Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 77
________________ भुवन खकरणलक्षणाः पंचापि तदतिचाराः, पालितं चैतदपि प्रभृतवासरान्. अन्यदा च शालिभद्रश्रेष्टिन्युप. चरित्रं करते हट्टे व्यवहरतोऽस्य समीपे प्रेषिता मोहादिभिः प्रत्याख्यानावरणसागरमृषावादादयः. तदागमने च / प्रातिवेश्मिकसत्कं वस्तु सुवर्णाद्यानीय लाभद्वयमारोप्य ग्राहकस्य ददाति, आत्मीयं च बहिरागतस्य | कस्यापि हस्ते समर्प्य बहुतरमूल्येनोद्घाट्य प्रयच्छति, यदि च ग्राहकः पृच्छति श्रेष्टिन् कियता मूल्येन || तिष्टतीदं ? ततो वक्त्येतावता भविष्यति तत्. ततो यदि गृहीता वदति यन्मूलक्रयं तव वद? तदासौ | | वदति निश्चयेनैतावतैव मूल्येन भविष्यतीदं तव. इत्यादिवक्रवचनैभोलितोऽसौ मुग्धस्तत्कथितं कूटकः || | यमपि सत्यं मन्यमानो लाभं दत्वा गच्छति. अन्यदा चातीवलब्धोदयैः सागरमृषावादैरभिहितो माणि| भद्रः किमेवमलीकानि भाषमाणस्त्वं शंकसे? ननु प्रगुणेनैव कृत्रिमन्यायेन भाषस्व ? यहहुव्ययानि न | गृहाणि, प्रचुरभाटकानि हट्टानि, दातव्याश्च वृत्तयो वणिक्पुत्राणां, कर्तव्याश्च भोगादयः, न च सत्ये / | कथिते कोऽपि प्रचुरलाभं दातुं शक्नोति, जल्पंति चान्ये बहवोऽप्यलीकानि, या चैषां गतिः सा तवापि / | भविष्यति. यच्चैते प्रव्रजिता जल्पंति तदपि कियत्कणे धारयिष्यसि त्वं, एतेऽपि परगृहविक्रमादित्यास्त्य| क्तसंसारव्यापारा निर्ग्रहद्वाराः सुखेन सत्यं जल्पंति, परं न जानंति संसारस्थव्यवस्था. एतेषां चाभि-19 | वाणिनि निनावालाना ना॥ 75 //

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126