SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भुवन // 88 // DEREREENERNMENDMERE / कथमपि समारोहत्यप्रमादमहागंधहस्तिनं, समारोपयति शुद्धमनोवृत्तिधनुर्यष्टिं, तद्विनिर्मुक्तैः प्रहरति / | सद्भावनामहानाराचैः, विध्यति च मर्मसु मोहमहाराज, ताडयति हृदि मदनमहामांडलीकं, घूर्णयति | रागकेसरिणं, आराटीमोंचयति द्वेषगजेंद्र. एवमयं चायं च तवेत्थं महाशत्रुरित्येवं सन्निहितसद्दोधसदा| गमाभ्यामुपलक्ष्यापितं, परानपि वैश्वानरशैलराजबहुलीसागरहिंसामृषावादस्तेयमैथुनमुर्छादिरिपूनहर्निशं | तुदयत्येषः. अन्यदा नाम्यते क्वचित्सहसैवाभिमुखोत्थितेनासो प्रमादरिपुदंडाधिपेन, पुनरप्यवष्टभ्य प्रहरन् बाध्यते, क्वाप्येककाले बहुभिः समुत्थितैः क्षुत्पिपासादिपरिषहैरपि खिद्यते, स्वस्थीभूय च पुनयु| ध्यमानः स तान् दूरीकरोति. क्वचिदिव्यमानुषतिर्यगुपसर्गसुभटैर्बाध्यते. परं सदागमवचनैश्च स स्थिरी | भवति, पुनरपि तैः शत्रुभिः सोऽस्थिरीक्रियते, गच्छगतबालतरुणवृद्धसाधुस्मारणवारणप्रेरणसमुत्थसंज्व लनकषायरिपुवर्गेणापि पीडयते, परं प्रशममार्दवादिकृतसाहाय्यः कथमपि स पुनः स्थिरीभवति. पुन | रपि तैमोहसुभटैः समरभूमो स क्वापि विह्वलीक्रियते शब्दरूपगंधरसस्पर्शलोल्याध्यवसायप्रतिपक्षः, परं | संतोषेणोत्साहितः पुनः पराजयति तत् शत्रुबलं. एवं जयपराजयेषु वर्तमानेषु यावजयलक्ष्मीमवाप्स्यति चारित्रधर्मसैन्यसहितोऽरविंदसाधुस्तावद्गुरुभिरसो क्वचिदपराधे गाढतरं किंचित्प्रेरितोऽवसरोऽयमित्यस्यांगे // 88||
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy