SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भुवन चरित्रं / / 87 // नललान नि लालाब निज नि विविवान MEDIO | हे महाराज ! समस्तीह मनुष्यक्षेत्रे इंद्रपुरं नाम नगरं, तत्र समीरणो नाम राजा, तस्य जयंती नाम भार्या., समानीतश्चान्यदा तद्गृहे कर्मपरिणामेनासो संसारिजीवः, जातस्तयोः पुत्रः, कृतं चास्य अरविंद इति व | नाम, अधीतास्तेन कलाः, प्राप्तश्च यौवनं. आनीतश्च तनावसरे कर्मभुपेन गुरुः, दृष्टश्चायमुद्याने पर्यटतारविंदकुमारेण. ततो गतोऽसौ तत्समीपे, सहर्ष प्रणम्योपविष्टश्च. ततः कर्मनृपतिना समर्पितोऽस्य शुभतमाध्यवसायलक्षणः करवालः, तेन च छिन्नमेतेन मोहादिशत्रूणां संख्येयसागरोपमस्थितिलक्षणं शरीर| खंडं. ततः सम्यग्दर्शनचारित्रधर्मानुपदिश्य गुरुणा वर्णितास्तस्य समीपे सर्वविरतिकन्यागुणाः. ततः समु.। | त्पन्नतदनुरागेण निःशेषानप्यपरान् मातापितादिसंगान समुत्सृज्य गुरुप्रदत्तवेषेण परिणीता तेन सा पर| मविभृत्यारविंदकुमारेण. ततः प्रमुदितं समस्तमपि चारित्रधर्मनृपतिसैन्यं, स्थितोऽस्य सन्निधौ समानंदितः | | सद्बोधः, स्थिरीभूतः सम्यग्दर्शनः, परिचितीभवति प्रतिदिनं सदागमः, अभ्यासीभवति प्रत्युपेक्षणादि| क्रियाकलापः, अलंक्रियते चैष प्रशमेन, मंड्यते मार्दवेन, विभृष्यते आर्जवेन, संशोभ्यते संतोषेण, कुरुते / चासौ तपःपरिचयं प्रकर्षेण, रमते संयमेन, प्रिययति सत्यपक्षं, भाव्यते शौचेन, न मुच्यते क्षणमप्या किंचन्यब्रह्मचर्यादिभिः. एवमेतेषां मिलितः सद्दोधसदागमोत्साहितः प्रणिहंति प्रतिदिनमेव मोहवलं, [ dai alag DDDDDDDDDDDD / / 87 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy