Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 118
________________ भुवन चरित्रं TaTola TET IT IS THEIR RELETET MERITa Tool in IE तकालं. अन्यदा मलयपुरे इंद्रराजसूनिविश्वसेनभवेऽपूर्वकरणेन भिन्नो ग्रंथिस्त्वया. ततोऽनिवृत्तिकरण | प्रवेशादिक्रमेण लब्धमेतावतः कालात् सम्यक्त्वरत्नं त्वया. ततो मोक्षतरुमूलमतिदुर्लभमपीदमवाप्य | हारितं त्वया कुदृष्टिरागवशेन. पुनः कदाचिद्धनश्रेष्टिसुतसुभगभवे लब्ध्वैतन्नाशितं स्नेहरागात्, गृहपति| पुत्रसिंहजन्मनि ध्वंसितं विषयरागात्, जिनदत्तदुहितृजिनश्रीभवे समुच्छेदितं द्वेषात्. ततो ब्राह्मणज्वल|नशिखधनंजयराजपुत्रकुबेरधनाढ्यसुतपद्मसोमदत्तभवेषु यथासंख्यमेव च हारितं त्वया सम्यक्त्वरत्नं / | क्रोधमानमायालोभेभ्यः. एवमन्यत्रापि मोहादिशत्रुवशाद्भवता हारितमेतदसंख्यातभवेषु. धर्मश्रेष्टिसुत संदरजन्मनि हिंसातः, देशविरतिर्माणिभद्रभवे तु मृषावादात्, सोमदत्तभवेऽदत्तादानात्, दत्तजन्मनि | न मैथुनात्, धनबहुलश्रेष्टिभवे परिग्रहात्, रोहिणीश्राविकाजन्मनि विकथानर्थदंडात्. एवं देशविरतिरप्यपवारापरमोहादिदोषतो निःशेषसुखहेतुभृता हारिता त्वयासंख्यभवेषु. ततोऽरविंदकुमारजन्मनि सर्वगुणो. परिवर्तिनी कथंकथमपि प्राप्ता सर्वविरतिरपि नाशिता त्वया क्रोधमानाभ्यां. पुनरमात्यसुतचित्रजन्मनिल हारिता सापि विषयसुखशीलतया. विजयसेनराजपुत्रभवे तु लब्ध्वा सर्वविरतिमारूढोऽसि त्वमेकादशगुणस्थाने. ततोऽपि व्यावर्तितो देहोपकरणमूर्छामात्रेण केनचिदिति. ततः श्रेष्टिपुत्रपुंडरीकभवे पुनः प्राप्ता | 116 //

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126