Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्रं / / 87 // नललान नि लालाब निज नि विविवान MEDIO | हे महाराज ! समस्तीह मनुष्यक्षेत्रे इंद्रपुरं नाम नगरं, तत्र समीरणो नाम राजा, तस्य जयंती नाम भार्या., समानीतश्चान्यदा तद्गृहे कर्मपरिणामेनासो संसारिजीवः, जातस्तयोः पुत्रः, कृतं चास्य अरविंद इति व | नाम, अधीतास्तेन कलाः, प्राप्तश्च यौवनं. आनीतश्च तनावसरे कर्मभुपेन गुरुः, दृष्टश्चायमुद्याने पर्यटतारविंदकुमारेण. ततो गतोऽसौ तत्समीपे, सहर्ष प्रणम्योपविष्टश्च. ततः कर्मनृपतिना समर्पितोऽस्य शुभतमाध्यवसायलक्षणः करवालः, तेन च छिन्नमेतेन मोहादिशत्रूणां संख्येयसागरोपमस्थितिलक्षणं शरीर| खंडं. ततः सम्यग्दर्शनचारित्रधर्मानुपदिश्य गुरुणा वर्णितास्तस्य समीपे सर्वविरतिकन्यागुणाः. ततः समु.। | त्पन्नतदनुरागेण निःशेषानप्यपरान् मातापितादिसंगान समुत्सृज्य गुरुप्रदत्तवेषेण परिणीता तेन सा पर| मविभृत्यारविंदकुमारेण. ततः प्रमुदितं समस्तमपि चारित्रधर्मनृपतिसैन्यं, स्थितोऽस्य सन्निधौ समानंदितः | | सद्बोधः, स्थिरीभूतः सम्यग्दर्शनः, परिचितीभवति प्रतिदिनं सदागमः, अभ्यासीभवति प्रत्युपेक्षणादि| क्रियाकलापः, अलंक्रियते चैष प्रशमेन, मंड्यते मार्दवेन, विभृष्यते आर्जवेन, संशोभ्यते संतोषेण, कुरुते / चासौ तपःपरिचयं प्रकर्षेण, रमते संयमेन, प्रिययति सत्यपक्षं, भाव्यते शौचेन, न मुच्यते क्षणमप्या किंचन्यब्रह्मचर्यादिभिः. एवमेतेषां मिलितः सद्दोधसदागमोत्साहितः प्रणिहंति प्रतिदिनमेव मोहवलं, [ dai alag DDDDDDDDDDDD / / 87 //

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126