________________
४६५
कर्मप्रवर्तकत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् त्कृष्टः प्राप्नोति, ततश्च तत्साध्यानामपि फलभूतानां प्रधानमध्यमाधमानां शुभाशुभानां भेदा न प्राप्नुवन्ति, एकैवोत्कृष्टा सिद्धिः प्राप्नोति, न मध्यमाधमप्रभेदे सिद्धी स्याताम् , नापि च पुरुषकाराणामसिद्धयः स्युः, ताश्च दृष्टा इति तदुपसंहृत्य साधनमाह-सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युरव्यतिरिक्तकारणत्वात् , तुल्यतन्तुपटवदिति, पुरुषकारस्यैव कारणत्वात्तद्व्यतिरिक्तकारणाभावाद्भवत:पुरुषकारकारणैकान्तवादिनः कर्मानपेक्षत्वादिति ।
इत्थं परपक्षे दोषमुक्त्वा स्वपक्षसाधनमाह
कार्यातिरेकात्तु कारणातिरेक इति कर्मैव प्रवर्त्तयितृ, द्विविधा च सिद्धिरसिद्धिः कार्यस्य कर्मणः कारणत्वे एव सम्भवति, नेतरस्य, तत्र त्वदिष्टपुरुषव्यापारस्यावतारासम्भवात्, चेतनस्य स्वशक्त्याधानासमर्थत्वात् , चेतनामात्रसारो हि पुरुषकारः शक्तिः, न च स तां स्वां चैतन्यशक्तिमिष्टे मनुष्यत्वे पशुत्वे वर्तमान आधातुं समर्थः, मनुष्यः सन् न 10 पश्चादौ वा, तस्यापि कर्मलभ्यत्वात् , अपि तर्हि संभाव्यं गङ्गायाः स्रोतसः कर्मणाऽन्यथा प्रवर्तनमिति ।
कार्यातिरेकात्तु कारणातिरेक इति कर्मैव प्रवर्त्तयित, इतिशब्दो हेत्वर्थे, कार्याणामनेकप्रभेदानां सिद्धीनामसिद्धीनाश्च परस्परतो व्यतिरिक्तत्वात् कारणातिरेकेणावश्यं भवितव्यम् , तच्च कारणं कर्मैव, पुरुषस्य त्वदभिमतस्य प्रवर्त्तयितुः प्रवर्त्यमनेकभेदमिति ग्रहीतव्यम् , तस्य कार्यनाना- 15 त्वानुमितस्य कारणसामान्यस्य कर्मेति संज्ञा क्रियते, पुरुषकारस्य पुरुषादीनाञ्च कारणानां निराकृतत्वात् , तस्य सिद्ध्यसिद्धिभेदकार्यलिङ्गादनुमानम् , देशान्तरप्राप्त्यनुमेयादित्यगतेरिव, द्विविधा चेत्यादिना तल्लिङ्गासिद्धिपरिहारार्थ यावदितरस्येति गतार्थम् , प्रसिद्धलिङ्गमित्यर्थः, तत्रेत्यादि, तत्र-एतस्मिन् कारणवैचित्र्यानुमानलिङ्गे कार्ये त्वदिष्टपुरुषव्यापारस्यावतार एव नास्तीत्यावयोर्लोकस्यैव प्रसिद्ध कार्यलिङ्गे त्वदभिमते कारणासम्भवोऽस्मन्मते कारणसम्भव एवेति च दर्शयति, कस्मात् ? स्वशक्त्याधानासमर्थ- 20
फले वैलक्षण्यानुपपत्तिमाचष्टे-ततश्चेति, उत्कृष्टा सिद्धिर्मोक्ष एव स्यात् , मध्यमाधमसिद्धी चाभ्युदयवैचित्र्यरूपे इत्यर्थः । नापि
चेति। पुरुषकाराणामशुभा नारकाद्यधर्मफलभूता असिद्धयो न स्युरिति भावः । फलवैलक्षण्याभावे हेतुमाह-अव्यतिरिक्तेति, एकजातीयकारणारब्धत्वात् , विजातीयकारणानपेक्षकारणारब्धत्वादिति वार्थः । दृष्टान्तमाह-तुल्यतन्त्विति, एकजातीयैस्तन्तुसमूहैरनेकैरारब्धानि कार्याण्यनेकानि पटात्मकान्येव भवन्ति, न घटाद्यात्मकानि, तथैकजातीयपुरुषकारकारणारब्धान्यपि कार्याणि उत्कृष्टसिद्धिरूपाण्येव स्युः, न मध्यमाधमप्रमेदे सिद्धी, न वाऽसिद्धयः स्यः, विजातीयकर्मानपेक्षकारणारब्धत्वादिति भावः। अथ 25 कर्मपक्षे दोषाभावमभिधातुं कर्म समर्थयति-कार्यातिरेकात्त्विति कार्याणामतिरेकः परस्परं वैविध्यं, तस्मात् कारणानामपि वैविध्य भवेदेव, तादृशञ्च कमैव नान्यद्भवितुमर्हति, पुरुषादिवादिभिरपि प्रवर्त्तयितुः पुरुषादेः प्रवत्यं भिन्न भिन्नमेवेष्यते तस्मात् कार्यनानात्वेनानुमीयमानस्य कर्मणोऽन्यस्यासम्भवात् कारणसामान्यस्य कर्मण एव तैः पुरुषादिसंज्ञा क्रियते, पुरुषस्य पुरुषकारादेश्वचाविशिष्टतया कार्यवैचित्र्यस्यासम्भवादिति भावः । कथं कर्मानुमीयत इत्यत्राह-तस्येति आत्मत्वेनाविशिष्टानां यदिदं देवासुर मनुजतिर्यगादिरूपं नरपतिदरिद्रकोविदकुमतिप्रभृति वा वैचित्र्यं तन्न निर्हेतुकं सामान्यहेतुकं वा विचित्रकार्यत्वात् अन्यथा सदा 30 भावाभावैकरूपत्वादिप्रसङ्ग इति कारणवैचित्र्य सेत्स्यतीति भावः। कार्यवैचित्र्यच सिद्धमस्मन्मतेनैव सम्भवति, न पुरुषादिवादिमतेनेत्याशयेनाह द्विविधा चेति । इतरस्य पुरुषादेः कारणत्वे कुतो न सम्भवतीत्यत्राह तत्रेति । स्वशक्तीति पुरुषकारो हि पुरुषस्य शक्तिविशेषः, न च सहायान्तरनिरपेक्षस्तां स्वशफि पुरुषो मनुष्यत्वे वर्तमानो देवत्वे पशुत्वादी वा नेतुं शक्यः,
द्वा० न० २१ (५९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org