________________
કદં
द्वादशारनयचक्रम्
[ विधिनियमारे
स्वात्, कस्य स्वशक्तिरिति चेत्-चेतनस्य - पुरुषस्य, चेतनामात्रसारा हि पुरुषकारः शक्तिः, हिशब्दो यस्मादर्थे, यतोऽस्यैषा शक्तिः, एताञ्चाधातुमशक्तोऽसाविष्टे मनुष्यत्वे पशुत्वे वर्त्तमान इति, स्वशत्याधानासामर्थ्यं दर्शयति- न च स इत्यादि, सत्यपि चैतन्ये तां स्वां चैतन्यशक्ति कर्मबलाकृष्टनिकृष्टस्वज्ञानशक्तौ वर्त्तमानो न विशिष्टेष्टमनुष्य चेतन्ये स्थापयितुं शक्त इति, विपर्ययेण मनुष्यः सन्न 5 तज्ज्ञानं पश्वाद, आधातुं समर्थ इति वर्त्तते, तस्यात्मनो यत्स्वतत्त्वमिति त्वया प्रतर्कितं तन्न शक्नोति कर्मवशीकृतो योनिजात्यन्तरस्थो योनिजात्यन्तरेऽन्यत्राधातुं, कुतः ? तस्यापि कर्मलभ्यत्वात् - पशोर्मनुध्यस्य वा चेतनस्य कर्मवशादेव तथाभावात्, मनुष्यः पशुर्वा स्वजातिनामकर्मोदयादेव भवतीत्यर्थः, तदुद्यस्य कारणान्तरदुर्निवारत्वात् तत्र दृष्टमान्ताह - अपि तर्हि गङ्गाया इत्यादि सम्भावनयैतदुच्यते-अपि चैतत्सम्भाव्यं देवक्रियोत्पातादिना गङ्गास्रोतसोऽन्यथा प्रवृत्तस्य कर्मणाऽन्यथा प्रवर्चः 10 नमिति, एवं तावदभ्युपगम्य स्वतंत्रं चेतनं पुरुषकारश्च तस्योक्तम् ।
नैव वाऽभ्युपगच्छाम एतत्सर्वं किञ्चित् कर्मव्यतिरिक्तकृतम्, तत्त्वचिन्तायां कर्मव्यतिरिक्तकारणानवस्थानादित्येतद्दर्शयति —
wwww ww
यापि चेष्टानिष्टतुल्यप्रवृत्तिः पुरुषस्योपक्रमप्रभृति यावच्छरीरं जह्यात् सा कर्मत एव वेतालाविष्टशवशरीरवत्, यथाऽऽहारविशेषग्रहण खलरसादिभावविभजनाद्यसश्चेतिताव्यक्त15 क्रियास्वस्वतंत्र एव गर्भादिषु सुप्तः, ताः कर्मकृताः पुरुषो मत्कृता इत्यभिमन्यते तथाभासमानत्वात्, तत्कार्यतायां हि तासां कदाचिदकरणाभावादि हैवामृतत्वप्रसङ्गः ।
यापि चेत्यादि यावद्वेतालाविष्टशवशरीरवदिति, कर्मवेतालाविष्टो हि पुरुषोऽस्वतंत्र इष्टानिष्टतुल्यप्रवृत्तिः, परवशत्वात् पुरुषस्योपक्रमप्रभृतीत्यादि यावज्जह्यादिति, तत्स्वातंत्र्याभावप्रतिपादनार्थो
25
इति भावः । एनमेव भावमादर्शयति न च स इति सः चेतनोऽनिष्टे पशुस्वे वर्त्तमानः स्वशक्तिं चैतन्यलक्षणामिष्टे मनुष्य20 त्यादौ स्थापयितुं न समर्थं इति भावः । विपर्ययेणेति, स चेतन इष्टे मनुष्यत्वादौ वर्त्तमानः खां शक्तिमनिष्टे पश्वादौ नाधातुं समर्थ इतीष्टविपर्ययेणानिष्टेनाधानासामर्थ्यं प्रदर्शितमिति भावः । पुनर्भावार्थमाह- तस्यात्मन इति, स्वतत्त्वं पुरुषकार - तन्यशक्तिः तत् स्वतत्त्वं पुरुषकारं चैतन्यशक्तिमित्यर्थः । तस्यापीति, मनुष्यपश्वादेरपीत्यर्थः, नमयति प्रापयति नारकादि - भावान्तराणि जीवमिति नाम, जातिः सामान्यं एकेन्द्रियादि, जातिरूपं नाम जातिनाम तदेव कर्म जातिनामकर्म, अत्र पञ्चेन्द्रियजातिनाम कर्मावान्तर भेदग्रहणं मनुष्यजातिनामकर्म पशुजातिनामकर्मेति तेषामुदयः कर्मविपाकाविर्भावस्तस्मादेव मनुष्यादेर्भाबादित्यर्थः । स्वजातिनामकर्मोदयस्य कारणान्तरैर्वारयितुमशक्यत्वान्न पुरुषकारादिष्टानिष्टावाप्तिरित्याशयेनाह - तदुदयस्येति । कर्मलभ्यतायां सम्भावनायां दृष्टान्तमुच्यते-अपि चैतदिति । एतत् - अप्रे वक्ष्यमाणमित्यर्थः । किं तदित्यत्राह - देवेति, कस्यचिद्देवस्य क्रियाविशेषेण उत्पातादिना वा केनचित्कर्मणा गङ्गाप्रवाहस्य पूर्वाभिमुखे प्रवृत्तस्य पश्चिमाभिमुखतया विपरिवर्तनं सम्भाव्यते, गङ्गास्रोतसो विपरिवर्त्तनं यथा कर्मणैव सम्भाव्यं नान्येन केन चित्तथा पशोः पुरुषादिभवनं कर्मणैव स्यान्न तु पुरुषकारादेरिति भावः । लोके यत् किमपि दृश्यते शुभमशुभं वा तत्सर्व कर्मकृतमेव, न पुरुषकारादिकृतमित्याह -यापि चेति, 30 इष्टानिष्टेति, इष्टेऽनिष्टे च समाना प्रवृत्तिर्दृश्यते यदि पुरुष एव कारणं स्यात् तर्हि स्वतंत्रत्वात् इष्ट एव प्रवर्त्तेत, नानिष्टे, दृश्यते च तत्रापि प्रवृत्तिरतो विज्ञायते पुरुषोऽनिच्छया परवशादेव प्रवर्त्तते तस्मात् तथाविधं कर्मैव मुख्यं प्रवर्त्तकं वेताल इव, पुरुषस्तु शवशरीरसदृश एवेति भावः । इष्टानिष्टप्रवृत्तीर्दशयति - पुरुषस्येति । गर्भेऽपि तस्य प्रवृत्तिः पराधीनेत्याह
१ सि. क. 'शक्तिरेषाञ्चा० । २ सि.क. 'निकृष्टयश्च ज्ञा० । ३ सि. क. 'पश्यावाधानु० । ४ सि. क. व्यतिरिकं कृतः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org