Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 197
________________ षष्ठो भानुः तादृशान्यदुरुक्तस्य, जीवदयाविरोधिनः । नमस्कारपदानां च, पञ्चत्वं प्रतिपादिनः ।। ३० ।। - उत्सूत्रप्रतिकारः - न्यायविशारदम् (३०) जीवदयाविरोधिन इति । एतद्धि तन्मतम् “बालत्वप्रकटीकरणमेतज्जीवदयादि, मोचितप्राणिकृतहिंसाजनिताघभाजनत्वात्, तन्मोचननिबन्धनत्वाद्धिंसायाः, तस्यास्तदविनाभावित्वात्, निघसाऽऽहारवत् । न च जीवदयाऽऽदेया, धर्मस्य दयामूलत्वात् । तथोक्तं- 'कृपामहानदीतीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिर' - मिति वाच्यम्, जीवदयाव्याजेन तन्मोचनस्य पाश्चात्यानेकजीवहिंसामूलत्वात्, परमार्थतः महाहिंसात्वात्, जीवदयाया एव दुर्वचत्वात् । ननु सूनास्थितं लोललोचनं प्रवेपमानाङ्गं मृत्युभीतं दीनस्वरं प्राणिनं दृष्ट्वा दयार्द्रचेतसा तन्मोचने कथं न जीवदयेति चेत् ? कार्यकारणभावरहितं हतं तर्हि जगत्, यतः प्रदर्शितमपि तद्भावमुपेक्षते भवान् । तदुक्तम् 'नाकारणं भवेत् कार्यं, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् ।।' इति । जीवदयादिव्याजेनेत्यादिग्रन्थेनाऽस्य सूक्तत्वात् । न हि साम्प्रतेक्षिणा भाव्यं बुद्धिमता, परिणामविचारकत्वं हि तल्लिङ्गम् । उक्तं च 'कृती हि सर्वं परिणामरम्यं, विचार्य गृह्णाति चिरस्थितीहे - त्यध्यात्मकल्पद्रुमे ।।१-२१।। अन्यथा - परिणामाप्रमाणत्वे तु ग्लानाद्यवस्थायामसहिष्णोरपि सदोषभक्तं न युज्येत, तस्य सहिंसत्वात्, सदोषत्वादेव, यतः साम्प्रतमेवेक्षते भवान्निति । अत्रोच्यते - तदिदं स्वबालत्वप्रकटीकरणं, जिनशासनहृदयापरिज्ञानात्, तत्र मनःपरिणामस्यैव प्रमाणत्वात्, तस्यैव द्वादशाङ्गीसारत्वात् । यथोक्तम् - 'परमरहस्समिसीणं समत्थगणिपिडगहत्थसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ।।' इति बृहत्कल्पे ।।१-१-८३ ।। तथा 'सव्वं पि य बारसंगं परिणामविसुद्धिहेउमित्तागं' ।। इति पुष्पमालायाम् ।। ४३४ ।। अत एवोक्तं भावकुलके – 'भाव च्चिय परमत्थो' इति ।। १९ ।। ततश्च क्रूरतया विशस्यमानं प्राणिनं दृष्ट्वाऽपि कुतर्केरुपेक्ष्यमाणस्य का परिणामविशुद्धि: ? शक्यप्रवृत्तिं विना तस्याः खपुष्पायमाणत्वात् । एतेन ग्लानाद्यवस्थायामसहिष्णोः सदोषभक्तमपि समर्थितम्, दुर्ध्याननिरोधाऽर्थत्वेनास्याऽपि परिणामविशुद्धिहेतुत्वात् । भवदुक्ताध्यात्मकल्पद्रुमोक्तिरपि सैव वाच्या, नवरं 'परिणामरम्य' - मित्यत्र परिणामपदेन 'अन्त' इति 'मनःपरिणाम' इति चैवं द्वावप्यर्थो ग्राह्यौ । मनःशुद्धिहेतुभूता जीवदयैव मुक्तिनिबन्धनत्वेन परिणामेऽन्ते रम्या भवति । स स्वयं तु निरूपमसुखसङ्गतः स्यादेव, तदुक्तं पञ्चसूत्रे - 'निरुवमसुहसंगया 'त्ति ।। प्रथमसूत्रे ।। उक्तं च धर्मबिन्दौ - 'परमसुखलाभ' इति ।।८-५ ।। अन्यत्राऽप्युक्तम् ‘यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । वीतरागसुखस्येदमनन्तांशो न वर्तते ।।' - इति । उक्तं च सौन्दरनन्दे – 'दुःखक्षयो हेतुपरिक्षयाच्चे' ति, स्थावर - जीवानामप्यनुपद्रावकत्वेन सर्वजीवशिवङ्करो भवति, अत्यन्तमहिंस्रत्वात्। अतः परिणामे मनःपरिणामे यद्रम्यं तदेव ग्राह्यं सुधिया । - भवन्मते त्वेकाऽपि परिणामरम्यता न सङ्गतिमङ्गति, म्रियमाणजन्तूपेक्षया निस्त्रिंशीभूतचित्तस्यात्यन्तमशुद्धपरिणामापन्नस्य सुदीर्घसंसारत्वात्, परिणामे स्वयमपि दुःखिनोऽसङ्ख्यानन्तजीवहिंसापरायणत्वात् । एतेन भवदुक्तकार्यकारणभावोऽपि निरस्तः । अन्यथा तु स्वप्राणधारणमपि न युज्येत, तस्यैव हिंसाहेतुत्वात् । केचित्तु कुतर्कगराघ्रातमानसाः प्राणिघातमपि तत्प्राणिसम्भाविताघनिवारकतया शोभनं प्रतिपादयन्ति तेषामभिप्रायेण त्वात्मघात एव युक्ततमः । तेऽप्युक्तरीत्या निराकर्तव्याः । तस्माद्विमुच्य मानं, कदर्थ्य कदाग्रहं, माध्यस्थ्यमास्थाय, निमील्य नेत्रे, चिरं विचार्यं परिणामरम्यत्वम्, तस्यैव निःश्रेयसत्वादिति दिक् । તેવા અન્ય પણ દુષ્ટ વચનના, જીવદયાના વિરોધિનો, નવકારના માત્ર પાંચ જ પદ भाननारनो... ॥30॥ १७५ जीवदयाविरोधिविरोध: - -

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252