________________
ईश्वरहेतुदूषणम् ] न्यायागमानुसारिणीव्याख्यासमेतम् पुद्गलशब्दयोरिन्द्रशक्र[ शब्द ]वदेकार्थत्वाददोषः । अथैवं नेष्यते-यथा मयोक्तं कर्मकर्मिणोरन्योन्यादिकरत्वं यदि न स्यात् , ईश्वरवशात् स्वभावादेः प्रकृत्यादेर्वा कुतश्चित् संसारवैचित्र्यं स्यादितीप्यते ततो नैवात्मा वप्येत कर्मणा-संसारबीजभूतेन शुभाशुभेन, ततश्च तत्फलभूतैः शरीरेन्द्रियस्थानविषयैः शुभाशुभैन युज्येत, विकर्मत्वान्मुक्तवत् , मुक्तो, वा बध्येत, तत एव तद्वत् । स्यान्मतं मुक्तामुक्तविकल्पसम्भव एव परमार्थतः, सृष्टिवशव्यवस्थानादिति, तदपि नोपपद्यते प्रकृतीश्वरादिसृष्टिवशादेव । न बध्येत तनुकरणादिभिः, न युज्येत भुवनेन च, अमूर्त्तत्वादाकाशवत्, आकाशं वा बध्येत युज्येत तदतत्त्वादिभिः, तत एव त्वदभिमतपुरुष इव, अनिष्टश्चैवमादिभव[त्वं] इति ।
किश्वान्यत्
यदि त्वदृष्टाभावेऽप्यसावीश्वरः ततस्ते मुक्तानामपि तनुकरणानि भुवनानि च कुर्यात्, ईश्वरत्वात् सर्गादिवत् , प्रलयकालेऽपि सर्वेषां कुर्यात्तत एव तद्वत् , मध्ये वा न 10. कुर्यात् , ईश्वरत्वात् प्रलयकालवत्, अनिष्टश्चैतत् , अस्मात् कर्मैक्यात् सर्वसर्वात्मकत्वात् सर्वेश्वरता, अत एव चाणुत एव सुखादयः, तस्माददृष्टादितः सृष्टिरिति वादान्तरपरिकल्पितं त्यक्त्वाऽस्मदभ्युपगमोऽवश्यम्भावी, तस्मात् सम्भूयकारित्वाचेतनत्वस्थित्वाप्रवृत्तीनामपक्षधर्मता, एकत्वात् ।
यदि त्वदृष्टाभावेऽपीत्यादि, मया तावदित्थमदृष्टाख्यकर्मत्वापन्नसर्वपुरुषेश्वरत्वमुक्तम् , 15 तस्य तस्य तत्त्वस्यादिकरत्वात् , तन्न चेदित्थमादिकरत्वमिच्छसि ततोऽपि त्वदनुवृत्त्याऽभ्युपगतेऽप्यहटाख्यकर्माभावेऽपि मया दोष उच्यते-असावीश्वरस्ततस्ते मुक्तानामप्यर्भूततथाविधहेतुकर्मणां सनुकरणानि भुवनानि चासौ कुर्यात् , ईश्वरत्वात् , सर्गादिवत् , तथा प्रलयकालेऽपि सर्वेषां कुर्यात् तत एव तद्वत् , मध्ये वा न कुर्यात् , ईश्वरत्वात् , प्रलयकालवत् , अनिष्टश्चैतत् , अस्माच्चानिष्टात् कर्मास्मैक्यात् सर्वसर्वात्मकत्वात् सर्वेश्वरता, अत एव चेत्यादि, कर्मात्मैक्यसर्वेश्वरत्वभ्यामगुंत एव- 20 कर्मत एव सुखादयः, तस्माददृष्टात् सृष्टिः प्रधानात् सृष्टिः पृथगणुभ्योऽदृष्टचोदितेभ्यो वा सृष्टिरिति तयेति पुद्गलाः पूरणाद्गलनाच्च, संहन्यमानत्वात् , विसंहतिमत्त्वाचेति निरुक्तिभेदः । अथान्योऽन्यादिकरत्वं कर्मकर्मिणोरनभ्युपगम्येश्वरादितः संसारवैचित्र्याभ्युपगमे कर्मवैयद्विन्धमोक्षयोरसम्भवमाचष्टे-अथैवमिति । अथ कर्मात्मकपुरुषानभ्युपगमेनेश्वरस्य सृष्टिसामर्थेऽभ्युपगम्यमाने दोषमादर्शयति-यदि त्विति, पूर्व जीवस्य बन्धमोक्षानुपपत्तिरुक्ता, अधुनेश्वरो मुक्तानामपि संसारित्वं संसारिणां मुक्तत्वं कुर्यादित्युच्यत इति भेदः । अभूतेति, संसारित्वहेतुभूतानि कर्माणि येषां न भूतानि 25 तेषामित्यर्थः । अविशेषात्सृष्टिकाल इव प्रलयकालेऽपि कुतो न सृजति, यदि प्रलयकाले न सृजति, तर्हि मध्यकालेऽपि न . सृजेत् , इतरानपेक्षश्वर्यभाक्त्वात्तस्येत्याह-तथा प्रलयकालेऽपीति । तस्मात् कर्मैव समर्थ तदात्मा जीवोऽपीति सर्वेश्वरत्वाभ्युपगम एव युक्त इत्याह-अस्माच्चेति । अदृष्टप्रधानेश्वरवादत्याग आवश्यक इत्याह-कर्मात्मैक्येति । एवञ्च तनुकरणादीनां कर्मैक्यात् सर्बसर्वेश्वरत्वाच्च न सम्भूयैकार्थकारित्वं कर्मात्मैक्येन द्वितीयाभावात् केन सह भावः, अचेतनत्वमपि नास्ति तेषाम् ऐक्यादेव, पूरणपालनगलनपुङ्गलनादिधर्माणां निरन्तरं प्रवृत्तेश्च न स्थित्वाप्रवृत्तिरपि परमाण्वात्मनोः परस्परग्रहणपरिणमनादिषु 30
सि. क. मुचनेनच । २ सि. क. नादिभव। ३सि.क. तत्त्वाद्यादि। ४ सि. क. 'मप्यभूतंतथाविधहेतूनांकमणां। ५ सि.क.मणव ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org