________________
mmmrammmmmmmmmmmamam
अन्याकारणता]
न्यायागमानुसारिणीव्याख्यासमेतम् निमेषोपक्रमादारभ्य मरणापवर्गपर्यवसान इति गताः । पुनरप्यतो-यथाऽऽहारविशेषेत्यादि यावविहैवामृतत्वप्रसङ्गः, मातुरोजः पितुः शुक्रश्च प्रथमाहारः, ततः प्रथमाहारः ततः सप्ताहं कललं भवतीत्यादिना क्रमेण शरीरेन्द्रियादिकारणाहारः प्राणनादियात्रासमर्थः, तस्य च खलरसादिभावेन विभजनमित्याद्यसञ्चेतिताव्यक्तक्रियास्वस्वतंत्र एव गर्भादिषु सुप्तश्च, तास्तु क्रियाः कर्मकृताः पुरुषो मत्कृता इत्यभिमन्यते, तथाभासमानत्वात् , तत्कार्यतायां हि-पुरुषकारकार्यतायां हि तासां क्रियाणां कदाचिदकरणाभावात्- 5 प्राणस्थितिहेत्वनुपरमात् मरणाभावः, तस्मादिहैवाऽमृतत्वाय कल्पेतेति दृष्टेष्टविरोधदोषप्रसङ्गः।
तथा
कायेन्द्रियनिर्वर्त्तनेऽप्यनिष्टशरीरेन्द्रियादि न स्यात् , सम्पन्नेन्द्रियजातिसंस्थानसंहननादियुक्त एव स्यात् , तस्मात्तत्सर्वमेव तत्कर्मण एव, तदतिरेकेण क आत्मनि प्रतिपद्येत ? तस्मादहेतुः पुरुषस्तत्कारश्च ।
10 (कायेति) कायेन्द्रियनिर्वर्तनेऽप्यनिष्टशरीरेन्द्रियादि न स्यात्-काणकुण्ठबधिरादि, सम्पनेन्द्रियजातिसंस्थानसंहननादियुक्त एव स्यात्-पुरुषकारकार्यनिर्वर्त्तने च धर्माद्यनुष्ठानविषयोपभोगादाविष्ठस्यैष करणं स्वातंत्र्यात् स्यात् , तस्मात्तत्सर्वमेव तत्कर्मण एव-हेतो त्मनः, कर्मण इति पञ्चम्या हेत्वर्थे विहितत्वात् , तदतिरेकेण क आत्मनि प्रतिपद्येत-तस्मादेवं विधात् क आत्मन्येतदनुपपद्यमानं कर्मणः]व्यतिरेकेणाभ्युपगच्छेत् ? नाभ्युपगच्छत्येव विद्वानित्यभिप्रायः, तस्मादहेतुः पुरुषस्तत्कारश्च । 15
अकारणमपि कर्म सहायापेक्षम् , कवलास्यप्रक्षेपादिवत् , अतो भारोत्पाटवत् फलोपहाराय तत्स्वामिनः कर्तुर्नयोद्योगावान्तरावपेक्ष्यौ, बाह्या च प्रकृतिरिति न मन्तव्यम् , तान्यपि हि पुनरपीति, पुनरप्यतः-अनेन ग्रन्थेनेष्टानिष्टप्रवृत्तिषु पुरुषस्याखातंत्र्यं दर्शयतीति भावः, तदेवाह-यथाऽऽहारेति, जीवनसाधनस्याहृताहारस्य बहिः गर्भ च शरीरेन्द्रियादिनिवृत्तिकारणस्य तथा तथा परिणमय्य विभजनं तद्यथा गर्भ मा पितुः शुक्र प्रथमाहारः, ततः सप्ताहं कललं भवति ततः सप्ताहम मर्बुदाजायते पेशी पेशीतो जायते घनमित्यादिना क्रमेण 20 शरीरेन्द्रियादिनिर्वृत्तिः तत्सर्व कर्मत एव, उत्पत्त्यनन्तरमपि प्राणनादियात्रासमर्थस्याहारस्य खलरसादिभावेन परिणमय्य रुधिरमांसमेदोमनास्थ्यादिभावेन विभजनमित्याद्यनभिसन्धिपूर्वकक्रियाः कर्मत एव न पुरुषादिव्यापारादस्वतंत्रत्वादिति भावः । तदेतत्सर्व कर्मकृतमपि पुरुषस्तथाविधाहारव्यायामादिना शरीरादिपोषणं मयैव कृतमित्यभिमन्यते केवलम्, न तु वस्तुतस्तस्कृतमन्यथा प्राणस्थितिहेतोरनुपरमात्ताः क्रियाः पुरुषेण सर्वदा क्रियेरन्, तथा चेहेवामृतो भवेत् , मरणाभावात् न चैवं दृश्यते इष्यते च, तस्मान्न पुरुषकारादिकृतमित्याह-तास्तु क्रिया इति । पुरुषकारादिकृतत्वे दोषान्तरमप्याह-कायेन्द्रियेति । 25 सम्पन्नेति, शुभा ये इन्द्रियजातिसंस्थानसंहननादयस्तैर्युक्त एव स्यात् , तत्रेन्द्रियपदेनाङ्गोपाङ्गानि औदारिकवैक्रियाहारकशरीरसंबन्धीनि शुभानि, जातिः पञ्चेन्द्रियजातिः, संस्थानं आकारविशेषः समचतुरस्रसंस्थामश्च शुभम् , संहननं अस्मां बन्धविशेषः, वज्रर्षभनाराचसंहननञ्च शुभम् , आदिना प्रशस्तवर्णगन्धरसस्पर्शमनुष्यदेवगत्यगुरुलघुपराघातादयो ग्राह्याः । पुरुषकारेणैव यदि कार्यनिर्वृत्तिस्तर्हि धर्माद्यनुष्ठाने इष्ट विषयोपभोगादावेव तस्य प्रवृत्तिः स्यात् खतंत्रत्वान्नाशुमे इति भावः । तदेतत्सर्व कर्मण एव हेतोर्भवतीत्युपसंहरति तस्मात्तत्सर्वमेवेति । ननु यदि पुरुषकारो न कारणं तर्हि तं कर्म कुतोऽपेक्षते 30 दृष्टा च तदपेक्षा कर्मणः तथाविधकर्मसद्भावेऽपि पुरुषेण कवलमास्ये यावता न प्रक्षिप्यते तावता कर्माकिञ्चित्करमेवेति कर्मणा पुरुषकारस्यापेक्षणात् , अतः कर्म कारणमकारणञ्च, यथा भवता भारोद्वहनसामर्थ्यलक्षणपुरुषकारसद्भावेऽपि भारस्योतक्षेप्तारं निक्षेप्तारं च विना नैव शक्नोति वोदमिति पुरुषकारः कारणमकारणञ्चोच्यते तथा कर्मापीत्याशङ्कते-अकारणमपीति,
१ सि. क. हेत्वनुपरिमाणात् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org