Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 103
________________ भुवन // 101 / / LETTER ELED ID E जिEERNE बिलि | दिव्यान् महाभोगान् भुक्त्वा आयुःक्षये च्युत्वा पूर्व विदेहे कमलाकराख्यनगरे श्रीचंद्राख्यमहानगराधि-1B | चरित्रं पस्य कमलाख्यायाश्च तद्भार्यायाः समुत्पन्नोऽसौ भानुनामा पुत्रः. तत्रापि सद्बोधसम्यग्दर्शनाद्यनुगतो, बालकालादपि धर्मनिरतश्चातिशयेन पुपोष पुण्योदयं, ततश्चोपरते पितरि समधिष्टितराज्यः सुचिरं / न्यायेन नरेंद्रभोगान् भुक्त्वा सुराणामपि श्लाघनीयं श्रावकधर्म पालयित्वा, समये च पुत्रस्य राज्यं / दत्वा सद्गुरुसमीपे महाविभूत्या जग्राह दोक्षां भानुभूपालः. ततः प्रमुदितं समस्तं चारित्रधर्मसैन्यं, सदागमं चातिपरिचितं कृत्वा प्रागुक्तविधिनैव मोहबलं दलयित्वा, पुण्योदयमतिपुष्टिं नीत्वा प्रभूतकालमकलंक श्रामण्यं पालयित्वा क्षीणप्राये मोहबले तथैवानशनं कृत्वा समाधि प्राप्तः समुत्पन्नो नवमग्रेवेयकेषु. तत्राप्येकत्रिंशत्सागरोपमाण्यायुः पालयित्वा समुत्पन्नः पूर्वविदेहे पद्मकुंडनगरे सीमंतमहाराजस्य | द्रदत्तनामा पुत्रः, तत्रापि महानरेंद्रभोगान् भुंक्त्वा तथैव श्रामण्यं गृहीत्वा बहुक्षिप्तप्राये मोहबलेऽतिपु. ष्टिमानीते च पुण्योदये पूर्वोक्तानशनविधिनैव परमसमाधि प्राप्तः समुत्पन्न स सर्वार्थसिद्धविमाने परमद्धिं प्राप्तोऽहमिंद्रदेवः. इतश्चास्त्यस्मिन्नेव गंधिलावतीविजये विलासवेषविभृतिभिः शक्रनगरीव चंद्रपुरीनाम | महानगरी, तस्यां च प्रणतानेकभूपालमौलिमसृणीकृतचरणारविंदः शक्तिसमृद्धिसोंदर्यादिभिः शक्र इवा 01 //

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126