Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 123
________________ भुवन - चरित्रं // 121 // / तनकर्तव्यमापद्यते. तच्च धर्मनीतिविरुद्धं. परं युष्मदादीनामुपकारकमवेक्ष्य संक्षेपतस्तदपि कथितं, वि स्तरतो हि सर्वायुषाप्येतत्कथयितुं न शक्यते, यतो न केवलमेवंविधं ममेवैकस्य चरितं, किंतु प्रायः सर्वजीवानामप्येवंविधमेव चरितं विज्ञेयं. चतुर्दशरज्ज्वात्मके लोके न तदेकेंद्रियेषु स्थानं, न तद् द्वित्रिचतु| रिंद्रियाणां रूपं, नासौ जलस्थलखचरपंचेंद्रियतिरश्चां व्यक्तिः, न सा नरकपृथ्वी, न स एतासु नरका वासः, न तन्मनुष्यग्रामनगरादिस्थानं यत्रानंतशो वारानीमे जीवाः समुत्पन्नाः. भवनपतिव्यंतरज्योतिष्कच सौधर्मशानदेवलोकेष्वपि नास्ति तत्स्थानं यत्राप्यनंतशो नोत्पन्नाः. सनत्कुमारादिष्वपि देवलोकेषु नव-न | ग्रैवेयकपर्यंतेष्वपि देवेषु प्रायो नास्त्यसौ देवो यत्स्थानेऽनंतवारान् सर्वे जंतवो नाभवन्. इह संसारे न / तत्सुखं दुःखं वा यदनंतशस्तैर्नानुभूतं. आर्हतमपि लिंगं द्रव्यतोऽनंतवारान् एकैकेनापि प्रतिपन्नं त्यक्तं च.न एतच्च सर्वमस्मजीवस्यापि सामान्यतोऽनंतकालांतरालभवभ्रमणेन भणितमिष्टव्यं, व्यक्तितस्तु नोक्तं अनंतकालभणनीयत्वात्, आयुषस्तु संख्येयत्वात, वाचश्च क्रमवर्तित्वादिति. तस्मादशरणेन मयाप्यनंतदुःखलक्षाण्यनुभूतानि, प्रतिपन्नकुधर्मशरणेनापि तथैव सविशेषाणि. // 121 // ततोंगीकृतसम्यग्जिनधर्मशरणेन वासुदेवत्वसुमानुषत्वचक्रवर्तित्वसुखान्येवानुभूतानि, अथानंतानि / " WEREDEER

Loading...

Page Navigation
1 ... 121 122 123 124 125 126