________________
कर्मान्यकर्तृशङ्का] न्यायागमानुसारिणीव्याख्यासमैतम्
४७१ ब्याप्येष्यः कर्तेति, तन्न, ननु कर्मणैव करिष्यते स्वत एव कर्मणा कर्म क्रियते, न तु तद्व्यतिरिक्तेन कञत्युक्तम् ,।
___ यचापीति , न केवलं कर्तृसाधन एव दोषः, किं तर्हि ? कमैंकान्तवादोऽप्ययुक्तः, तत्प्रदर्शनार्थमाह एवंवादिनः ते पुनः कार्यलक्षणत्वात् कर्मणः कार्य कर्म यत्क्रियते तत्कर्म, कर्तुरीप्सिततमं कर्मेति (पा० १-४-४९) लक्षणादक्षरार्थाच्चानुमेयः कर्ता, तस्मात् कर्मणोऽन्यं कर्तारं कर्म- 6 व्यतिरिक्तमन्तरेण कर्माभावाद्घटस्येव कुलालो व्याप्येष्यः कर्ता, प्रयोगश्च स्वतो व्यतिरिक्तचेतनकर्तृकम् त्वदिष्टं कर्म, कार्यत्वात् , क्रियमाणत्वात् , घटवदिति, अत्रोत्तरं परः-ननु कर्मणैव करिष्यत इति, स्वत एव कर्मणा कर्म क्रियते न तु तद्व्यतिरिक्तेन कर्ऋत्युक्तम् , ब्रीहिणैव ब्रीहिः कार्येण बीजब्रीहिणा कार्योऽङ्करब्रीहिः क्रियत इत्युक्तं मयेति स्मारयति । इतर आह
10 ननु सुदूरमपि गत्वा त्वयाप्येतदभ्युपगन्तव्यं कर्मव्यतिरिक्तः कर्ता पुरुषोऽस्तीति, वीहेरप्यावर्तकत्वात् , स्वरूपभेदात् , अक्षरार्थाच्च निर्विवादकृतकत्वात् कर्मणः कत्तुरेव भावः सर्वस्य, एवञ्च त्वदुक्तहेतोरेव कर्मव्यतिरिक्तपुरुषसिद्धरावर्तकवैधर्येण कर्मणः कृतकत्वं कर्थोत्तरभूतस्यावधारणञ्चायुक्तम् , तच्छक्तेः।।
ननु सुदूरमपि गत्वेत्यादि, विचार्य विचार्याप्यात्मव्यतिरिक्तपुरुषाविनामावित्वात् कर्मण- 15 स्त्वयाप्येतदभ्युपगन्तव्यं कर्मवादिना कर्मव्यतिरिक्तः कर्ता पुरुषोऽस्तीति, कस्मात् ? ब्रीहेरप्यावर्त्तकत्वात् , अस्यापि ब्रीहिदृष्टान्तस्य क्षित्युदकाकाशवाताङ्कुराद्यावृत्तिरूपत्वात् तेषाञ्च स्वरूपभेदात स्वतः पृथग्भूतकञविनाभूतं कर्म सिद्धयति, अतो विपर्ययसाधनत्वमिति, किञ्चान्यत्-अक्षरार्थाच्च-क्रियत एव, यतः काऽऽस्तु यदिष्यमाणतमं तस्कर्म भवतीति व्याकरणेनापि कर्तृसिद्धिः, लक्षणव्युत्पत्तिभ्याच कर्मणोऽपि कर्ताऽनुमेयस्तस्मान्न कर्म खतंत्रं कारणमिति कर्मैकान्तवादोऽपि न युक्त इत्याशयं वर्णयति-न केवलमिति कार्यत्वं कर्मणो लक्षणम् , 20 यत्क्रियते तत्कर्मेत्यक्षरार्थः, फलितमाह तस्मादिति, कर्मव्यतिरिक्तं कर्तारमन्तरेण कर्मणोऽसम्भवात् कर्ता सिद्ध्यतीति भावः । व्याप्येष्य इति व्याप्येन कर्मणेष्योऽभिलषणीयः कर्तेत्यर्थः । अनुमानेन तमेवार्थमाह-प्रयोगश्चेति, त्वदिष्टं कर्मेति साध्यधर्मी, खतो व्यतिरिक्तचेतनकर्तृकमिति साध्यधर्मः, कार्यत्वादिति लक्षणभूतो हेतुः, क्रियमाणत्वादित्यक्षरार्थों हेतुः,, घटवदिति दृष्टान्तः, इत्थं कर्तारं प्रसाध्य कर्मणः खातंत्र्यं प्रतिक्षिप्तम् । समाधानमाह-अत्रोत्तरमिति, परः कमैकान्तवादीत्यर्थः , स्वतो व्यतिरिक्तकर्तृकत्वमसिद्धम् , कर्मणैव कर्म क्रियत इति पूर्वमुपपादितत्वादिति भावः । प्रभूतं विचारं विधायाप्ति 25 कर्मव्यतिरिक्तः कर्ताऽवश्यमभ्युपेय एव, नहि पुरुष विना कर्म किमपि कर्तुमीष्टे, व्रीहिणैव ब्रीहिः क्रियत इति दृष्टान्तोऽप्यसन्नेव, बीहे म्यादिविकारत्वात् भूम्यादेश्च ब्रीहेर्भिन्नखभावत्वान्न व्रीहित्वमिति सोऽपि खव्यतिरिक्तकर्तृलब्धात्मेत्याशयेनाह नन्विति, कर्मपुरुषेणैव कर्मपुरुषः क्रियत इत्येतावतैव न विचारविरमणं भवति, कर्मणोऽपि कार्यत्वात् , स्वस्य खापेक्षत्वे आत्माश्रयदोषात्तद्वयतिरिकं कारणमवश्यमेष्टव्यमिति भावः । एतदेवाह-विचार्य विचार्यापीति, व्रीहिदृष्टान्तस्त्वयोक्तस्त्वदिष्टविपर्ययस्यैव साधक इति वर्णयति अस्यापि वीहिदृष्टान्तस्येति । क्रियत इति कर्मोच्यते कर्मव्युत्पत्त्या प्रयत्नकर्मत्वं 30 प्रयत्ननिष्पाद्यत्वमेव कर्मणो लभ्यते, न तु प्रवर्तकत्वम् , तथा च प्रयत्नकर्ताऽन्यो वाच्यः, यस्य प्रयत्नात् कर्माऽऽत्मलाभ लभत इति तथाविधप्रयत्नविधाता खतंत्रः पुरुषोऽवश्यमङ्गीकार्य इत्याह-अक्षरार्थाच्चेति । कर्तुरिति न षष्ठी किन्तु पञ्चमी,
सि. क. कर्तरी०।२सि.क. वास्येष्यः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org