Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 29
________________ भुवन किंचिद्धनमपयाति. ततो धनपिपासाजनितमहार्तध्यानस्येतस्ततोऽवलोकयतस्तस्य पार्श्वेऽन्यदोद्भांतलोचनः समुत्तालगतिः समायातः कोऽपि पुरुषः, नीतस्तेन रहलि वैश्रमणः, दर्शितमतिप्रधानं शिरःकठायाभरणं, विज्ञातं च तेन तस्य पुरुषस्येगितादिना तस्कराहतमेतदिति. ततः संज्ञितः स श्रेष्टिपुत्रो / धनपिपासया यथा गृहाणेतत्सर्वं? मा त्याक्षीः, को जानाति ? पुरतो यद्भविष्यति तत्करिष्यते. ततो गृहीतमनेन तत्सर्वमप्यल्पमूल्येन. गतः स तस्करः, समायाताः पृष्टत एव राजपुरुषाः, बद्धस्तैः स वणिक्पुत्रः / सलोप्त्र एव. कृतः पुरतो हन्यमानो लगुडादिभिः, चूर्यमानो निष्ठुरं कृपाणादिभिः, विगोप्यमानः / सर्वतो जनैः, नीतो राजकुले, युष्मदीयाभरणमिदमनेनेत्थं गृहीतमिति निवेदिते समाज्ञातो वध्यः पार्थिवेन, ततो मेलितो जनकेन महाजनः, विज्ञप्तस्तेन राजा. ततो महाजनोपरोधात्कथमपि महादंडं कृत्वा / | राज्ञा स मुक्तः, ततः पुनर्धनपिपासाप्रेरितेन तेन प्रारब्धानि पुरमध्य एव प्रभृतवाणिज्यानि, परं प्रति| बध्नाति सर्वत्र तस्य महालाभांतरायः, प्रपीड्यते च स प्रतिपदं महापद्भिः. ततोऽन्यदा प्रेरितो धनपि-5 पासयासौ देशांतरगमने. ततः पितरौ विमुच्य प्रचुरक्रयाणकभृतगंत्रीहीत्वा गतः, तत्र मार्गे च पतितो | महाटव्यां. बाधितः पिपासया सोऽपि सार्थः, अन्वेष्यमाणमपि न प्राप्तं क्वापि पानीयं, त्रुटितजलाशश्च / / / 27 //

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126