________________
द्वादशारनयचक्रम्
10
४६२
सप्रभेदानि कर्माणि पुद्गलात्मकानि उदीर्णान्यप्यात्मनोऽक्षरानन्ततमभागमुपयोगस्वाभाव्यान्नावृण्वन्ति शेषं केषाञ्चिदावृण्वन्ति एकेन्द्रियनिगोदसूक्ष्मापर्याप्तकादीनाम्, कर्मणां क्षयोपशमवैचित्र्यात् । 'सव्वजीवाणं पि य णं अक्खरस्स अनंततमो भागो णिश्वग्घाडिओ तंपि जइ आवरिज्जेज्जा तेण जीवो
www
अजीवत्तं पावइ, सुडु वि मेहसमुदये होइ पभाचंदसूरा' (नंदी० सू० ४२ ) तथा 'स्वल्पं रजो 5 हि कलुषञ्च नभः करोति राहुर्गृणोति शशिनं बलवांश्च सोमः । पङ्कं विनाशयति वारिगुणावकृष्टं दोषा मुहूर्त्तरभसा बलवान् स्वभावः ॥' ( ) इति, तस्मात् कर्म कर्मिणोरन्योन्यादिकरत्वम्, केवलिनस्तु विगतसर्वावरणविघ्नमोहत्वाद्यद्यप्युपयोगावरणाभावात्तथाविधोपयोग गतिर सिद्धा तथापि वेद्यायुर्नामगोत्र कर्म चतुष्क तत्प्रयुक्तत्वादिहेतु सद्भावादन्योन्यादिकरत्वं सिद्धम्, सिद्धौ चातिकर्मनिर्मुक्ताव्याबाधपारिणामिकपरमसुख क्षायिक सम्यक्त्व ज्ञानदर्शनवीर्य लब्ध्यादीनाञ्चादिकरत्वम् ।
नन्वात्मपुद्गलैक्यापत्तिवचनादेव वा भेदप्रतीतेः स्ववचनविरोध इत्येतन्न, पालनपूरणपुरुषत्वात्, निरुक्तिभेदेऽप्यर्थैक्यात् । अथैवं नेष्यते ततो नैवात्मा वप्येत कर्मणा, ततश्च तत्फलभूतैः शुभाशुभैर्न युज्येत, विमुक्तत्वात् मुक्तवत्, मुक्तो वा बध्येत तत एव तद्वत् ।
( नन्विति ) नन्वात्म पुद्गलैक्यापत्तिवचनादेव वा भेदप्रतीतेः स्ववचनविरोध इत्येतन्न, कस्मात् ? पालनपूरणपुरुषत्वात्, 'पू पालनपूरणयोः [ पूरयति ] पालयति सुखदुःखादिविपाकांस्तांस्तान् पुद्गला15 नात्मभावेनेति, पाल्यते तैस्तथाविधोपभोगगत्येति वा पुरुषः पूरयति तान् तैः पूर्यत इति पुरुषः; पुमांसं गिलति पुंसा वा गिल्यत इति पुद्गलः पूरणाद्गलनाद्वा पुद्गल इति निरुक्तिभेदेऽप्यथैक्यात् [ पुरुष ]
[ विधिनियमारे
Jain Education International 2010_04
"
उक्तार्थे प्रमाणमादर्शयति-सव्वजीवाणं इति, संसारिणां पृथिवीकायादीनां सर्वेषां सर्वजीवपदेन परिग्रहः, अपिः सम्भावनायां, णमिति वाक्यालङ्कारे, अक्षरस्य सामान्यविशेषरूपावबोधस्यानन्तभागः नित्योद्घाटः सर्वदा निरावरणः, सकलत्रैलोक्यान्तर्वत्तिनोऽपि हि पुद्गलाः कर्मतया परिणताः सन्तोऽपि न समावरीतुं समर्था एकस्यात्मनः सर्वात्मनाऽवबोधम्, स त्ववबोधलेशः 20 स्फुरत्येव कियानपि सर्वदा, यदि च ते पुद्गलाः सर्वात्मना तमप्यावृणुयुः ततो निर्जीवतैव स्यादात्मनः, तस्मात् सा निरावरणा सर्वजघन्योपयोगमात्रा प्रथमसमये सूक्ष्मनिगोदापर्याप्तानामेव भवति, यथा च नितान्तघनपटल पिहितेऽपि सवितुर्मण्डले ज्योतिर्लेशः कियानपि चकास्त्येव, न सर्वथैव प्रणश्यति, तद्वदिति भावः । स्वभावादेव सोऽवबोधलेशः निरावरणः समस्तीत्यत्र स्वभावस्य बलवत्त्वप्रकाशिकां लोकोक्तिमाह-स्वल्पं रज इति । स्तोकमपि रजो गगनं मलिनयति, राहुश्चन्द्रमसं निगिरति, पूर्णश्चन्द्रमाः शारदः सलिलं निष्कर्दमं विधत्ते, रात्रिश्च वारिशैत्यमधो नयति, सर्वत्रात्र स्वभाव एव वस्तूनां निबन्धनम्, तस्माद्व25 लवान् स्वभावो न पर्यनुयोज्य इति भावः । तदेवं कर्माप्यादिकरमिति जीवकर्मणोरन्योऽन्यादिकरत्वं सिद्धमित्याह - तस्मादिति । केवल कथमादिकरः, आवरणादिकर्मक्षयात्तथाविधोपयोगगतेस्तत्राभावादित्याशङ्कायामाह - केवलिनस्त्विति, घातिकर्मणां क्षयेऽपि अघातिकर्मणां सद्भावात् तथाविधोपयोगगतिरस्ति तथाऽचेत नवेद्या दिकमेप्रयुक्तत्वमपि केवलिनोऽस्तीत्यादिकरः सोऽपीति भावः । सिद्धस्याप्यादिकरत्वमाह - सिद्धौ चेति कर्माभावेऽपि सुखसम्यक्त्वज्ञानदर्शनादीनां सिद्ध आदिकर इति भावः । नन्वात्मापि कर्म भवति, कर्माप्यात्मा भवतीति आत्मपुद्गलयोरैक्यापत्तिवचनादेव तयोर्भेदः सिद्धः, भिन्नयो30 कताssपद्यते, न त्वेकस्य, स्वत एवैकत्वेनापत्त्यसम्भवात् एवञ्च तयोर्भेदे सिद्धे ऐक्यवचनं व्याहन्यते, न हि घटपटयोर्भिन्नयो कताssपद्यत इत्याशङ्कते - नन्विति, पुरुषपुद्गलशब्दयोरेकार्थत्वात् शक्रपुरन्दरादिशब्दवच्छब्दभेद एव, न त्वस्त्यर्थमेद इति समाधत्ते पालनेति, पालयतीत्यादिव्युत्पत्त्याऽऽत्मभावेन पुद्गलानां पालकः पुरुषः, पाल्यत इत्यादिव्युत्पत्त्या पुद्गलैः पालनीय इति च लभ्यते, पूरयतीत्यादिव्युत्पत्त्या पुद्गलपूरकत्वं पुद्गलैः पूर्यत्वश्च । पुद्गलशब्दव्युत्पत्तिमाह- पुमांसमिति, गृ निगरणे, मिथ्यादर्शनादिहेतुवर्त्तिनं पुरुषं बध्नन्ति वेष्टयन्तीति गिरणार्थः, पुंसेत्यत्राऽऽदानार्थः पुरुषेणाऽऽदीयन्ते कषाययोगभाजा कर्म
For Private & Personal Use Only
www.jainelibrary.org