________________
षष्ठो भानुः
शुद्धैकवादिभिर्हन्त !, देशनापुस्तकादृतेः । प्रमाणितं शुभत्वं रे !
नात्र शुद्धोपयोगता ।।२६।।
शुक्लपाक्षिक एवोक्तो
क्रियावादी दशाश्रुते ।
तन्निन्दादिप्रवृत्तस्य
तत्त्वस्य सम्भवोऽपि कः ? ।। २७ ।
इत्यादि सन्नयव्रातात्,
तत्खण्डनं कृपाहृदा ।
निश्चयव्यवहाराख्य
पुस्तके च कृतं तदा ।। २८ ।।
उत्सूत्रप्रतिकारः
१७३
દેશના, પુસ્તક વગેરેનો આદર કરીને, શુદ્ધોપયોગના એકાન્તવાદીઓએ જ શુભોપયોગને પ્રમાણિત કર્યો છે. કારણ કે દેશના વગેરેમાં કાંઈ
શુદ્ધોપયોગપણું નથી. ા૨૬ના
શ્રી દશાચૂર્ણિમાં કહ્યું છે કે ક્રિયાવાદી અવશ્ય શુકલપાક્ષિક જ હોય છે, તો પછી જે ક્રિયાના નિંદા વગેરે કરે છે, તેને તો શુક્લપાક્ષિકપણાનો પણ ક્યાં સંભવ રહ્યો ા૨ા
-
ઈત્યાદિ પ્રશસ્ત નચોથી કૃપાળુ એવા પૂજ્યશ્રીએ પોતાના નિશ્ચય-વ્યવહાર પુસ્તકમાં તેનું ખંડન કર્યું છે. ૨૮॥
न्यायविशारदम्
(२८) इत्यादीति । सिद्धान्तमवलम्ब्य श्रीपूज्येन तत्पुस्तके तन्मतस्य यत्खण्डनं कृतम्, तस्य कतिपयोंऽशोऽत्र दर्श्यते । - यथाशक्तिप्रवृत्तिमन्तरेण निश्चयसम्यक्त्वं दुर्वचम् । तत्प्रवृत्तिरपि न बाह्यक्रियामात्रम्, किन्त्वान्तराप्रमत्ततापरिणतिसन्ततिरिति । व्यवहारनयाभिप्रायेण जीवच्छरीरं नात्मनः पृथक् (अत एव 'जीवो रुवि अरुवि पोग्गलदव्वं तु रुवि यिणा' इति परमागमसारवचनमपि सङ्गच्छते ।।२०।। ततोऽस्योपरि प्रहार आत्मप्रहाररूपः, ततश्च निःसंशयं हिंसेति विवेचनीयम् । व्यवहारोऽपि सत्यः, आदरणीयः, अनुल्लङ्घनीयश्च ।
· व्यवहाराभिप्रायेण शरीरावच्छिन्नात्मानो रागिणश्च द्वेषिणश्च कथञ्चित् रागाद्यभिन्नाश्च । तस्मात् तदभिन्नत्वनिराकरणाय मोक्षोपायाऽऽ सेवनमनिवार्यम्, तत एव तत्सिद्धियोगात् ।
न व्यवहारोऽनृतं ब्रूते । यतस्तदुदितं जगत्याकालं जीवेतरेषु घटामटाट्यते, सर्वत्राऽप्यस्यानतिक्रमणीयत्वात् । तस्मात् लोकोत्तरसौधारम्भसोपानेऽपि तदनिवार्यत्वं सुज्ञेयं सुधियाम् ।
जिनमतानुसरणं च व्यवहारनिन्दनं चेति रीतिः 'माता च वन्ध्या चे' -त्युक्तिम् 'अहं मूकोऽस्मीत्युक्तिं च स्पर्द्धते । यतोऽस्य पुष्टिं विदधाति जिनमत:, जानात्ययं यत् ततो जीवेषु विचित्रपरिणामोत्पत्तिरतोऽनपलाप्योऽयम् । न ह्युपादानमात्रतः सिद्धिः, निमित्तापेक्षणात् । अत एवाशुभनिमित्तत्याग इतराऽऽ सेवनं च सिताम्बरग्रन्थेष्वभीक्ष्णं प्रतिपादितम् । तस्य शुभपरिणामोपबृंहकत्वादिति ।
अहो साहसम् ! यज्जिनशासनोपनिषदनभिज्ञा: पण्डितमानिनः केचिद् आहारादिविषयेषु निर्भीकचित्ताः त्यागतपोदानशीलव्रतप्रत्याख्यानादिधर्मक्रियाभ्यो बिभ्यति, मा भूत् ताभ्यो भववृद्धिरिति । महामोहविलासातुच्छताण्डवमिदम्। (वस्तुतस्तु तादृशा भृशं दयापात्राणि, अपुण्यत्वात्, दृश्यमानपुण्योदयस्तु वध्यमण्डनसोदरः, नरकाद्यतिथित्वात्तेषाम्, न हि प्रभूतपुण्यचयमन्तरेण उन्मार्गतमउन्मूलने न्यायभुवनभानुभानवः