________________
द्वादशारनयंचक्रम्
[विधिनियमारे कदिन वाप्तेरशुमादपि प्राणातिपातादेरर्थावाप्तेधर्माधर्मफलसंस्कारोक्तरमुमातुं शक्यते-एतदेबुद्धिपूर्वकादचेतनकर्मवशादेवैतच्छुभाशुभवैचित्र्यम् , किं कारणं ? युक्तिक्षमहेत्वन्तराभावात् , विचारितनिषिद्धत्वात् पुरुषनियतिकालस्वभावादिहेत्वन्तराणाम्, नात्रान्यद्विमर्दक्षमं कारणमस्ति-अन्यदतो दैवाख्यात् कर्मणः। 5 यदा चैवं प्रवृत्तौ कर्मण एव कर्तृत्वं सिद्धं तदा द्रवतीति द्रव्यं कर्तृसाधनं न भवति, स्वतंत्रस्य कर्तुरनुपपत्तेः, कर्मपरिग्रहविशेषात्तु द्रव्यं द्रूयते गम्यते भोग्येन कर्मपुरुषेण तेन द्रव्यं क्रियते कर्मपुरुषेणैव कर्मपुरुषः क्रियत इत्युक्तं भवति, यथा व्रीहिणैव व्रीहिः क्रियते कार्येणैव बीजव्रीहिणाङ्कुरव्रीहिरिति ।
यदा चेत्यादि, यस्मिन् काले एवञ्च कृत्वा पुरुषस्य प्रवृत्तौ साध्यायां मास्ति कर्तृत्वमिति 10 सिद्धं-कर्मण एवेति सिद्धं तदा-तस्मिन् काले द्रवतीति द्रव्यं कर्तृसाधनं न भवति, स्वतंत्रस्य कर्तुर
नुपपत्तेः, कर्मपरिग्रहविशेषात्तु-तुशब्दो विशेषावधारणार्थः, कर्मसाधनमुपपन्नार्थ द्रव्यं द्रूयत इत्ययं विशेषोऽवधार्यते, तद्विग्रहं दर्शयति-द्रूयते गम्यत इत्यादि, तदिदानीं निरूप्यते-भोग्येन कर्मपुरुषेण तेन द्रव्यं क्रियते, किमुक्तं भवति ? कर्मपुरुषेणैव कर्मपुरुषः क्रियत इत्युक्तं भवति, तत्र दृष्टान्तो
यथा व्रीहिणैव व्रीहिः क्रियत इति, कार्येणैव बीजव्रीहिणाङ्करब्रीहिरिति तद्व्याख्या, एवं तावदवधार1bणेन कत्रों निराकृतः, कर्मैकान्तवाद उपपादितः, चेतनाचेतनैक्यात् सर्वसर्वात्मकत्वाञ्च, अयुक्त ईश्वरोऽन्यो हेतुरिति चेति ।
यच्चाप्येवं वादिनस्ते कार्यलक्षणत्वात् कर्मणः कार्य कर्म यत्क्रियते तत्कर्मेत्यक्षरार्थाचानुमेयः कर्ता, तस्मात् कर्मणोऽन्यं कर्तारमन्तरेण कर्माभावात् घटस्येव कुलालो
पुरुषकारः सहेतुको यदि तर्हि स हेतुः कमैव शुभपुरुषकारस्यानर्थफलं प्रत्यशुभपुरुषकारस्य शुभफलं प्रति समर्थम् , नान्यत् , 20 अतोऽनुमीयते, एतच्छुभाशुभवैचित्र्यं कर्मवशादेव, युक्तिक्षमहेत्वन्तराभावादिति, हेत्वन्तराणाञ्च कारणत्वं विचारेण निषिद्धमेव,
तस्मात् कमैव कारणं नान्यत् , पुरुषकारोऽपि न कारणमिति भावः । प्रवृत्तिं प्रति कर्मण एव खतंत्रहेतुत्वे पुरुषो न प्रवृत्तिं प्रति कर्तेति पुरुषस्य पर्यायगमनकर्तृत्वलक्षणद्रव्यत्वं नोपपन्नमखतंत्रत्वात् किन्तु द्रूयते गम्यते यत्तद्रव्यमिति कर्मव्युत्पत्त्या द्रव्यत्वं तस्येत्याह-यदा चैवमिति । कर्मण एव कर्तृत्वे पुरुषः कथं द्रव्यं भवेत् , द्रवतीति हि द्रव्यमुच्यते तत्र यत्प्रत्ययस्य कतरि विहितत्वात् , स्वतंत्रस्यैव च कर्तृत्वात् , अखतंत्रस्य पुरुषस्य न द्रव्यतेत्याशङ्कायामाह तस्मिन् काल इति । किन्तु द्रव्य. 25 शब्दस्य कर्मव्युत्पत्त्या पुरुषो द्रव्यं भवतीत्याह-कर्मपरिग्रहेति । कर्मपरिग्रहविशेषादेवेत्यर्थः, तथा च द्रव्यशब्दः कर्मसाधनः, द्रूयते यत्तव्यमिति व्युत्पत्तरिति भावः । तात्पर्यमाह भोग्येनेति, ज्ञानावरणादिना भोग्यं हि कर्म, तेन द्रूयते पुरुष इति तद्रव्यम् , तथा च कर्मात्मा पुरुष एव कर्मात्मानं पुरुषं करोति, कर्मपुरुषयोरन्योऽन्यादिकरत्वात् , कर्म एव पुरुषो भवति पुरुष एवं कर्म भवतीत्युक्तत्वात , प्रयोजन परमार्थत्वाद्भवितृत्वस्य कर्मणः प्रयोजकत्वेन परमार्थतः तदेव भवति, यथा
बीजव्रीहिणा प्रयोजनाङ्करव्रीहिः क्रियते तथैव कर्मपुरुषेण कर्मपुरुषः क्रियत इति भावः । उपसंहरति एवं तावदि 30 कर्मपुरुषेणेत्यवधारणेन द्रवतीति द्रव्यमिति कर्बर्थनिराकरणात् कमैकान्तवाद उपपादितः, न तु पुरुषोऽपि कारणम् , कमैकान्तवादे दोषमाशङ्कते-यश्चाप्येवमिति, क्रियत इति व्युत्पत्त्या कर्मणः कार्यलक्षणत्वात् तस्यापि कश्चित् कर्ताऽनुमेय
१ सि. क. 'रनुमानश०।२ सि. क. एतदपि बुद्धि । ३ सि. क. सिर्द्ध ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org