________________
ક
द्वादशारनयचक्रम्
[ विध्युभयारे
परिमाणम् । दृष्टफलपरिमाणं करणानि प्रवर्त्तमानानि' क्रियन्ते सामान्यतश्चतुर्णां शक्त्यादीनामन्यतमं
प्रत्ययं कुर्वन्ति, शक्तिरुक्ता, सिद्धिरूहेन साधनं तारं शब्देन सुतारमध्ययनेन तारतारं वातादीन्या
wwwwww
wwwwwwww
ध्यात्मिकानि अभ्यतीत्य क्रियया तारसुतारतारतारं तदन्यतमेन प्रमोदं मानुषाद्याधिभौतिकात्ययेन तन्त्रयान्यतमेनैव प्रमुदितं शीताद्याधिभौतिकात्ययेन तत्रयान्यतमेनैव मोदमानं यदा कुशलसंस्पृष्टव्य5 पाश्रयात् संदेहातिक्रमात्तदन्यतमेन रम्यकं दौर्भाग्यातिक्रमेण सदाप्रमुदितमित्यष्टौ सिद्धयः । सन्नि - हितविषयसंतोषाश्चिकीर्षितादर्थादूनस्य निवृत्तिरेवैका तुष्टिरुपायनवत्वान्नवविधा तुष्टिः प्रकृत्युपादानकालभागकारणपूर्वक पुरुषान्यत्वापरिज्ञानान्माध्यस्थ्यलाभः, अम्भःसलिलौघवृष्ट्याख्याः शरीरशरीरिविशेषणोपायाश्चतस्रस्तुष्टयः, बाह्याश्च विषयनिर्वेदजाः पञ्चविषयेषु अर्जनरक्षणक्षयसङ्ग हिंसादोष
ANA
www.w
दृष्टफलेति, करणानि त्रयोदश, दश बाह्येन्द्रियाणि द्वाराणि, द्वारवती च समनोहङ्कारा बुद्धिः, एतानि प्रवर्त्तमानानि शक्तितुष्टि10 सिद्धिविपर्ययाणामन्यतमं विदधति, एषः सामान्यतः प्रत्ययसर्ग उच्यते, विशेषतस्तु पञ्चाशत् प्रकारः प्रत्ययसर्गः । प्रभुशक्तत्यादिः पूर्वमुकैवेत्याह- शक्तिरुक्तेति । ऊहेनेति, यस्य जन्मान्तरसंस्कृतधियो बन्धमोक्षकारणमुत्प्रेक्षमाणस्य प्रधानपुरुषान्तरज्ञानमुत्पद्यते तस्य सिद्धिरूहहेतुका प्रथमा तारमित्युच्यत इति भावः । शब्देन सुतारमिति, इतरेणाधीयमानं सांख्य पाठ निशम्य यदुदेति तत्त्वज्ञानं सा सिद्धिः शब्दहेतुका द्वितीया सुतारमित्युच्यत इति भावः । अध्ययनेनेति यस्य शिष्याचार्यसम्बन्धेन सांख्यशास्त्रं शब्दतोऽर्थतश्चाधीत्य ज्ञानमुत्पद्यते तस्याध्ययन हेतुका तृतीया सिद्धिः तारतार मित्युच्यत इति भावः । 15 आध्यात्मिकाधिभौतिकाधिदैविकानि त्रीणि दुःखानि तद्विघातरूपास्तिस्रः सिद्धीराह - वातादीनीति, आध्यात्मिकानां वातादीनां सिद्धिविरोधिनामायुर्वेद क्रियानुष्ठानेन विघातं कृत्वा पूर्वोदितानां तारसुतारतारताराणामन्यतमेन साधयति सा चतुर्थी सिद्धिः प्रमोदमित्यभिधीयत इति भावः । मानुषादीति मानुषादिनिमित्तकानामाधिभौतिकानां सिद्धिविरोधिनां सामदानादिना यतिधर्मानुगुणेन वोपायेन निरोधं कृत्वा ताराद्यन्यतमेन यत् प्रसाधनं सा पश्चमी सिद्धिः प्रमुदितमित्युच्यत इति भावः । शीतादीति, शीतादीनामाधिदैविकानां दुःखानां स्वधर्मानुरोधेन शममानीय पूर्वेषां तारादीनामन्यतमेन 20 यत्साधनं स षष्ठी सिद्धिर्मोदमानमित्यभिधीयत इति भावः । यदेति यदा तु कुशलं संस्पृष्टं सन्मित्रमाश्रित्य संशयनिवृत्तिं लभते न तु गुरोः सकाशादवधारयति सा सिद्धिः सप्तमी रम्यकमित्युच्यत इति भावः । दौर्भाग्येति यदा च दौर्भाग्यं दानेनातीत्य सवासनसंशयविपर्ययानां परिहारेण ताराद्यन्यतमेनैव विवेकसाक्षात्कारं साधयति सेयमष्टमी सिद्धिः सदाप्रमुदितमित्युच्यत इत्यष्टौ सिद्धयो वेदितव्या इति भावः । अथ सन्निहितेष्वेव विषयेष्वेव सन्तोषात् चिकीर्षितानुष्ठानादूनेनैव निवृत्तिः सन्तोषः तुष्टिः, सैकभेदापि विषयभेदान्नव घेत्याह- सन्निहितेति । प्रकृतीति, प्रकृतितुष्टिरुपादानतुष्टिः कालतुष्टिर्भोग्यतुष्टिश्वे त्याघ्या25 मिक्यश्चतस्रः, तत्र कञ्चित् प्रकृतिमात्रं जानाति तद्विकाराणामपारत्वात् तन्मात्रसन्तुष्टः प्रव्रजितो न जानाति तस्याः सगुणागुणत्वनित्यानित्यत्वचेतनाचेतनत्वसर्वा सर्वगतत्वादिधर्मान्, न चैतावता मोक्षस्तस्मादेषा प्रकृतितुष्टिरम्भ इत्यभिधीयते, प्रधानममितं भातीत्यम्भ इति व्युत्पत्तेः । प्रव्रज्यालिङ्गं दण्डाद्युपादानम्, तस्मादेव मुक्तिः प्राप्तव्या न प्रकृतिज्ञानमात्रेण, तस्मात्तत्रैव परितुष्टः प्रव्रजितस्तस्योपादानरूपा द्वितीया तुष्टिः सलिलनाम्नी कथ्यते । न केवलं प्रकृत्युपादानमात्रान्मोक्षः किन्तु कालपरिपाकमपेक्ष्य सिद्धिर्भवतीति तुष्टः कालापेक्षी स्थितस्तस्य तृतीया तुष्टिरोघाभिधानोच्यते । या तु न प्रकृतेन पादा30 नान्न वा कालात्, किन्तु भाग्यादेवेति भाग्यमेव हेतुर्नान्यदिति तुष्टिस्सा भाग्याख्या चतुर्थी दृष्टिरित्युच्यते । यद्वा प्रकृति - मात्रादेव भावोत्पत्तिरिति, उपादानाद्भावोत्पत्तिर्न प्रधानमात्रादिति, कालाद्भावोत्पत्तिर्न केवलं प्रकृतित उपादानतो वेति, भाग्यादेव भावोत्पत्तिर्न केवलं प्रकृत्युपादानकालेभ्य इति चतस्रः प्रकृत्यादितुष्टयो विज्ञेयाः । बाह्याः पश्च तुष्टी राह - बाह्याश्वेति अव्युत्पन्नात्मविचारस्य योगिनो विषयदोषदर्शनमात्रात् सङ्गदोषनिवृत्तिर्बाह्या तुष्टिः, शब्ददिविषयाणामर्जने रक्षणे विनाशे उपभोगे हिंसायाञ्च दोषदर्शनात्तेभ्यो निवृत्तिर्यथाक्रमं तारसुतारसुनेत्रसुमरीचौत्तमांभसिक्याः पञ्च तुष्टयः पूर्वतुष्टिभिः सह
१ सि. क. निक्रियन्ते सा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org