Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 195
________________ षष्ठो भानुः शुद्धैकवादिभिर्हन्त !, देशनापुस्तकादृतेः । प्रमाणितं शुभत्वं रे ! नात्र शुद्धोपयोगता ।।२६।। शुक्लपाक्षिक एवोक्तो क्रियावादी दशाश्रुते । तन्निन्दादिप्रवृत्तस्य तत्त्वस्य सम्भवोऽपि कः ? ।। २७ । इत्यादि सन्नयव्रातात्, तत्खण्डनं कृपाहृदा । निश्चयव्यवहाराख्य पुस्तके च कृतं तदा ।। २८ ।। उत्सूत्रप्रतिकारः १७३ દેશના, પુસ્તક વગેરેનો આદર કરીને, શુદ્ધોપયોગના એકાન્તવાદીઓએ જ શુભોપયોગને પ્રમાણિત કર્યો છે. કારણ કે દેશના વગેરેમાં કાંઈ શુદ્ધોપયોગપણું નથી. ા૨૬ના શ્રી દશાચૂર્ણિમાં કહ્યું છે કે ક્રિયાવાદી અવશ્ય શુકલપાક્ષિક જ હોય છે, તો પછી જે ક્રિયાના નિંદા વગેરે કરે છે, તેને તો શુક્લપાક્ષિકપણાનો પણ ક્યાં સંભવ રહ્યો ા૨ા - ઈત્યાદિ પ્રશસ્ત નચોથી કૃપાળુ એવા પૂજ્યશ્રીએ પોતાના નિશ્ચય-વ્યવહાર પુસ્તકમાં તેનું ખંડન કર્યું છે. ૨૮॥ न्यायविशारदम् (२८) इत्यादीति । सिद्धान्तमवलम्ब्य श्रीपूज्येन तत्पुस्तके तन्मतस्य यत्खण्डनं कृतम्, तस्य कतिपयोंऽशोऽत्र दर्श्यते । - यथाशक्तिप्रवृत्तिमन्तरेण निश्चयसम्यक्त्वं दुर्वचम् । तत्प्रवृत्तिरपि न बाह्यक्रियामात्रम्, किन्त्वान्तराप्रमत्ततापरिणतिसन्ततिरिति । व्यवहारनयाभिप्रायेण जीवच्छरीरं नात्मनः पृथक् (अत एव 'जीवो रुवि अरुवि पोग्गलदव्वं तु रुवि यिणा' इति परमागमसारवचनमपि सङ्गच्छते ।।२०।। ततोऽस्योपरि प्रहार आत्मप्रहाररूपः, ततश्च निःसंशयं हिंसेति विवेचनीयम् । व्यवहारोऽपि सत्यः, आदरणीयः, अनुल्लङ्घनीयश्च । · व्यवहाराभिप्रायेण शरीरावच्छिन्नात्मानो रागिणश्च द्वेषिणश्च कथञ्चित् रागाद्यभिन्नाश्च । तस्मात् तदभिन्नत्वनिराकरणाय मोक्षोपायाऽऽ सेवनमनिवार्यम्, तत एव तत्सिद्धियोगात् । न व्यवहारोऽनृतं ब्रूते । यतस्तदुदितं जगत्याकालं जीवेतरेषु घटामटाट्यते, सर्वत्राऽप्यस्यानतिक्रमणीयत्वात् । तस्मात् लोकोत्तरसौधारम्भसोपानेऽपि तदनिवार्यत्वं सुज्ञेयं सुधियाम् । जिनमतानुसरणं च व्यवहारनिन्दनं चेति रीतिः 'माता च वन्ध्या चे' -त्युक्तिम् 'अहं मूकोऽस्मीत्युक्तिं च स्पर्द्धते । यतोऽस्य पुष्टिं विदधाति जिनमत:, जानात्ययं यत् ततो जीवेषु विचित्रपरिणामोत्पत्तिरतोऽनपलाप्योऽयम् । न ह्युपादानमात्रतः सिद्धिः, निमित्तापेक्षणात् । अत एवाशुभनिमित्तत्याग इतराऽऽ सेवनं च सिताम्बरग्रन्थेष्वभीक्ष्णं प्रतिपादितम् । तस्य शुभपरिणामोपबृंहकत्वादिति । अहो साहसम् ! यज्जिनशासनोपनिषदनभिज्ञा: पण्डितमानिनः केचिद् आहारादिविषयेषु निर्भीकचित्ताः त्यागतपोदानशीलव्रतप्रत्याख्यानादिधर्मक्रियाभ्यो बिभ्यति, मा भूत् ताभ्यो भववृद्धिरिति । महामोहविलासातुच्छताण्डवमिदम्। (वस्तुतस्तु तादृशा भृशं दयापात्राणि, अपुण्यत्वात्, दृश्यमानपुण्योदयस्तु वध्यमण्डनसोदरः, नरकाद्यतिथित्वात्तेषाम्, न हि प्रभूतपुण्यचयमन्तरेण उन्मार्गतमउन्मूलने न्यायभुवनभानुभानवः

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252