Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 121
________________ 119 // नाला न जानामिन D जरिरपि सद्बोधसदागमोपदिष्टविधिना समरे मोहारिवलं निःकंदयन्ननेकग्रामदेशेषु तद्विडंबनाभ्यो भूरि- || चरित्रं a लोकं विमोचयन् विजहार. अन्यदा स्वप्रमत्तगुणस्थानकमागतेन प्राप्तोऽनेनाकस्मादपि विशुद्धाध्यवसाय- लक्षणः क्षपकश्रेणिखड्गयष्टिः, तया निर्मूलत एव निहताश्चत्वारोऽप्यनंतानुबंधिनः क्रोधादयः, ततः समूलकाषंकषितोऽविशुद्धमिश्रविशुद्धरूपत्रययुक्तो मिथ्यादर्शनः, ततोऽपूर्वकरणगुणस्थानं स्पृष्ट्वा गतोऽसा| वनिवृत्तिबादरगुणस्थानं, तत्र च प्रारब्धा मूलत एवोच्छेदयितुं प्रत्याख्यानावरणाभिधाना अष्टो कषायाः, | | तेषु चाहतेष्वेव नरकगतिनरकानुपूर्वीतिर्यगानुपूर्वी. एकद्वित्रिचतुरिंद्रियाणां चतस्रो जातयः, आतपो-- व द्योतस्थावरसूक्ष्मसाधारणेतिनामकर्मणस्त्रयोदश भेदाः, निद्रानिद्राप्रचलास्त्यानर्धिलक्षणास्तिस्रो निद्राश्च / क्षयं नीताः, ततोऽर्धक्षपिता अष्टो कषायाः निःशेषिताः, ततो नपुंसकवेदः, तदनंतरं तु हतं हास्यरत्यर- | प्रतिशोकमयजुगुप्सालक्षणं भयषट्कं, ततः पुरुषवेदः, ततः संज्वलनक्रोधः. ततो मानः. ततो माया, तI तोऽपि निहतः संज्वलनलोभः, यश्च निहन्यमानः सूक्ष्मीभ्य नष्ट्वा निलीनः सूक्ष्मसंपरायनाम्नि दशमे | सोपाने, तत्रापि तेन पृष्टतो गत्वा निहतः सोऽपि क्षपकश्रेणिखडगयष्ट्या. . तदेवमष्टाविंशतिसोदर्यमनुष्यारमके पतिते मोहराजे अस्खलितश्चलितो बलिराजर्षिः सूरिरुत्पत्य 119 // OMHDDOODLED MODM DID LADEI ELEGE

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126