Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 197
________________ ४४ woman द्वादशारनवचक्रम् [विधिनियमारे पादान्तरपरिकल्पितं त्यक्त्वाऽस्मदुक्तकर्मात्मैक्यसर्वसर्वात्मक[व]सर्वेश्वरत्वाभ्युपगमोऽवश्यम्भावी, सस्मात्त्वयोक्तसम्भूयैकार्थकारित्वाचेतनत्वस्थित्वाप्रवृत्तीनामपक्षधर्मता, एकत्वात् , कस्य द्वितीयस्य केन सह सम्भूयैकार्थकरिता ? किं तदचेतनं चेतनात् पृथग्भूतं ? सततसंप्रवृत्तपूरणपालनगलनपुङ्गरणादिधर्मत्वाच्च का स्थित्वा प्रवृत्तिः ? इत्यसिद्धार्थत्वाद्विशिष्टचेतनाधिष्ठितत्वं तन्वादीनां न साधयितुमलमिति, यदपि 5 विशिष्योक्तं मिथः प्रत्यनीकसम्भूयैकार्थकारित्वादिति तदसत्त्वं तु पूर्वोक्तमेव, 'णिच्छयओ सव्वलहुँ' इत्यादिगाथया, तस्मान्नेश्वरपूर्विका सृष्टिः, किन्त्वनेकेश्वरपूर्विकेति विज्ञेया । एवञ्च कृत्वा कर्मैकान्तवाददोषप्रकाशनमपि कृतं वेदितव्यम् , असम्बद्धत्वात्तस्य, पुरुषकारं निराकुर्वन्तः कर्म समर्थयन्तस्त इत्थमाहुः यदि प्रवर्तयितृत्वात् पुरुषकारः कारणं न कर्मापीति चेत्तत इदमनिष्टं ते प्राप्तम् , उत्कर्षार्थिपुरुषकारैकत्वात् , प्रधानमध्यमाधम10 भेदभिन्नाः पुरुषकारा न स्युः, ततश्च तत्फलभूताः सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युरव्यतिरिक्तकारणत्वात् , तुल्यतन्तुपटवत् । एवञ्च कृत्वेत्यादि, अनेनैकान्तेश्वरपूर्वक त्व]वाददोषप्रकाशनेन कमैकान्तवाददोषप्रकाश्चनमपि कृतं वेदितव्यम् , असम्बद्धत्वात्तस्य-कर्मैकान्तवादस्य, कथं पुनस्ते कर्मैकान्तवादिन आहुः कथं वा से असम्बद्ध इत्यतः तत्प्रदर्शनार्थत्वात् पुरुषकारं निराकुर्वन्तः कर्म समर्थयन्त त इत्थमाहुरिति 15 तदुपपत्तीर्दर्शयति यथा-यदि प्रवर्त्तयितृत्वात् पुरुष [कारः] कारणं स्यादिति-पुरुषकार एव कारणं म कर्मापीति चेन्मन्यसे इत्येकान्तं सूचयति-तत इदमनिष्टं ते प्राप्तं-पुरुषकारकारणैकान्तिनले प्राप्तम् , कतमदनिष्टं ? उच्यते प्रधानमध्यमाधम [भेद] भिन्नाः सिद्धयोऽसिद्धयो वा नाना न स्युः, ताश्च दृष्टाः, न हि दृष्टाद्गरिष्ठमन्यत् प्रमाणमस्ति, कस्मान्नाना न स्युरिति चेदच्यते-उत्कर्षार्थिकोरैकत्वात्-आत्मोत्कर्षार्थी पुरुष एव कारणं न कर्मापि कारणमिति पुरुषकारकारणैकान्तवादमाशङ्कते20 पुरुषकारस्यैकत्वं-उत्कर्षार्थिपुरुषकारैकत्वं-उत्कर्षार्थिनः पुरुषस्य क्रिया-कारः तस्यैकत्वात् प्रधानमध्यमाधमभेदभिन्नाः- स्वाचारदुराचारविकल्पद्वयकृता लोकप्रसिद्धाः पुरुषकारा न सिद्ध्यन्ति, एक एवो wwwwwww सततं प्रवृत्तेरित्याह-तस्मात्त्वयोक्तेति, इदश्च पक्षधर्मतायाः साधनाङ्गत्वाभ्युपगमे विज्ञेयम् । अथ कपिलमतापेक्षया यथा परस्परप्रत्यनीकयोरग्युदकयोरप्रत्यनीकत्वविधायिना विशिष्टबुद्धिना पाचकेनाधिष्ठितयोः सत्यपि मिथः प्रत्यनीकत्वे तद्धिचश बर्सिनोः संहत्यकारित्वादोदनसाधनं दृष्टं तथा लघुगुरुणोः प्रकाशवरणयोः प्रवृत्तिनियमयोश्च मिथो विरुद्धयोरपि संहत्य महदादि25 भावेनैकार्थकारित्वाद्विशिष्टबुद्धिपूर्वकतेति यदुक्तं तदपि निराकरोति-यदपीति निश्चयतः परस्परविरोधिगुणानामभावस्य निश्चयतः सर्वलमित्यादिगाथया प्रतिपादितत्वादेव सोऽपि हेतुरसिद्ध एवेति भावः । एवञ्च कर्मकर्मिखरूपानेकेश्वरपूर्विकैव सृष्टिर्नेश्वरपूर्विकेल्याह-तस्मादिति । एवमीश्वरवादनिराकरणादेव कमैकान्तवादोऽपि निराकृत एवेत्याह-एवञ्च कृत्वेति । पुरुषकारस्यैकस्य कारणत्वे परिदृश्यमानं जगद्वैचित्र्यं न स्यात्, अविशिष्टकारणाद्विशिष्टकार्योदयासम्भवादिति कर्मकान्तवादिना कृतं पुरुषकारै कान्सवादिनं प्रति आक्षेपं प्रदर्शयति-पुरुषकारमिति । हेतुं दर्शयति-उत्कर्षार्थीति, उत्कर्षार्थी पुरुषस्तस्य कारः, क्रिया 30 पुरुषकारस्तस्यैकत्वादित्यर्थः, एतदेवाऽऽचष्टे-आत्मेति । दृष्टस्य पुरुषकारभेदस्यानुपपत्तिमाह-प्रधानेति । पुरुषकारसाध्ये १ सि. क. परिकल्पं । २ सि.क. तदसम्बन्धः । ३ सि. क. कारणैक० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350