SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भुवन MEDID चरित्रं // 89 // प्रविश्याप्रत्याख्यानावरणक्रोधाभ्यां मर्मणि गृहीत्वा स पीडितः, तत्पीडावशेन च लग्नो कथयितुं गुर्वभिः | - मुखं, किमाचार्य! मया विनाशितं? यदि परिभावयिष्यसि तदा नास्ति मदीयः कोऽप्यपराधः, एवमेव / वदतः पुनस्तव को निवारयिता? एतदर्थं किमेकमेव मां निषेधयसि? न चान्यं निषेधयसि? किं त्वद्गनच्छेऽन्यः कोऽप्येवं न करोति ? मया साधैं प्रबजिताः सर्वेऽप्येवं कुर्वति. ततो यदि स्थविराः शिक्षयंति, भो महाभाग ! राजकुलसत्कुलसंभवस्त्वमिति गुर्वभिमुख तवेत्थमवज्ञया वक्तुं न युज्यत इत्यादिना मम न कुलोद्घाटनं कुर्वत्येते इत्यादिविपरीतमेव परिणमितगाढतरं च कोपाहंकाराभ्यां गृह्यते. ततो यावद्गुवरुणा किंचित्पुनरपि शिक्षितस्तावदभिहितवानहो मां लग्नाः सर्वेऽपि यूयमुच्चाटयितुं, ततो गृह्णीतात्मीय | मिदं पिच्छटकमिति वेषं परिहार्य हठाद्गले गृहीत्वा स नीतस्ताभ्यां प्रत्याख्यानावरणक्रोधमानसुभटाभ्यां / समर्पितश्च मोहबले. सरोषैश्च तत्सैनिकैः सर्वैरपि मिलित्वा गृहस्थवेषमात्रं किंचित्कारयित्वा प्रतिग्राम / प्रतिगृहं च धिक्कार्यमाणः परगृहेषु कर्माणि कुर्वन् भिक्षां च परिभ्रमन्नतिदुःखितो भ्रामितः सुचिरं. ततः - पर्यंते पापिष्टेन भ्रष्टबुद्धिना मया यदुभयलोकयोरप्येकांतेन दुःखावहं तदाचीर्णं, तत्फलमनुभवामीदमि| त्यात्मानं निंदन मृत्वासौ समुत्पन्नो ज्योतिष्कदेवेषु. ततोऽपि च्युत्वा भ्रांतो भूरिभवान्. अन्यदा पुनरपि / REE / / 89 //
SR No.600428
Book TitleBhuvanbhanu Kevali Charitram
Original Sutra AuthorN/A
AuthorIndrahans Gani
PublisherVitthalji Hiralal Hansraj
Publication Year1937
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy