________________
४६८ द्वादशारनयचक्रम्
[विधिनियमारे स्वामिधर्माधर्मरज्जुनिबद्धानि तदायत्तत्वात्तद्भोग्यत्वात्तन्तुपटवत् , यदि तान्येवं नेष्यन्ते ततः सर्वाविशेषत्वप्रसङ्गः।
(अकारणमपीति) स्यान्मतमकारणमपि कर्म सहायापेक्षम्-पुरुषकारमकारणमपि कर्म सहायमपेक्षते, कवलास्यप्रक्षेपादिवत् , यथोक्तं 'आलस्याद्यो निरुत्साह; स किञ्चिन्नाभुते फलम् । स्तन5 क्षीरादिपानञ्च पौरुषान्न विशिष्यते' (
) अतो भारोत्पाटवत्-यथा भारं समुद्वहन पुरुषः सहायमुत्क्षेप्तारं निक्षेपकञ्चान्तरेण स्वयमेव न शक्नोति वोढुमिति कारण[म]कारणञ्च दृष्टस्तथा कर्म पुरुषकारमन्तरेणेति [कारणम]कारणश्चेत्येतदपि च न मन्तव्यम् ,[अ]कारणमपीत्यादिना तमेव पूर्वपक्षं व्याचष्टे, भारोत्पाटापेक्षभारोद्वाहवदत्र किं सहायं कर्मणाऽपेक्ष्यमिति चेदुच्यते-फलोपहारा
येत्यादि फलमुपहरिष्यतः कर्मणस्तत्स्वामिनः कर्तुं योद्योगावान्तरावपेक्ष्यौ, बाह्या[च] स्वामात्यादि10 प्रकृतिः, किं पुनः कारणमेवं न मन्तव्यम् ? उच्यते-यतस्तान्यपि हि स्वामिधर्माधर्मरज्जुनिबद्धानीत्यादि यावत्तन्तुपटवत् , सहेतुकदृष्टान्तेन पटवाक्येनामात्यादीनां धर्माधर्मकार्यत्वमापाद्य कर्मकारणावधार. णात् पुरुषकारं निराकरोति, तदायत्तत्वात्तद्भोग्यत्वादित्यादिना हेतुसौलभ्यश्च दर्शयति, तन्तुपटवदितितंत्वायत्तपटवत् पटत्वेन तन्तूनामेव भोग्यत्ववत्, यदि तानीत्यादि, एवमनभ्युपगमे सर्वाविशेषप्रसङ्ग
इत्यनिष्टापादनम्। 15 योऽपि स्वामिपुरुषकारः सोऽप्यधर्मफलत्वात् कमैव क्लेशत्वात् , अथैवं पुरुषकारं संक्लेशा
धर्मफलं नेच्छसि ततो न तर्हि दुःखमधर्मफलमिति प्राप्तम् , शिरोरोगादिक्लेशत्वान्नयोद्योगपुरुषकारवत् । अथ प्रसिद्धिविरोधदोषभयाहुःखमधर्मफलमिति त्वयाऽनुज्ञायते तत्साचिव्यक्रियायाश्च हिंसादेरिष्टफलप्राप्तिरिति प्राप्तम् , धर्माधर्मफलविपर्ययात् ।।
योऽपीत्यादि यदपि चोक्तं स्वामिनयोद्योगावपेक्ष्याविति स्वामिपुरुषकारः, सोऽप्यधर्मफल20 त्वात् कर्मैव, न पुरुषकारो नाम कर्मातिरिक्तोऽस्तीत्यवधारणार्थ प्राक् प्रतिज्ञातं समर्थयति क्लेशत्वात्
पुरुषकारमिति शेषः, पुरुषकारस्यापेक्षणीयतामेव कारिकया दर्शयति आलस्यादिति । दृष्ट इति पुरुषकार इति शेषः । कर्मणाsपेक्ष्यं राजादि निदर्शनतयाऽभिमत्य दर्शयति फलमुपहरिष्यत इति, नयो विचारः, उद्योगः प्रयत्नः प्रकृतिः-अमात्यादिः । नयोद्योगामात्यादीनामपि कर्मण एव लाभात् कर्मैव कारणं न त्वकारणं पुरुषकाराद्यनपेक्षत्वादित्याशयेन समाधत्ते यतस्तान्यपि
हीति, नयोद्योगामात्यादीन्यपीत्यर्थः, अत्र प्रयोगः, नयोद्योगादीनि धर्माधर्मलक्षणकर्मकार्याणि, तदायत्तत्वात् , तद्भोग्यत्वाद्वा, 25 यद्यदायत्तं तत्तत्कार्यम् , यथा तन्त्वायत्तः पटस्तन्तुकार्यम् , येनात्मना च यद्भोग्यं तदात्मा तत्कार्यम् , यथा पटात्मना तन्तवो
भोग्याः, अत एव पटस्तन्तुकार्यम् , एवं कर्मायत्तत्वात् नयोद्योगादेः, नयोद्योगाद्यात्मना चं कर्मणामेव भोग्यत्वान्नयोद्योगादि कर्मकार्यमिति भावः । नयोद्योगादीनां कर्मकार्यत्वानभ्युपगमे स एव जगतोऽविशेषप्रसङ्गो वैचित्र्यनियामकाभावादित्याशयेनाहयदि तानीत्यादीति । पूर्व कर्मकृतमपि पुरुषकृतमित्यभिमन्यत इति पुरुषकार एव कर्मेति प्रतिपादितं तत्समर्थनार्थमाहयोऽपीति नयोद्योगादिलक्षणः पुरुषकारः कमैव, अधर्मफलत्वात् , नहि पुरुषकारः कश्चित् कर्मव्यतिरिक्तोऽस्तीत्याह30 यदपीति । नयोद्योगादि कथमधर्मफलमित्यत्राह-क्लेशत्वादीति । ननु तस्य क्लेशत्वम सिद्धमित्यत्राह-क्लेशो हीति, नयो
१सि. क. सहायापेक्षत्वात् । २ सि.क. धर्माधर्मरञ्जयति निबद्ध्यामी त्यादि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org