________________
४७४ द्वादशारनयचक्रम्
[विधिनियमारे सर्व नोपपद्यते कर्मत एव भवतीत्युपपद्यते कर्मप्रवृत्तिमात्रत्वात् तथा शास्त्रार्थस्यास्मदुपदेशादिक्रियाणाश्च प्रतिपत्त्यप्रतिपत्त्योः कर्मप्रवृत्तिमात्रत्वात् , प्राज्ञपुरुषप्रतिपत्तिवत् बलीवर्दाद्यप्रतिपत्तिवञ्च, तस्मात् सर्वाण्येतानि कर्मण एव हेतोर्भवन्ति पूर्वोक्तन्यायवत् वृथा त्वायासादिशारीरमानसक्लेश
फलत्वात्तस्येति, चेदाशङ्कायाम् एवञ्चेन्मन्यसे ततस्त्वमिदमसि तावत् प्रष्टव्यः, अथ तदादिकर्म कुत 5 इति, मम तावदभिप्रायः कृतकत्वात् कर्मणः पुरुषादेव तदिति, तन्नेच्छता त्वया वक्तव्यं कुतस्तदादिकर्म ? यत एतत्सर्व प्रतिपत्त्यप्रतिपत्तिक्लेशादीति, त्वदभिप्रायाकैर्णनार्थः प्रश्नः, किं तदपि कर्मण एव ? उत पुरुषादिति, ब्रूयास्त्वं ओं-पुरुषादेवेति,-एवं नामास्तु को दोषः गत्यन्तराभावात् , कर्मत एवेत्यभिप्रायः स्यादिति, अत्र ब्रूमः, न, व्रीहिवैधयेणाकर्तृकत्वात् ब्रीहेरस्याकर्तृकात् कृतकत्वमपयाति ततो वाऽतो ब्रीहिरकृतकोऽकर्तृकत्वात् , ततश्चाक्रियमाणत्वान्नोपपद्यते कर्मणः कर्मत्वं तस्यादिकर्मणः 10 किमिव ? आत्मादिवत् यथाऽऽत्माकाशकालदिगादीनि न केनचिक्रियन्ते इत्यकर्माणि तथाऽऽदिकर्मापि स्यात् , उत्क्षेपणादिवदिति, वैधर्म्य[निदर्शनम् यथोतक्षेपणं कर्म तद्व्यतिरेकेणोक्षेत्रा विना न भवति [नतथेदमिति, एवं पुरुषकारवादिन कर्मवादी दूषितः कर्मवादिना प्राक् पुरुषवादी, तस्माद्यदुक्तमेवश्च कृत्वा तदपि सर्वमसम्बद्धं यत्कर्मकारणैकान्तिन आहुः यच्च पुरुषकारकारणैकान्तिन आहुस्तदपि सर्वमसम्बद्धं परस्परदूषितत्वादिति ।
15 क्तम् , निर्विवादकृतकत्वादिति ननु सुदूरमपि गत्वेत्यादि ग्रन्थेनोक्तं एवमनूद्याथ सर्वा प्रवृत्तिः कर्मत एवेत्याह कर्मत एव
भवतीत्युपपद्यते इति तत्र हेतुमाह कर्मप्रवृत्तिमात्रत्वादिति पुरुषस्य सर्वाः प्रवृत्तयः कर्मत एव, न हि तद्वयतिरेकेण स ईषदपि स्पन्दितुं क्षम इति भावः । शास्त्रोक्तविधिनिषेधयोरुपदेशस्योदनमुखसंयोजनादिक्रियायाश्च प्रतिपत्तिरप्रतिपत्तिर्वा सर्व कर्मत एवेत्याह-तथा शास्त्रार्थस्येति । सत्यपि समतयोपदेशादौ प्राज्ञः पुरुषस्तदर्थमधिगच्छति, अज्ञो बलीवर्दादि
र्नाधिगच्छति कृतेऽपि प्रयत्ने तस्मात्सर्व कर्मनिमित्तमित्याह प्राज्ञपुरुषेति । पूर्वोक्तन्यायवदिति, कार्यातिरेकात्तु कारणाति. 30 रेक इत्यादि पूर्वोदितन्यायवत् कमैव प्रवर्तकमिति भावः । पुरुषकारस्तु वृथैव, आयासकरत्वेन निष्फलत्वादित्याह वृथा त्विति । अथ पुरुषकारवादी विकल्प्य समाधत्ते-ततस्त्वमिदमसीति,प्राथमिक कर्म कुत उत्पन्नम् , द्वितीयतृतीयादिकर्मणां पूर्वकर्मणा सम्भवेऽपि प्राथमिकं कर्म कथमुत्पद्यते, तत्पूर्व कर्मणोऽभावात् , कर्मणश्च क्रियमाणत्वात् क्रियमाणस्य च कर्तुरावश्यकत्वादिति भावः । पुरुषवादी स्वाभिप्रायं प्रकटयति-मम तावदिति,मच्छन्दानुवर्ती सन् पुरुषादेव तदादिकर्म भवतीति भवान्
ब्रूयात्तदा दोष वक्तुमाह-ब्रूयास्त्वमिति, नैवमस्ति ममाभिप्रायः, अपि तु त्वदाशयेनैवोच्यत एवम् , कोऽत्र दोष इति 25 भावः । दोषमत्राह पुरुषवादी-अत्र ब्रूम इति, मच्छन्दानुवती सन् नैवं वक्तुं शक्नोति, यतः कर्म अकृतकं अकर्तृकत्वात् , यद्धि कृतकं तत्सकर्तृकं यथा व्रीहिरिति व्रीहिवैधये॒णाकर्तृकत्वेनास्याकृतकत्वमेव सिद्ध्यति, अन्यथा व्रीहेः सकर्तृकत्वानभ्युपगमेऽकर्तृकत्वाद्रीहिरपि न कृतकं स्यादिति भावः । एवञ्च कर्मणोऽकृतकत्वसिद्धौ क्रियमाणत्वाभावेन क्रियत इति कर्मेति व्युत्पत्तिसिद्धं कर्मत्वमपि न स्यादित्याह-ततश्चेति । आदिकर्मत्वेनेष्टं न कर्म, अक्रियमाणत्वात् , आत्मादिवत् , वैधये॒णोत्क्षेपणादिवत् ,
उत्क्षेपणादि क्रियमाणत्वात् कर्म तस्मादेव चोत्क्षेप्तारमन्तरेण तन्न भवति न चैवमादिकर्मेति भावः । एवञ्च कृत्वा कमैकान्तवाद30 दोषप्रकाशनमेव कृतं वेदितव्यमसम्बद्धत्वात्तस्येति पुरुषकारवादिनोक्तं तदेव स्मारयन् तद्वाद इवायमपि वादो दुष्ट एवेति निगमयति-तस्माद्यदुक्तमिति हेतुमाह-परस्परेति परस्परेण परस्परं दूषितत्वात् , कर्मवादिना पुरुषवादस्य पुरुषवादिना च
१ सि. प्रतिपत्त्योः । २ चि' प्रायाकर्षणार्थः । ३ पुरुषादेवेति युक्तं भाति । ४ सिक' स्यावर्तकत्वाकर्तृत्वमुपयाति तमोबातो व्रीहिः । ५ सि. क. नोरक्षेप० ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org