Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 135
________________ चतुर्थो भानुः दर्शनाचारः ११३ सर्वोपधिष्वपि विरागमहाध्वजोऽभूत्, ઉત્કૃષ્ટ ગચ્છાધિપતિ મહાપ્રભાવક હતાં. પણ संवेगवेगवत उच्चपदेऽपि बाढम् । સંવેગના વેગને તે બાધક ન થયું. દરેક ઉપધિમાં પૂજ્યશ્રીના વિરાગનો મહાધ્વજ ફરકી રહ્યો હતો. त्यागप्रकर्षरतहृद् ! ह्यपवर्गसक्त ! ત્યાગના પ્રકર્ષમાં રમતા હૃદયવાળા મોક્ષના भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१९।। अभिलाषी गुरु गुपनलानु ! हुं आपने मापथी ભજું છું. I૧લા. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ क्षायिकसम्यक्त्वाऽन्यथाऽनुपपत्तेः, श्रूयते च तन्मुनिवन्दनायास्तत्फलत्वम्, तदुक्तं त्रिषष्टिश.पु.चरित्रे - सर्वज्ञोऽप्यवदत् कृष्ण ! बह्वद्य भवतार्जितम् । पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म चेति ।।८-१०-२४३।। नाऽपि द्वितीयः, मिथ्यादृष्टावतिव्याप्त्यापत्तेः, न चेष्टापत्तिः, तथा तल्लक्षणत्वायोगात्, अतिव्याप्तिकज्जलकलङ्कितत्वात्, अव्याप्त्यादित्रितयशून्यस्य लक्षणत्वात्, तदुक्तम् - 'लक्षणत्वमित्यव्याप्त्यातिव्याप्त्यसम्भवदोषत्रयशून्यत्व'- मिति तर्कसङ्ग्रहे। अथामुकैस्सममिति मतम्, तदाऽप्यपराधिभिरितरैरेव वा, इतरैरेव चेत्, ‘अवरद्धे वि'-इत्यादि ग्रन्थविरोधः, अतिव्याप्तिश्च, पूर्ववत्, तदुक्तं शुद्धाद्वैतपरिष्कारतात्पर्ये- 'लक्षणं हि लक्ष्यतावच्छेदकावच्छिन्नविशेष्यकलक्ष्यप्रतियोगिकभेदवत्प्रति-योगिकभेदत्वावच्छिन्नविधेयताकानुमितिजनक' मिति। अत्र तु न तादृशभेदत्वावच्छिन्नत्वम्, ततश्च लक्षणत्वायोगः, अतिरेकाभावाच्च, तदुक्तं - 'उपकारिणि वीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः ?। अहिते सहसाऽपराधलब्धे, सघृणं यस्य मनः सतां स धुर्यः।।' इति । अपराधिभिश्चेत्, व्यभिचारः, पूर्ववत् । इत्थं च सर्वथाऽप्यनुपपत्तेरयुक्तमिदं लक्षणमिति स्थितम् । मैवम्, सर्वपुरुषैस्सर्वकालमिति विकल्प दोषाभावात्, ननूक्तोऽत्र व्यभिचार इति चेत् ? ननूक्तो न सूक्तः, जिनशासनोपनिषदपरिज्ञानात, पूर्वबद्धाशुभायुष्कानां क्षायिकसम्यग्दृष्ट्यात्मनां तत्कर्मप्रभावेनायुष अन्तर्मुहूर्तावशेषेऽवश्यमशुभा लेश्योपसम्पद्यते उपपातस्थानीयलेश्यानां तदा नियोगेन भावात्, उक्तं च- 'जल्लेसाई दव्वाइं आयतित्ता कालं करेति, तल्लेसेसु उववज्जइत्ति प्रज्ञापनायाम्। तदेव बृहत्सङ्ग्रहण्यामुक्तं- 'अंतमुहुत्तंमी'- त्यादिना। ततश्च निकाचितकर्मविपाकयोगोऽत्र हेतुः। न चानेकान्तध्रौव्यम्, विशेषविषयत्वात्, सामान्यतस्तु तस्यापि तल्लक्षणयुतता, सदृष्टित्वतः । नन्वेवमन्योऽन्याश्रयः, सम्यग्दृष्टित्वात् तल्लक्षणयुक्तत्वम्, ततश्च सम्यग्दृष्टित्वमिति चेत् ? शोभनम्, गोत्वेन सास्नादिमत्त्वम, ततश्च गोत्वमत्रान्योऽन्याश्रये यो भवतां परिहारः, स एवास्माकमप्यत्र भविष्यति, तुल्ययोगक्षेमत्वात्, इत्थं चाऽपर्यनुयोग एवोचितः, समानदोषपरिहारत्वात् तदुक्तम् - ‘यच्चोभयोः समो दोषः, परिहारश्च तत्समः । नैकः पर्यनुयोज्य: स्यात्, तादृगर्थविचारणे ।।' इति श्लोकवार्तिके। वासुदेवत्वेनापि तल्लक्षणयुक्तत्वम्, तेषामपराधेष्वपि कृतक्षमत्वात्, उक्तं च - “अमरिसण'त्ति अमसृणा: प्रयोजनेष्वनलसाः, अमर्षणा वा अपराधेष्वपि कृतक्षमाः' इति समवायाङ्गे।।पृ.१५७ ।। अत एव क्षीणानन्तानुबन्धिनोऽप्यस्य दुर्गतिं तत्सञ्चलनकषायस्यापि अनन्तानुबन्धितया परिणामेन समाधानसञ्चरं निन्ये लोकप्रकाशकारः।।३-४२३, ४२४ ।। इत्थं च सम्यगेवैतल्लक्षणमित्यलं प्रसङ्गेन। एवमन्येष्वपि लक्षणेषु यथागमयुक्ति स्वयमूहनीयम्, प्रकृतं प्रस्तुमः । द्वितीयलक्षणं संवेगाह्वयम्, स च मोक्षाभिलाषात्मकः । येन नरसुरसुरपतिसुखमपि भावतो दुःखमेव मन्यते, मोक्षादन्यन्न किमपि प्रार्थयते । उक्तं च- 'संवेगो मुक्खं पइ अहिलासो भवविरागो ऊ'-त्ति सम्यक्त्वसप्ततौ ।।४४ ।। तथा- 'नरविबुहेसरसुक्खं दुक्खं चिय भावओ उ मन्नंतो । संवेगओ न मोक्खं मुत्तूण किंपि पत्थेइ - त्ति आवश्यकसूत्रे ।।१-५६ ।। सदा संसारदुःखभीरुत्वमपि तत्स्वरूपम्, तद्धेतुभावात्, तदुक्तं सर्वार्थसिद्धौ - 'संसारदुःखान्नित्यभीरुता संवेग' इति। उक्तं च संवेगरगशालायाम् – 'एसो पुण संवेगो संवेगपरायणेहिं परिकहिओ। परमं भवभीरुत्तं अहव मोक्खाभिकंखिता।।' इति ।।५५ ।। तथोक्तं योगदीपिकायामपि - 'संवेगः भवभयं मोक्षाभिलाषो वे' ति ।। षोडशक ९-६ व्याख्या ।। संवेग इत्यनुत्तरधर्मश्रद्धाऽवन्ध्यहेतुः, सुरसुखाद्याशंषाप्रयुक्तधर्मश्रद्धाया मलिनत्वेन क्षयित्वेन च तत्त्वाऽभावात्, संवेगत सम्यक्त्वसर्वस्वम्

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252