________________
४१२
द्वादशारनयचक्रम्
[ विध्युभयारे
परिशेषतो हेतुत एवायमित्यवधार्य कार्यसिद्धौ व्यपदिश्यते तदाऽवीताख्यो भवतीति प्रयोगलक्षणम्, स्वलक्षणन्त्वस्य परपक्षप्रतिषेधेन स्वपक्षपरिग्रह क्रिया अवीत इति, वीतस्य वाऽभावः, पञ्च प्रदेशाः प्रतिज्ञा हेतुर्दष्टान्त उपसंहारो निगमनमिति, तत्र साध्यावधारणं प्रतिज्ञा, साधनसमासवचनं हेतु:, तन्निदर्शनं दृष्टान्तः, साध्यदृष्टान्तयोरेकक्रिया उपसंहारः, प्रतिज्ञाभ्यासो निगमनमिति ।
www.ww
www
5 पुरस्ताद्वीतस्य प्रयोगं न्याय्यं मन्यन्ते पश्चादवीतस्येति, प्रयोगश्च - अस्ति प्रधानं भेदानामन्वयदर्शनात्, आध्यात्मिकानां भेदानां कार्यकारणात्मकानामेकजातिसमन्वयो दृष्टे इति, चन्दनशकलादिदृष्टान्तं वक्ष्यति, सामान्य पूर्वकाणाञ्च भेदानामित्यादि एकजाति समन्वय प्रदर्शनार्थम्,
www.www.www
सुखादित्रिगुणैक जातिसमन्वितानां कार्यात्मकानां तत्सन्निवेशविशेषत्वं
www.www.www.
Jain Education International 2010_04
wwwwwwwww
पक्षीकृत्यैककार्यत्वादिति व्याप्तिं दर्शयति, तथा
हेतुमाह तथोत्तरत्रोपसंहारात् पञ्चानां पञ्चानामित्यादिवीप्सया
"
10 जगदुत्पत्तिः, तस्मात् परिशेषतः प्रधानाख्यात् कारणादेव सम्भवतीति साध्यसिद्धौ हेतुरपदिश्यते तदाऽवीताख्यो भवतीति भावः । वऋा स्वयं प्रतिपन्नमर्थं परं प्रतिपिपादयिषितुं वाक्यभावमुपनीयते तदन्तरेण परं बोधयितुमशक्यत्वात् तस्य च पुनरवयवाः पञ्चेत्याह-पञ्चप्रदेशा इति पञ्चावयवा इत्यर्थः, यद्विषयौ जिज्ञासासंशयौ तस्य साध्यस्य तद्व्युदासेन निर्णयवचनं प्रतिज्ञेति तल्लक्षणमाह-साध्येति । साधनेति । साध्यतेऽनेनेति साधनं लिङ्गम् समासः संक्षेपः, साधनस्य समासवचनं साधनसमासवचनम्, साधनग्रहणं तदाभासय्यावर्त्तनाय, तदाभासो हि संशयविपर्यय हेतुत्वान्न साधनम्, समासग्रहणमवयवा15 न्तरावकाशदानार्थम्, यश्च हेतोः साध्यसहभावित्वप्रकाशकः प्रपञ्चः सोऽवयवान्तराणीति भावः । दृष्टान्तमाह - तदिति, तस्य साधनस्य साध्येन सहभावित्वनिदर्शनं दृष्टान्तः, यथा संहत्यकारिणां परार्थत्वं दृष्टम्, शयनासनशरणानामिवेति भावः । उपसंहारलक्षणमाह-साध्येति, साध्यस्य चक्षुरादिपारार्थ्यलक्षणस्य दृष्टान्तस्य च शयनासनादेर्धर्मस्य सामान्यात् यथेदं तथेदमित्येकक्रियोपसंहार इत्यर्थः। निगमनलक्षणमाह-प्रतिज्ञेति, हेतुदृष्टान्तोपसंहारापेक्षया पुनः प्रतिज्ञाया अभ्यासो निगमनम्, यथा तस्मादस्ति पुरुष इति, एषामवयवानां विशिष्टार्थसमुदायो वाक्यमिति भावः । वीतावीतयोः प्रयोगनियममाह - पुरस्तादिति, 20 अवीतस्य हि लक्षणं परिशेषतः साध्यानुग्रहः, तत्र प्रथमं बीतेन प्रधाने धर्मिणि खरूपेणानधिगते परपक्षप्रतिषेधमात्रेणावीतेनोपसंहारे क्रियमाणे परिशेषलक्षणं बाध्यते, आदौ हि प्रतिषेधमात्रं क्रियते, तेन यथा हेतुविरोधात् परमाण्वादिभ्यो न व्यक्तमुत्पद्यते, तथा हेत्वभावात् प्रधानादपि नोत्पद्यत इति कल्पयितुं शक्यत्वादवीतात् तद्व्यवच्छेदोऽपि गम्येत, ततश्च कः परिशेषः स्यात्, वीतेन स्वरूपेण परिच्छिन्ने तु धर्मिणि यथावदुपसंहारोऽवकल्पते, न चेत् परमाण्वादिभ्य उत्पद्यते तर्हि परिशेषतः प्रधानादेव व्यक्तमुत्पद्यत इति तस्मात् प्राग् वीतप्रयोगो न्याय्य इति भावः । अथ पञ्चवीतान् वीतप्रयोगान् दर्शयितुमादौ मेदानां समन्व25 यादिति प्रथमवीतं दर्शयति-अस्तीति भेदानां विशेषाणां समन्वयात्, समन्वयोऽनुगमः, एकजात्यनुगमादित्यर्थः, ये एकजात्यनुगता भेदास्तेषां तथाभूतं कारणं दृष्टम्, यथा शकलकपालामत्रभूषणप्रभृतीनां चन्दनादिः, तथैषामपि बाह्याध्यात्मिकानां कार्यकार णात्मकानां सुखदुःखमोहानुगतत्वादेकेन तथाविधेन भवितव्यम्, य एषां समुदाय स्तत्प्रधानमिति भावः, एतदेवानुमानं स्पष्टयतिआध्यात्मिकानामिति । एतस्यैव व्याख्यानं साध्यपक्षहेतू पदर्शनमुखेन दर्शयति-सामान्यपूर्वकाणाश्चेति, मूलकारकालीनसांख्यग्रन्थानामिदानीमनुपलम्भादत्र मूलं नोद्रियते, सामान्यपूर्वकाणाञ्च भेदानामाध्यात्मिकानां कार्यात्मकानां पञ्चानां 30 शब्दस्पर्शरूपरसगन्धानां सुखदुःखमोहसन्निवेश विशेषत्वम्, पञ्चानां पञ्चानामेककार्यत्वात् सुखानां शब्दस्पर्शरूपरसगन्धानां प्रसादलाघवाभिष्वङ्गोद्धर्षप्रीतयः कार्यम्, दुःखानां शोषतापभेदस्तम्भोद्वेगापद्वेगाः, मूढानां वरणसदनापध्वंसन वैभत्स्य दैन्यगौरवाणीति तथा कारणात्मकाः श्रोत्रत्वक्चक्षुर्जिह्वामणिवाग्घस्तपादपायूपस्थमनांस्येकादश, पञ्चभूतान्याकाशादीनि च बाह्याश्च तैर्यग्योनमानुषदैवाः ब्रह्मादिस्तम्बपर्यन्ताः सर्व एवैते सुखदुःखमोह कार्यत्वात्तत्समन्वयाच्च तत्पूर्वकाः चन्दनशकला, दिवदित्याह - सामान्यपूर्वकाणाञ्च भेदानामिति । सामान्यपूर्वका बाह्याध्यात्मिका भेदाः सुखादिगुणत्रय सन्निवेशविशेषाःएककार्यत्वादित्यनुमानं दर्शयति-तत्सन्निवेशेति । यत्प्रसादादिकार्यं दृष्टं तत्सुखादित्रयैक जातिसमन्वितमिति व्याप्तिं दर्शयति५ सि. क. दृष्टान्तः । २ सि. क. समन्वयं कार्यकात्मकानां ।
For Private & Personal Use Only
www.jainelibrary.org