________________
४६९
पुरुषकारे दोषः] म्यायागमानुसारिणीव्याख्यासमेतम् केशो हि चिन्ताव्यायामरूपो मनःशरीराऽऽयासात्मकत्वात् , ज्वरवत् , अथेत्यादि, अथैवं 'पुरुषकार संक्लेशाधर्मफलं नेच्छसि प्रज्ञोत्साहयुक्तस्य प्रशस्तत्वेनेष्टत्वाल्लोके ततो न तर्हि दुःखमधर्मफलमिति प्राप्त शिरोरोगादिक्लेशत्वात् , नयोद्योगपुरुषकारवत् , यथोक्तं 'अनर्थपाण्डित्यमधीय यंत्रितः सुतेषु दारेषु च नित्यशङ्कितः। निशासु जागर्ति हिनस्ति बान्धवान्नमोऽस्तु राज्याय वरं दरिद्रता ॥' इति, ( ) अथ प्रसिद्धिविरोधदोषभयाहुःखमधर्मफलमिति त्वयाऽनुज्ञायते तत्साचिव्यक्रियायाश्च हिंसादेर्दुःख. 5 साधनतां गतत्वोत्तत्कर्मणो हेतोः प्राणातिपातादेर्धर्मफलप्राप्तिः, का सा ? वि[शि]ष्टशरीरेन्द्रियसुखसम्यग्ज्ञानारोग्यादिप्राप्तिरित्येतत् प्राप्तं शुभाशुभयोरिष्टविपर्ययफलाभ्युपगमात्, धर्मान्नयोद्योगौ दुःखं चेत्युक्तत्वात् , अत एव प्राप्तमधर्मफलाहुःखात् सुखं धर्मफलमिति प्राप्तम् , किं तत् ? ए[तद्]दिङ्मात्रं प्रदर्शयति-इष्टप्राप्तिरिति, इष्टशरीरेन्द्रियादिप्राप्तिरित्येतत् प्राप्तम् , किं कारणं ? धर्माधर्मफलविपर्ययादित्यतः पुरुषकारनैरर्थक्यश्च यादृच्छिकत्वाविशेषात् , अतो यदुक्तं कर्मैव कारणं पुरुषकारस्यापि कर्मफलत्वा- 10 दिति श्रेयान् पक्षः, यथोक्तं 'यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवोपतिष्ठते । तथा तथा पूर्वकृतानुसारिणी प्रदीपहस्तैव मतिः प्रवर्त्तते ॥' (सूत्रकृ० टी. पृ० २१०)
अभ्युपगम्यापि पुरुषकारं दोषं ब्रूमः, स निर्हेतुकः सहेतुको वा स्यात्, यद्यहेतुकः मुक्तानामपि स्यात् , सहेतुकश्चेत् कर्मण एवाचेतनाच्छुभादप्यनवातेरशुभादप्यर्थावाप्तेः शुभाशुभवैचित्र्यमनुमातुं शक्यते, युक्तिक्षमहेत्वन्तराभावात् , नानान्यद्विमर्दक्षमं कारणमस्ति। 15
(अभ्युपगम्यापीति) अभ्युपगम्यापि पुरुषकार दोषं ब्रूमः, स निर्हेतुकः सहेतुको वा स्यात्, किश्चातः ? स पुरुषकारो यद्यहेतुको मुक्तानामपि स्यात् नयोद्योगलक्षणो न चेष्टस्तेषाम् , अथ मा भूदेष दोष इति सहेतुरिति ब्रूयात्ततः सहेतुश्चेत् कर्मण एवाँचेतनाच्छुभादपि पुरुषकारात्सेवादि
हि चिन्तालक्षणः मनआयासात्मकः, उद्योगश्च व्यायामरूपः शरीरायासात्मकः, यश्चायासात्मकः स क्लेशरूप एव, यथा ज्वरादिरोगस्तथा नयोद्योगाविति भावः । ननु प्रशोत्साहलक्षणनयोद्योगशालिनो लोके श्रेष्ठपुरुषतयाऽभिमतत्वान्न नयोद्योगी 20 क्लेशरूपावधर्मफलरूपावित्याशङ्कायामाह-न तहीति, दुःखमात्रं क्लेशात्मकमपि नयोद्योगपुरुषकारवदधर्मफलं न स्या भावः । नयस्य दुःखात्मकत्वं कारिकया दर्शयति-अनर्थेति, निरर्थक नीतिशास्त्रं सम्यगभ्यस्य पुत्रदारादिष्वपि स्वात्महानिमीत्या नित्यं शशितो निशाखपि जागरूकः बन्धूनपि राष्ट्रहानिमीत्या हिनस्ति, ईदृशं राज्यं धिक्, अतो दारिद्यमेव श्रेयः, यत्र निःशङ्को निशासु जनः खपितीति भावः । अथ दुःखस्याधर्मफलत्वानभ्युपगमे दुःखमधर्मफलमिति लोकप्रसिद्धिर्विरुध्येत, तस्मात्तदधर्मफलमेवेत्याशक्य तत्रापि दोषमाह-अथ प्रसिद्धीति, दुःखमधर्मफलमिति लोकप्रसिद्धस्तथा यद्युपगम्यते तथोद्योग- 25 स्यापि धर्मफलत्वमभ्युपगम्यते तर्हि वस्तुतो दुःखसाधनभूतस्य हिंसादेरुद्योगरूपस्य धर्मफलमिष्टशरीरादि भवेत् , शुभाशुभयोरिष्टफलाद्विपर्ययफलत्वेनाभ्युपगमादिति भावः । तदेव समर्थयति-धर्मान्नयोद्योगौ दुःखश्चेत्युक्तत्वादिति, वस्तुतो दुःखसाधनभूताद्दुःखरूपादुद्योगात् प्रशस्तत्वेनाभ्युपगताद्धर्मफलं सुखादि भवतीति प्राप्तमिति भावः। इत्थं धर्माधर्मविपर्ययाभ्युपगमेन पुरुषकारो निरर्थक एव, धर्माधर्मफलयोर्यादृच्छिकत्वाविशेषादित्याह-धर्माधर्मफलेति । एवञ्च पुरुषकारकारणत्वाभ्युपगमापेक्षया कर्मकारणत्वाभ्युपगम एव न्याय्यः, पुरुषकारस्यापि कर्मफलत्वादित्याह-अतो यदुक्तमिति । कर्मकारणत्वे 30 प्राचां संवादमाह-यथा यथेति । पुरुषकार स्वीकृत्यापि दोषमभिधत्ते-अभ्यपगम्यापीति । सहेतच
ति, तवायं १ सि. क. पुरुषकारसंक्लेशधर्मफलं । २ सि. क. गतत्वात्तत्त्वात् । ३ सि. क. एवचेतना० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org