Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj
View full book text
________________ भुवन चरित्रं // 73 // DEEaaaaaaaaaaaaaaaaaaaa पमासंख्येयभागवर्तिप्रदेशराशिप्रमाणान् भवानिति. अन्यदा च समुत्पन्नोऽसौ विजयखेटपुरे धर्मनाम्नः / / का श्रेष्टिनः सुंदरनामा पुत्रः. तत्र चान्यदा सद्गुरुसमीपे धर्म शृण्वतोऽस्य संजातसम्यग्दर्शनानुगतेः कारुव ण्यपरिणतकर्मभृपालेनार्पितः कथमपि शुद्धतराध्यवसायलक्षणः करवालः. तेन च छेदितास्तेन सुंदरेण व पल्योपमपृथक्त्वलक्षणाः पूर्वं ह्रस्वीकृतदेहांशा मोहादिरिपूणां, दूरिभूताश्च भीतभीतास्तस्याप्रत्याख्याना वरणकषायाः, ततः परितुष्टेन सम्यग्दर्शनामात्येन गुरुसमीप एव दर्शितस्तस्य चारित्रधर्ममहाचक्रवर्ती. - ततो गुरुणा कथितं-यः सेवतेऽतिभक्त्या / चारित्रममुं कदाचिदल्पमपि // सोऽपि महर्द्धिकदेवो / भृत्वा | | निर्वृतिविभुर्भवति // 1 // इत्यादिना सविस्तरं वर्णितास्तद्गुणाः. ततः प्रतिपन्नः सुंदरेणासो सम्यग्स्वामिभावेन, प्रदत्ता च परितुष्टेन चारित्रभृपालेन तद्योग्यतामपेक्ष्य तावल्लध्वी देशविरतिकन्यका, तत्सां-नि निध्याच्च प्रतिपन्नमनेन संकल्पान्निरपराधजीवानां द्विविधंत्रिविधेन वनिवृत्तिलक्षणमेकमेवाद्यं स्थूलप्रा- | a णातिपातविरतिव्रतं, प्रत्याख्याता च वधबंधच्छविच्छेदातिभारारोपणभक्तपानव्यवच्छेदरूपाः पंच तदम तिचाराः, पालितं चैतद्बहुदिनानि. अन्यदा च व्यतीतस्तत्पिता, ततोऽधिष्टितः सुंदर एव व्यवहारे. | | ततश्चावसरोऽयमिति ज्ञात्वा प्रेषिता तत्समीपे मोहादिभिर्निस्त्रिंशता, तत्सन्निधानाच्च येषामसौ कलांत-1B // 73 //

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126