Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ सुनन // 117 // त्वया सर्वविरतिः, अधीतानि चतुर्दशापि पूर्वाणि, एतावत्यपि पदवी नाशिता त्वया निद्रावशगेन. तदेव | चरित्र मनंतानंतपुद्गलपरावतेष्वित्थं मोहादिशत्रुवशगेन, हारितं निरर्थकमेव भवतानंतवारान्मनुष्यजन्म. ततः। | पद्मस्थलनगरे जातस्त्वं सिंहविक्रमराजसूनुः, तत्र पुनरप्यवाप्ता त्वया सर्वविरतिः, सा तत्र भवे चारा-1B | धिता सम्यक्, कृतश्च बहुमोहाद्यपचयः, नीतश्च पुष्टिं पुण्योदयः. ततो महाशुक्रदेवलोकं गत्वा समुत्पन्नः / | कमलाकरनगरे श्रीचंद्रनरपतेर्भानुनामा पुत्रः, तत्रापि तथैवाराधिता सर्वविरतिः, कृतश्चाधिकतरो मोहा द्यपचयः, विशेषतः पुष्टिं नीतश्च पुण्योदयः, ततो नवमग्रैवेयकेषु गत्वा संजातस्त्वं पद्मखडनग हो त्तमहाराजः, तत्रापि सर्वविरतिं सम्यगाराध्य मोहाद्यपचयं पुण्योदयपुष्टिं च परमप्रकर्षाद्विधाय जातः / न सर्वार्थसिद्धमहाविमाने. ततोऽपि च्युत्वा समुत्पन्नस्त्वमत्र महाबलिनरेंद्र इति. तदेतन्निजचरितं श्रुत्वा a संभ्रांतः समुत्थाय बलिनरेंद्रो लग्नः कुवलयचंद्रकेवलिनः पादयोः, अभिहितवांश्च हे भगवन्नतिदुष्टान मोहादिशत्रवः, ततो यावदद्याप्यस्मिन्नपि भवे मां न तथैव ते छलयंति तावत्प्रसाद विधाय मिलयत न चारित्रधर्मसैन्ये, उपायं च तं कथय येन ते मम न प्रभवंति, अहं तु करोमि तेषां विनाशं. ततः केवनलिना प्रोक्तं राजन् युक्तमिदं भवादृशां, अतो गृहाण मच्छिष्यवेषं, येन मेलये त्वां समीहितसैन्ये, उपा-"११७॥

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126