________________
परिमाणहेतुः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
5
www.www.
कारणात्मकानां नेयम्, प्रसादादिशोषादिवरणादि का[ र्या ]त्मकं दृष्टं गुणत्रयैकजातिसमन्वितम्, तैरारब्धान्याकाशादीनि भूतानि एकोत्तरगुणवृद्ध्या तत्कार्यत्वात्तत्समन्वयाच्च तत्पूर्वकाणि, तथा बाह्यानामपि तैर्यग्योनमानुषदेवानां तत्पूर्वकतेति, तस्मात् त्रैगुण्यसमन्वितत्वाद्भेदाः त्रिगुणपूर्वकाः चन्दनशकलादिवत् शकलकपालामंत्र भूषणप्रभृतीनामिति व्याप्तिदर्शनार्थं साधनस्य दृष्टान्तबाहुल्यम् । इतश्चास्ति प्रधानम्, भेदानां परिमाणात्, आध्यात्मिकानां कार्यकारणात्मकानां परिमाणं दृष्टम्, सामान्यतः त्रयः सुखदुःखमोहाः कार्यम्, कारणं विशेषतः षोडश भावाः - पञ्च भूतानि, एकादशेन्द्रियाणि चेत्यादि रूपपरिमाणम्, प्रवृत्तिपरिमाणं द्विधा - हिताहितप्राप्तिपरिहारार्थत्वात्, धर्मादिप्रयोजनत्वाच्चतुर्धा, धृति सदाचार कामसुख कुतूहलविनिवृत्तिप्रयोजनं पश्चधा प्राणादिलक्षणा चेति प्रवृत्तिपरिमाणम्, फलपरिमाणं द्विविधं दृष्टमदृष्टच, अदृष्टं कार्यकरणसामर्थ्यं प्रभुशक्तिः, साधनसान्निध्यं विभुशक्तिश्चेति द्विधा, एवमशक्तिस्तद्विपरीता द्विधैव, शक्तिर्देवगन्धर्वयक्षरक्षः पितृपिशाचाः, अशक्तिर्मानुषपशुमृग- 10 पश्चिसरीसृपस्थावराणि, शक्तेः प्रकृतिः शरीरं निमित्तमशक्तेर्जराय्खण्डजोद्भित्संशोकाः मातापितृभ्यां जरायुः, अण्डञ्च तत् षाद्वैौशिकम् पृथिव्या उद्भिज्जं पृथिव्युदकसंशो कासंशोकजम्, इत्यदृष्टफल
"
min
www
Jain Education International 2010_04
"
प्रसादादीति । एकोत्तरेति, आकाशस्य शब्दः, वायोः शब्दस्पर्शी, तेजसः शब्दस्पर्शरूपाणि, जलस्य शब्दस्पर्शरूपरसाः पृथिव्याः शब्दस्पर्शरूपरसगन्धा इति भावः । समन्वयात् तत्पूर्वकत्वं साधयति तस्मादिति । प्रधानसाधकं द्वितीयं वीतमाह- इतश्चेति, भेदानां कार्यकारणात्मकानामियत्तालक्षणं परिमाणं दर्शयति- आध्यात्मिकानामिति, रूपपरिमाण 15 प्रवृत्तिपरिमाणं फलपरिमाणञ्चेति परिमाणं त्रिविधं तत्रादौ रूपपरिमाणमाह - सामान्यत इति । प्रवृत्तिपरिमाणं द्विधा चतुर्धा पञ्चधा च दर्शयति- प्रवृत्तीति, हितप्राप्त्यर्थाऽहितनिवृत्त्यर्था चेति द्विधा, धर्मार्थकाममोक्षार्था चेति चतुर्धा, धृत्यादि मेदेन पञ्चधा, तत्र व्यवसायादप्रच्यवनं धृतिः सर्वविषयिणी रजस्तमोबहुला च फलमनभिसन्धाय शास्त्रोक्तेषु कार्येषु अवश्यकर्त्तव्यताबीजभावः श्रद्धापरपर्यायः सदाचारः आश्रमविषयः सत्त्वरजोबहुलः । दृष्टानुश्रविकफ नाभिलाषद्वारको बुद्धेराभोगः कामसुखा दृष्टानुश्रविकविषयिणी सत्त्वतमोबहुला च, वेत्तुमिच्छा विविदिषा तत्पर्याया कुतूहला व्यक्तविषयिणी रजोबहुला च । वेद- 20 नेच्छा निवृत्तिर विविदिषा पर्याया निवृत्तिरव्यक्तविषयिणी तमोबहुला चेति । प्राणापान समानोदानव्यानाः पश्च प्रवृत्तयः, इमाः पश्च प्राणादिवृत्तयः धृत्यादिपञ्च कर्मयोनिभ्यः प्रवर्त्तन्त इति भावः । फलपरिमाणमाह-फलेति ब्रह्मादिस्तम्बपर्यन्ते संसारे कर्मप्रतिलम्भोऽदृष्टम्, तत्र प्रकृतेः प्रभुशक्तिः कार्यकरणसामर्थ्यम्, तया हि पुरुषस्यार्थः कर्त्तव्य इति महदा दिसूक्ष्मपर्यन्तं लिङ्गमुत्पाद्य धर्मादिनाऽष्टविधेनाधिवासयति, तदधिवासितं सूक्ष्मशरीरं लिङ्गाख्यं तेषु तेषु निकायेषु यथायथं संसरति, सेयं प्रधानस्य प्रभुशक्तिः । साधनसान्निध्यं निमित्तनैमित्तिकप्रसक्तिर्विभुशक्तिः, धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानेश्वर्याणि निमित्तरूपाः, 25 महदादिकरणाश्रिताः, तत्कार्यं स्थूलं शरीरं नैमित्तिकम्, निमित्तरूपा अपि प्राकृतिकाः वैकृतिकाश्चेति द्विविधाः, प्राकृतिका धर्मज्ञानवैराग्यैश्वर्यरूपा उत्तमसत्त्वस्यादिविदुषः कपिलस्यैव वैकृतिकाः प्रयत्नसाध्याश्चत्वारः प्राचेतसादीनामपरेषामधर्मादिसहिता अष्टावपि । तत्र वैकृतिकधर्मादिनिमित्तेन नैमित्तिकं दर्शयति शक्तिरिति शक्तिर्धर्मादि, धर्मादिनिमित्तेन देवादियोनिप्राप्तिरिति भावः, तद्विपरीतेनाशक्तिरूपेणाधर्मादिना पश्वादियोनिप्राप्तिः, मिश्रेण मनुष्यलोके स्थितिरिति भावः, तत्र धर्मादयश्चतस्रः शक्तयो महदाद्यन्तःकरणं संसरन्ति संसारे, कार्यच शरीरं जराय्वादिकं तदाश्रित्य शक्तयोऽशक्तयश्च वर्त्तन्त इत्याशयेनाह - शक्तेरिति । 30 पाट्कौशिकमिति षङ्गिः कोशैर्निर्वृत्तं षाट्कौशिकं लोमरुधिर मांसास्थिस्नायुशुक्रलक्षणाः कोशाः, तत्र लोमरुधिरमांसानां मातृतः सम्भवः, अस्थिस्नायुशुक्राणां पितृतः, तच्च जरायुजमण्डजश्चेति, उद्भिज्जपदेन स्वेदजस्यापि ग्रहणम्, खेदजोद्भिज्जयोः भूम्युदको द्भेदप्रभवत्वादित्याशयेनाह - पृथिव्या इति, संशोकः स्वेदः । सिद्धितुष्ट्यशक्तिविपर्ययलक्षणं दृष्टफलपरिमाणमाह१ सि. क. तिर्यग्योनि० ।
४१३
For Private & Personal Use Only
www.jainelibrary.org