Book Title: Bhuvanbhanu Kevali Charitram
Author(s): Indrahans Gani
Publisher: Vitthalji Hiralal Hansraj

View full book text
Previous | Next

Page 72
________________ भुवन // 70 // / / धृतश्च तेनायमेकांते, भणितश्च यथा सिंहलेश्वरराजेनाहं महामूल्यमुद्रारत्नमेकमानायितुं प्रेषितः, तर्हि / a यद्यस्ति तर्हि दर्शय ? येन यद्याचसे तद्दापयिष्यामो बह्वपि मूल्यं. ततः पद्मेन चिंतितमस्य प्रदत्तं / व तत्सर्वथैव देशांतरं यास्यति, ततः शुद्धिमात्रमपि न कश्चिद्विज्ञास्यतीति समानीय दर्शितं तत्तस्य. अत्रां- तरे समायाताः संकेतितराजपुरुषाः, तैश्च धृत्वा नीतोऽसौ मुद्रारत्नयुतो राजकुले, उपलक्षितं च मुद्राव रत्नं नरपतिना, निग्रहितश्च बहुविडंबनापूर्वकं प्राणिनिग्रहेण पद्मः, परिभवे च प्राप्तो बहुरोगादिजुगुप्सितं व d श्वानभावं. ततो भ्रांतोऽतिदुःखितः प्रभूतकालं. अन्यदा चानीतोऽसो जयपुरनाम्नी नगरे, जातश्च तत्र | श्रावककुले धनदत्तवणिक्पुत्रतया, जातं च तत्रास्य नाम सोमदत्त इति. श्रावककुलोत्पन्नत्वेनैव जातास्य / व सम्यग्दर्शनानुगतिः. ततो निःस्वतया करोति मस्तकपिटिकया तेललवणादिवाणिज्यं, अतो जातं किंचि द्भांडमूल्यं, मंडितं ततो धान्यह, अर्जितं च तत्र किंचिदन्यदपि द्रव्यं. ततः समयमवबुद्ध्य रागकेसरिणा प्रेरितस्तत्संनिधानेऽनंतानुबंधिलोभाभिधानः सागरापरनामको बहुलिकालघुभ्राता निजपुत्रः. तदुपदेशाच्च / वर्धिता सोमदत्तस्य धनार्जनेच्छा. ततश्चापरापरवाणिज्यविधानेन जातः स सहस्रपतिः, ततोऽप्यधिषोढव क्लेशलक्षैः संजातो लक्षपतिः, अनुभृतानेकदुःखकोटिभिश्च संपन्नः कोटिध्वजः. एवं च यथास्य वर्धते / / / 70 // MEE

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126