदेव समुच्चित्योक्तं विशदयति-सत्त्वमिति, सत्त्वाधारब्धशब्दाद्यारब्धपृथिव्यादीनां परस्परोपकारमाह-शब्दादीति, आदिना स्पर्शरूपरसगन्धतन्मात्राणि ग्राह्याणि, यथा- 30 क्रममय निर्देशः, तदारब्धानि पृथिव्यादीनि, अत्रादिना जलतेजोवाय्वाकाशानां ग्रहणम् , व्युत्क्रमेणायं निर्देशः, प्रजानां भूतान्तराणाञ्च वृत्त्या पृथिव्युपकरोति, आपः सङ्ग्रहेण पिण्डीकरणेन शुद्ध्या च, तेज आहारपाचनेन वायुः सर्वपदाथोनां व्यूहनेनअविरलीकरणेनाऽऽकाशं सर्वेषामवकाशप्रदानेनेति भावः । श्रोत्रादीन्द्रियाणामितरेतरविषयग्रहणेनोपकार इत्याह-इन्द्रिया. णीति । शरीरे कार्यकारणयोः परस्परमुपकारमाह-स्थानेति । देवादीनामुपकारमाह-दैवेति दैवं यथाकालं शीतोष्ण
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org