Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 94
________________ भुवन चरित्रं // 92 // [Deletal EPORTEREDiwali | दशमसोपनादिनयनक्रमेण पश्चान्मुखस्तावत्पातितो यावत् प्रथमसोपाने नोत्वा समर्पितोऽसौ महादुष्टः / / ना मिथ्यादर्शनसचिवस्य. व्यावर्तमानस्य चास्य ते पूर्वप्रहताः सचेतनीभूय प्रकुपिता विलग्नाः सर्वेऽपि शत्रवो विजयसेनस्य पृष्टे. ततः कारितभृरिपापो नीतोऽयमेकेंद्रियादिषु, भ्रामितश्च नरकगत्यादिभूरिभवं. ततश्चास्ति मनुजभूमो ब्रह्मपुरं नाम नगरं, तत्र च परमश्रावकोऽपरिमितर्द्धिनायकश्च सुनंदो नाम समस्तपोरप्रधानः श्रेष्टी, तस्य च धन्या नाम भार्या, जातश्च तयोः स संसारिजीवः पुंडरीकनामा पुत्रः, तस्य च | तत्रातिशायिनी प्रज्ञा बभूव. ततः पठितास्तेन स्वल्पैरेव दिवसैः समस्तकलाः. ततः स्वल्पमेतदध्येतव्य. | मित्येतावताऽसंतुष्यन् पृच्छति कस्यचित्साधोः समीपे, व पुनरेतासां कलानां महान् विस्तरः? ततस्ते| नोक्तं द्वादशांगे चतुर्दशपूर्वेषु, ततस्तेनोक्तं कियंति पुनस्तानि पूर्वाणि भवंति? साधुना प्रोक्तं गुरुन् पृच्छस्व ? ततस्तेन ते पृष्टाः, कथितश्च तैः पूर्वगतो विस्तरः, ततः समुत्पन्नं पुंडरीकस्य तदध्ययने मह कौतुकं, भणिताश्च गुरवो मामनुग्रहं कृत्वा पाठयत तानि पूर्वाणि ? गुरुणा प्रोक्तं गृहीतव्रता एव तानि व पठंति, न गृहस्थाः. ततोऽनेनाभिहितं व्रतमपि तर्हि प्रयच्छत ? ततो मातापित्राद्यनुज्ञातस्य महाविभृत्या गुरुभिः प्रदत्ता तस्य दीक्षा, गृहोता च तेन प्रज्ञाप्रकर्षात्तूर्णं समस्ता शिक्षा, अधीतानि च स्वल्पेरेव दिव

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126