________________
४४
woman
द्वादशारनवचक्रम्
[विधिनियमारे पादान्तरपरिकल्पितं त्यक्त्वाऽस्मदुक्तकर्मात्मैक्यसर्वसर्वात्मक[व]सर्वेश्वरत्वाभ्युपगमोऽवश्यम्भावी, सस्मात्त्वयोक्तसम्भूयैकार्थकारित्वाचेतनत्वस्थित्वाप्रवृत्तीनामपक्षधर्मता, एकत्वात् , कस्य द्वितीयस्य केन सह सम्भूयैकार्थकरिता ? किं तदचेतनं चेतनात् पृथग्भूतं ? सततसंप्रवृत्तपूरणपालनगलनपुङ्गरणादिधर्मत्वाच्च
का स्थित्वा प्रवृत्तिः ? इत्यसिद्धार्थत्वाद्विशिष्टचेतनाधिष्ठितत्वं तन्वादीनां न साधयितुमलमिति, यदपि 5 विशिष्योक्तं मिथः प्रत्यनीकसम्भूयैकार्थकारित्वादिति तदसत्त्वं तु पूर्वोक्तमेव, 'णिच्छयओ सव्वलहुँ' इत्यादिगाथया, तस्मान्नेश्वरपूर्विका सृष्टिः, किन्त्वनेकेश्वरपूर्विकेति विज्ञेया ।
एवञ्च कृत्वा कर्मैकान्तवाददोषप्रकाशनमपि कृतं वेदितव्यम् , असम्बद्धत्वात्तस्य, पुरुषकारं निराकुर्वन्तः कर्म समर्थयन्तस्त इत्थमाहुः यदि प्रवर्तयितृत्वात् पुरुषकारः कारणं न कर्मापीति चेत्तत इदमनिष्टं ते प्राप्तम् , उत्कर्षार्थिपुरुषकारैकत्वात् , प्रधानमध्यमाधम10 भेदभिन्नाः पुरुषकारा न स्युः, ततश्च तत्फलभूताः सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युरव्यतिरिक्तकारणत्वात् , तुल्यतन्तुपटवत् ।
एवञ्च कृत्वेत्यादि, अनेनैकान्तेश्वरपूर्वक त्व]वाददोषप्रकाशनेन कमैकान्तवाददोषप्रकाश्चनमपि कृतं वेदितव्यम् , असम्बद्धत्वात्तस्य-कर्मैकान्तवादस्य, कथं पुनस्ते कर्मैकान्तवादिन आहुः कथं
वा से असम्बद्ध इत्यतः तत्प्रदर्शनार्थत्वात् पुरुषकारं निराकुर्वन्तः कर्म समर्थयन्त त इत्थमाहुरिति 15 तदुपपत्तीर्दर्शयति यथा-यदि प्रवर्त्तयितृत्वात् पुरुष [कारः] कारणं स्यादिति-पुरुषकार एव कारणं
म कर्मापीति चेन्मन्यसे इत्येकान्तं सूचयति-तत इदमनिष्टं ते प्राप्तं-पुरुषकारकारणैकान्तिनले प्राप्तम् , कतमदनिष्टं ? उच्यते प्रधानमध्यमाधम [भेद] भिन्नाः सिद्धयोऽसिद्धयो वा नाना न स्युः, ताश्च दृष्टाः, न हि दृष्टाद्गरिष्ठमन्यत् प्रमाणमस्ति, कस्मान्नाना न स्युरिति चेदच्यते-उत्कर्षार्थिकोरैकत्वात्-आत्मोत्कर्षार्थी पुरुष एव कारणं न कर्मापि कारणमिति पुरुषकारकारणैकान्तवादमाशङ्कते20 पुरुषकारस्यैकत्वं-उत्कर्षार्थिपुरुषकारैकत्वं-उत्कर्षार्थिनः पुरुषस्य क्रिया-कारः तस्यैकत्वात् प्रधानमध्यमाधमभेदभिन्नाः- स्वाचारदुराचारविकल्पद्वयकृता लोकप्रसिद्धाः पुरुषकारा न सिद्ध्यन्ति, एक एवो
wwwwwww
सततं प्रवृत्तेरित्याह-तस्मात्त्वयोक्तेति, इदश्च पक्षधर्मतायाः साधनाङ्गत्वाभ्युपगमे विज्ञेयम् । अथ कपिलमतापेक्षया यथा परस्परप्रत्यनीकयोरग्युदकयोरप्रत्यनीकत्वविधायिना विशिष्टबुद्धिना पाचकेनाधिष्ठितयोः सत्यपि मिथः प्रत्यनीकत्वे तद्धिचश
बर्सिनोः संहत्यकारित्वादोदनसाधनं दृष्टं तथा लघुगुरुणोः प्रकाशवरणयोः प्रवृत्तिनियमयोश्च मिथो विरुद्धयोरपि संहत्य महदादि25 भावेनैकार्थकारित्वाद्विशिष्टबुद्धिपूर्वकतेति यदुक्तं तदपि निराकरोति-यदपीति निश्चयतः परस्परविरोधिगुणानामभावस्य निश्चयतः सर्वलमित्यादिगाथया प्रतिपादितत्वादेव सोऽपि हेतुरसिद्ध एवेति भावः । एवञ्च कर्मकर्मिखरूपानेकेश्वरपूर्विकैव सृष्टिर्नेश्वरपूर्विकेल्याह-तस्मादिति । एवमीश्वरवादनिराकरणादेव कमैकान्तवादोऽपि निराकृत एवेत्याह-एवञ्च कृत्वेति । पुरुषकारस्यैकस्य कारणत्वे परिदृश्यमानं जगद्वैचित्र्यं न स्यात्, अविशिष्टकारणाद्विशिष्टकार्योदयासम्भवादिति कर्मकान्तवादिना कृतं पुरुषकारै
कान्सवादिनं प्रति आक्षेपं प्रदर्शयति-पुरुषकारमिति । हेतुं दर्शयति-उत्कर्षार्थीति, उत्कर्षार्थी पुरुषस्तस्य कारः, क्रिया 30 पुरुषकारस्तस्यैकत्वादित्यर्थः, एतदेवाऽऽचष्टे-आत्मेति । दृष्टस्य पुरुषकारभेदस्यानुपपत्तिमाह-प्रधानेति । पुरुषकारसाध्ये
१ सि. क. परिकल्पं । २ सि.क. तदसम्बन्धः । ३ सि. क. कारणैक० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org