Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 115
________________ भुवन // 113 - मुत्पादयंति, ततोऽनेकगुणमेव समयांतरे तैरप्राप्यमाणैर्दुःखं, निरंतरप्राप्ती वा मृतानामकृतपुण्यकर्मणा-15 मवश्यं भाविनि तभ्रंशेऽनंतगुणमेव तद्विपाकजं दुःखं. एवमन्यदपि यत्किमपि कस्यचित्सांसारिकं वस्तु | भ्रांतिमात्रतो रमणीयमाभाति सत्सर्वमनंतदुःखफलमनित्यं चेत्यहमिदानीममि. तन्नूनं प्रेमदंडाभिघा तमर्छितेनेव. राजसखमदिरामत्तेनेव, विभवधत्तुरखादनविपर्यस्तेनेव निरर्थकान्यनर्थफलानि गोमतान्ये| तावंति दिनानि. तदपि यदि पश्याम्यधुना कथमपि भगवंतं कुवलयचंद्रकेवलिनं, ये चात्र भवमहो दधौ प्रवहणायिता अकलंकमहाराजस्य, तदा निश्चितमद्यापि स्वकार्यमहमप्यनुतिष्टामीत्यादिशुभचिं| तया प्रभाते पारितपौषधादिवतः शुचित्वमापन्नो देवार्चनं विधाय समुपविष्ट आस्थानमंडपे. भगवान् / चा कुवलयचंद्रकेवल्यपि बलिनरेंद्राभिप्रायं समयं च विज्ञाय समायातश्चंद्रपुरीनगर्यां बहिर्वर्तिनि मृगरमण | नाम्नि रमणीयोद्याने, विरचितं तदैव तत्र देवैः सुवर्णकमलं, उपविष्टस्तत्र भगवान् केवली, समागता- | च स्तत्र सुरखेचरनिवहाः, प्रारब्धा तेन तेषाममृतस्यंदिनी धर्मदेशना. तदागमनवार्ती च श्रुत्वा समागत. स्तत्र सर्वसामग्या हर्षोदंचितशरीरो बलिनरेंद्रः, तत्र पंचविधाभिगमेन त्रिप्रदक्षिणीकृत्य भक्तितः प्रणम्य, न चोपविष्टः शुद्धभूतले. ततो धर्म श्रुत्वावसरे प्रोक्तमनेन, भगवन्निरर्थकमेव बहु हारितेऽस्मिन्मनुष्यज-".११३॥ REE DOE HELP DESIDE REE DEO DED

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126