Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन DDDDDDDD | गुणनिधिनामकमुनिपतौ समायाते श्रुत्वा विशेषतो धर्मविस्तारं, मोचयित्वा युक्तिभिर्मातापितरो पूर्वा- 10 चरित्र - भिहितेनैव विधिना महाविभृत्या जग्राह सिंहस्थस्तदंतिके दीक्षां, ततः प्रहृष्टाः परिवारयति तस्य सर्वेऽपि / / 99 // चारित्रधर्मसैनिकाः, तथाहि-गाढमनुरक्ताभवत्समपत्रिभुवनसाम्राज्यदायिनी सर्वविरतिः, क्षणमपि | | संनिधानं न मुंचति सद्बोधः, अंगांगिभावेनागतः सम्यग्दर्शनसंबंधः, ततः कृतप्रशममहाकवचो लब्ध. | | संतोषशिरस्त्राणः, सद्भावनावप्रमध्यप्रविष्टः, तथैवाप्रमादमहासिंधुरसमारूढः, अष्टादशशीलांगसहस्ररक्षिः | a तशरोरः पुरोव्यवस्थापितप्रतिदिनोपचीयमानपुण्योदयमहादंडनायकः, प्रतिक्षणोल्लसदसंख्यशुभाध्यवसा| यपदातिपरिवृतः प्रवृत्तो योध्धुं सह मोहबलेन सिंहरथसाधुः. तत्र च विध्यत्यनवरतमेवामृढत्वाभिधान- || | निशितकुंताग्रेण मोहमहाचरटहृदयं, ताडयति वक्षसि समकालमेव ज्ञानदर्शनचारित्रत्रिशूलेन रागके. सरिद्वेषगजेंद्रमदनमहामांडलिकान् , हिनस्ति सर्वभूतदयापरिणामबाणेन हिंसाध्यवसायसामंतं, चूरयति सर्वथा सत्यभाषणमुद्गरेण मृषावादचरटमस्तकं. भिनत्ति शौचमल्लेन स्तेयमहादुष्टहृदयं, ब्रह्मचर्याग्निशस्त्रेण शलभमिव मैथुनं, दलयति निरीहया महागदया परिग्रहमहासामंतं, कीलयति क्रोधयोधं तद्वैगु // 99 // जण्यचिंतनादितोमरेण. भनक्ति मानाभिधानसामंतं, मार्दवाभिधदंडेन, दूरमुत्सारयति मायामही ऋजुता-|| TO LODDED

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126