Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 88
________________ भुवन चरित्रं // 86 // / भूरिसंसारः प्रोक्तः, तस्याश्च भूरितायाः किं मानमिति तावत्कथ्यतां ? ततः केवली प्राह क्वचित्संख्यातं / / / a चिदसंख्यातं क्वचिदनंतमपीति. अपार्धपुद्गलपरावर्तेऽपि ह्यनंतोत्सर्पिण्यो भवंति, अनंतस्य चानंता || स एव भेदाः, ततो महाराज! यद्यंतरमंतरंप्रत्यनंता उत्सर्पिण्यवसर्पिण्यो भवंति, तथापि न किंचित् / | क्रियते जिनधर्मः. ततश्चंद्रमोलिमहोपालेन प्रणम्योक्तं हे भगवन् ! महाश्चर्यमिदं यत्सम्यक्त्वदेशविरतिगुः | णयोरपि प्राप्तयोरयाप्येतावत् प्रभवंत्यमी मोहादिशत्रवः. ततः केवलिना प्रोक्तं महाराज! अनादिकाला प्रभवंत्यस्खलिता इस्थममी. अत एव सर्वेऽपि केवलिन इत्थं प्ररूपयंति-सम्मत्तदेसविरया। | पत्तिअस्स असंखभागमित्ताओ | अभवाउचरित्ते / अणंतकालं च वमएत्ति // 1 // सम्यग्दृष्टयो देश| विरताश्च प्रत्येक क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिप्रमाणान् भवान् भ्रमंति. अष्टौ भवांश्चारित्रसामा| यिकं प्राप्नुवंति. श्रुतसामायिकं तु सम्यग्दृष्टिमिथ्यादृष्टिभावेनाविशेषं सामान्येन द्वींद्रियादिष्वनंतान् / | भवान् प्राप्यत इत्यर्थः. ततो राज्ञाभिहितं हे भगवन् ! पुनरसौ संसारिजीवः किं सर्वविरतिकन्यकां परि| णीय चारित्रमहाराजसैन्यसहायी भविष्यति? ततः केवलिना प्रोक्तं स्तोकांतरमत्र, समाकर्णयत्ववहितो | महाराजः. ततो राजा प्राह एषोऽहमवहितोऽस्मि. कथयंतु प्रसादं विधाय भवंतः, ततः केवलिना प्रोक्तं // 86 / /

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126