SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कर्मनिराकरणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ४७३ यथा ‘कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः । तद्वद्दन्ती प्रभावात्तु विरेचयति सा नरम् ॥' (चर के wwwwwm सू० अ. २६ श्लो० ६८ ) ' नागरातिविषामुस्ताकाथः स्यादामपाचनः ' ( चरके चि. अ. १५ लो. ९८ ) इत्यादीनि, पुरुषक्रिययोरभावे कर्मकारणैकान्ते निराकृतानि स्युः, इत्थं नैवेष्यते तन्मिराकरणम्, कस्यचित् प्रामाणान्तरसंवादिनः शास्त्रस्य प्रामाण्यदर्शनात् त्वदुपदेशादिक्रियाणाञ्च दृष्टार्थानां निराकरणमेवमिति वर्त्तते, कर्मकारणैकान्ते पुनः पुरुषस्य स्वतंत्रस्य तत्क्रियायाश्चाभावे पर 5 प्रतिपादनार्थं तच्छक्तियुक्तशब्दोच्चारणक्रिया न स्यात्, कर्मत एव प्रवृत्तेः, आदिग्रहणादोदनस्य मुखसंयोजनादिक्रियाश्च न स्युः कर्मप्रवृत्तिमात्रत्वात्तत्प्रेतिपत्त्यप्रतिपत्योः- त्वदुपदेशार्थप्रतिपत्तिः कर्मत एव परस्य सा प्रतिपद्येत विनाप्युपदेशेन, न प्रतिपद्येत वा सत्यप्युपदेशे । www कर्मप्रवृत्तिमात्रत्वात्तत्प्रतिपत्त्यप्रतिपत्त्योः कर्मत एव भवतीत्युपपद्यते, प्राज्ञपुरुषप्रतिपत्तिवत् बलीवर्दाद्यप्रतिपत्तिवच्च तस्मात् सर्वाण्येतानि कर्मण एवेति चेत्, त्वमिदमसि तावत् 10 प्रष्टव्यः, अथ तदादिकर्म कुतः ? किं तदपि कर्मण एव ? उत पुरुषात् ? इति ब्रूयास्त्वं ओमिति गत्यन्तराभावात् न, व्रीहिवैधर्म्येणाकर्त्तृकत्वात् कृतकत्वमपयाति, ततो वातो ब्रीहिरकृतकः, ततश्चाक्रियमाणत्वान्न कर्मत्वं तस्य आत्मादिवत्, उत्क्षेपणादिवदिति, एवञ्च कृत्वा तदपि सर्वमसम्बद्धं यत्कर्मकारणैकान्तिन आहुः, यच्च पुरुषकारकारणैकान्तिन आहुः । कर्मप्रवृत्तिमात्रत्वादित्यादि, यावत् कर्मण एवेति चेत्, स्यान्मतं यदुच्यते शास्त्रनिरा- 15 करणमेवं तदुपदेशादिनिराकरणञ्च कर्मणोऽस्वतंत्रत्वे सत्यलब्धात्मवृत्तित्वादभूतदेवदत्तवदभवनं निर्विवादकृतकत्वात् कर्तुरेव भावः, तच्छक्तेः व्रीहेरप्यावर्त्तकेत्वात् स्वरूपभेदात् पुरुष एव भवतीत्यादि wwwwww कटुक इति ओषधिविशेषश्चित्रको रसे कटुकः, विपाके कटुकः, वीर्ये उष्णः सम्मतः, दन्त्यभिधानौषधिरपि रसवीर्यविपाकेषु चित्रकसमान गुणा भवति, तत्र रसेन वीर्येण विपाकेन च द्रव्यं किञ्चित् किञ्चित् कर्म कुरुते, एवं प्रभावेणापि दन्ती कटुकरसविपाकोष्णवीर्यापि प्रभावात् नरं विरेचयति, न चित्रकः, एवं रसं तुल्यबलमपि विपाकोऽपोहति, रसविपाकौ तुल्यबलावपि 20 वीर्यमपोहति, रसवीर्यविपाकान् समबलानपि प्रभावोऽपोहति यथा दन्ती, अत्र हि प्रभावेण रसवीर्यविपाका अभिभूयन्त इति श्लोकाभिप्रायः, श्लोकान्तरमाह नागरेति, आभिरोषधिभिर्विरचितः क्वाथः आमं पाचयतीत्यर्थः, एतेषां वचनानां प्रोक्तविधिनाऽनुष्ठानेन तदुक्तफलावाप्तेः संवादेन सत्यार्थतेति भावः । पुरुषतत्क्रिययोर किञ्चित्करत्वे कर्मण एव प्रधानकारणत्वे स्वतः कर्मनाशकपुरुषप्रवृत्त्यसम्भवेन शास्त्राणि वैयर्थ्यान्निराकृतानि भवेयुरित्याह- पुरुषेति । न चैवमिष्यते शास्त्रप्रामाण्याभ्युपगमादित्याह-इत्थं नैवेष्यत इति । दोषान्तरमाह त्वदुपदेशादीति, त्वदुपदेशादिक्रियाणाञ्च दृष्टार्थानां निराकरणमेवमिति 15 योजना, तदर्थमाह-कर्मकारणैकान्त इति, यदि कर्मैव कारणं नान्यत् किश्चित्तर्हि परं बोधयितुं समर्थशब्दोच्चारणं न स्यात्, कर्मत एव प्रवृत्तिसम्भवादित्यर्थः । त्वदुपदिष्टार्थस्य बोधः परस्य यदि कर्मत एव स्यात् न तु पुरुषकारात्तर्हि तमुपदेशमन्तरेणापि प्राप्नुयात् नैव वा प्राप्नुयादुपदेशे सत्यपि तथाविधकर्माभावादेवश्चोपदेशादिक्रिया व्यथैवेति निराकृता भवेत्, कर्मैकान्तवाद इत्याह कर्मप्रवृत्तिमात्रत्वादिति । अथ कर्मैकान्तवादी पुरुषवादिनोक्तान् दोषान् साधकांश्चानूय दूषयति स्यान्मतमिति शास्त्रनिराकरणं तदुपदेशनिराकरणञ्चाधुनैवोक्तम्, कर्मणोऽस्वतंत्रेत्यादि तु न हि सेत्यादिग्रन्थेन पुरुषसाधकेन - 30 १ सि. तत्प्रतिपरयोः । २ सि वर्त्तकात् । द्वा० न० २२ (६०) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy