________________
४७२ द्वादशारनयचक्रम्
[विधिनियमारे इति कर्म, 'कर्तुरीप्सिततमं कर्म (पा. १-४-४९) इति कर्मशब्दाक्षरार्थः, ततस्तस्य कृतकत्वं निर्विवादम् , तस्माञ्च निर्विवाद[कृत]कत्वात् कर्मणः कतुरेव भावः स्वतंत्रश्च पुरुष एव भवति, कर्तुरेव भावः सर्वस्येति पञ्चमीनिर्देशात् पुरुषादेव सर्व भवति कारणात् , एवञ्च त्वदुक्तहेतोरेव कर्मव्यतिरिक्तपुरुषसिद्धेः-कर्मणश्च तद्व्यतिरिक्तस्य सिद्धेरावर्तकवैधर्येण कर्मणः कृतकत्वं कर्थोत्तर। भूतस्यावधारणञ्चायुक्तम् , कुतः ? तच्छक्तेः-तस्मादेव हि कर्तुः पुरुषात् कर्मणः कृतकत्वशक्तिः, कर्तुर्वा पुरुषस्य करणशक्तिः, न व्रीहिणैव ब्रीहिवदावर्तकत्वेनेति ।
न हि सा क्रियमाणाऽलब्धात्मवृत्तित्वादस्वतंत्रत्वाच्च भवति, अभूतदेवदत्तवत् , अनिष्टश्चैतत्तवापि । पुरुषकारप्रत्याख्याने च सर्वशास्त्रवैयर्थ्यप्रसङ्गः, हिताहितप्राप्तिपरिहारा
वौँ हि सर्वशास्त्राणाम् , ताभ्यां प्रमाणान्तरसंवादेन निरुक्तीकृतसत्यत्वानि चिकित्सितादीनि 10 शास्त्राणि पुरुषक्रिययोरभावे निराकृतानि स्युः, नैवेष्यते तन्निराकरणमेवम् , त्वदुपदेशादिक्रियाणाञ्च दृष्टार्थानाम् , कर्मप्रवृत्तिमात्रत्वात्तत्प्रतिपत्त्यप्रतिपत्त्योः ।
न हि साँ क्रियमाणेत्यादि यावद-भूतदेवदत्तवदिति, तदेव भावयति तस्याः कर्मशक्तेः [अ] स्वतंत्रत्वमलब्धात्मवृत्तित्वात्, अस्वतंत्रत्वाच्च कुतो भवनम् ? दृष्टान्तः-अभूतदेवदत्तवत्-यथा गर्भोपक्रमावस्थायां कार्यायामलब्धात्मवृत्तित्वादस्वतंत्रः, अस्वतंत्रत्वादकर्तृत्वमकर्तृकत्वाच्च न भवति 15 कार्यावस्थाव्यतिरेकेण यथा देवदत्तस्तथा कार्यावस्थायां कर्मापि क्रियमाणं न भवेत् , अनिष्टश्चैतत्तवापि तस्मात् कर्म भवति, तच्च पृथग्भूतपुरुषभवनादृते न भवतीत्यस्ति पुरुषः । किश्चान्यत् पुरुषकारप्रत्याख्याने सर्वशास्त्रवैयर्थ्यप्रसङ्गः, कथं ? यथाक्रमं हितप्राप्त्यहितपरिहारावौँ सर्वशास्त्राणाम् , ताभ्यां हिताहितप्राप्तिपरिहारार्थाभ्यां निरुक्तीकृतसत्यत्वानि प्रमाणान्तरसंवादेन चिकित्सितादीनि शाखाणि,
तथा च सर्व कर्तुः पुरुषादेव कारणाद्भवतीत्यर्थ इत्याह-कर्तुरेवेति । तत्प्रयुक्तत्वादित्वदुक्तहेतुत एव कर्मव्यतिरिक्तः पुरुषः 20 सिद्ध्यति, द्रव्यमित्यत्र कर्मव्युत्पत्तिवत् कर्मेत्यस्यापि कर्मव्युत्पत्त्याऽक्षरार्थानुरोधेन कर्मपुरुषयोर्भेदसिद्धेरित्याह एवञ्चेति । व्रीहिवैधपेण कर्तारं विना खतः कर्मणैव कृतकत्वं कर्मणैवेति कर्तततीयोत्तरमेवकारेणावधारणञ्चायुक्तमित्यत्र हेतुमाह तच्छकेरिति, तस्माच्छक्तिस्तच्छक्तिस्तस्मात् , कर्मणः कृतकत्वशक्तिः पुरुषादेव, कर्तुः पुरुषस्य च कारणशक्तिः स्वतंत्रत्वादिति भावः, कर्तुरीप्सिततमं कर्म स्वतंत्रः कति लक्षणादिति भावः । यदुक्तं तदेव तथा भवति कर्मपुरुषेणैव कर्मपुरुषः क्रियत इति तन्निराकरोति-नहि सेति कर्मणो ह्यात्मलाभः पुरुषात् न स्वतः, तस्मात्तच्छक्तिरस्वतंत्रा, अलब्धात्मनि वृत्तेः, तथा चाखतंत्रकत्वात् पुरुषमन्तरेण तत्कथं भवति तस्मात् कर्तृभूतकर्मण एवासिद्धस्ततः कर्मभूतपुरुषः कथं क्रियत इति भावः । तत्र दृष्टान्तमाह-अभूतदेवदत्तवदिति यथा गर्भस्य प्रारम्भावस्थायां कर्त्तव्यायां देवदत्तो न खतंत्रस्तदानीमलब्धात्मवृत्तित्वात् अखतंत्रत्वाच्च न कर्ता, अत एव न भवति कार्यावस्थाव्यतिरेकेण सः, तथैव कर्मापि कार्यावस्थायामलब्धात्मवृत्तित्वेनाखतंत्रत्वात् कर्मणा कर्म क्रियमाणं न भवेत् , क्रियमाणता च न तस्येष्टा कार्यत्वात् , तस्मादस्ति तद्व्यतिरिक्तः कश्चित् कर्ता येन कर्म क्रियमाणं भवतीति भावः। पुरुषक्रियाया अनभ्युपगमे दोषान्तरमाह-पुरुषकारेति, पुरुषक्रियाया निराकारणे ३० पुरुषस्य हिताहितप्राप्तिपरिहारार्थविधिनिषेधप्रकाशकशास्त्राणां निरर्थकता ध्रुवैव भवेत् , पुरुषस्याखातंत्र्येण तत्क्रियानुदयादिति
भावः । तानि च शास्त्राणि प्रमाणभूतानि तदुक्तानुष्ठानेन तदुक्तफलप्राप्तिलक्षणप्रमाणान्तरेण तत्प्रतिपादितार्थस्य यथार्थत्वादित्याह-ताभ्यामिति । कानि तानि शास्त्राणीत्यत्राह-चिकित्सितादीनीति वैद्यशास्त्राणीत्यर्थः । तच्छास्त्रवाक्यान्याह
सि. क. कर्तुत्वं । २ सि. क. स्वतंत्रस्य० । ३ सि. क. सक्रियमाण इ०। ४ सि. क. माभूत । ५ सि. क. गर्भोयिक्रमा।
Aammam
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org