________________
१७४
उत्सूत्रप्रतिकार
भुवनभानवीयमहाकाव्ये
प्रार्थनासूत्रके याञ्चा,
પ્રાર્થના-(જયવીરરાય) સૂત્રમાં “ઈષ્ટ ફલ સિદ્ધિ याऽस्तीष्टफलसिद्धिका ।
એ જે પ્રાર્થના છે. તેના અર્થથી વિપરીત વચનનો तदर्थविपरीतोक्तिं,
અપ્રતિમ બદ્ધિના સ્વામિ પૂજ્યશ્રીએ પ્રતિકાર કર્યો. प्रतिचक्रेऽप्रतिमधीः ।।२९॥ Il૨૯TI
-सङ्घहितम्१. एतद्विषयानेकपूर्वाचार्यव्याख्यासङ्ग्रहस्तार्किकशिरोमणिश्रीजयसुन्दरसूरिभिः कृतः, विस्तरार्थिभिस्तत एव ज्ञेयम् । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ निश्चयव्यवहारनिपुणताद्यवाप्यते । उक्तं च पुण्यकुलके - “उस्सग्गे अववाये, निच्छयववहारम्मि निउणत्तं । मणवयणकायसुद्धी, लभंति पभूयपुण्णेहिं ।। इति ।।५।।) ___ - इतश्च मन्यन्ते - ‘अत्यन्तभिन्नस्वभावा जीवा: पुद्गलाश्च, जीवस्तु शुद्धज्ञानादिस्वभाव' इत्यादि । इतश्च तादृशपुद्गलत्यागं परित्यज्य तदुपभोगालाम्पट्यमिति व्याहतम् । ___ - दानादिनष्फल्यं तु विषयसुखाऽऽशंसया, न तु स्वरूपयोग्यताविरहात्, तदभावात् निरांशसयाऽऽसेवितस्य तस्यैव साफल्यात् । विषयतृष्णा हि भववृद्धिनिबन्धनम् । ततो दानादिभावेऽपि भवज्वरानुपशमः, तद्रूपौषधस्य तृष्णाकुपथ्योपहतत्वेन प्रतिबद्धकार्यत्वात् । न चैतावता तत्कारणत्वविरह इति विभावनीयम् ।
ततश्च कार्यार्थिना प्रतिबन्धकपरिहारेण कारणाऽऽसेवनं कार्यम्, आरोग्यार्थिना कुपथ्यपरिहारेणौषधासेवनवदिति ।
- इतश्चैकान्तवादिनो व्यवहारधर्मोपहासं कृत्वा शुद्धोपयोगस्यैव कथायामभिरूचिविशेषं विदधते, इतश्च भोजनावसरे किमिति संयोजनां कुर्वन्ति ? कथं च व्यञ्जनेष्वेव तां कुर्वन्ति ? न तु जल इति दुरुत्तरः पर्यनयोगः । किञ्च शुद्धोपयोगवादिनामाऽऽसक्तिपूर्वकं भोजनं यानादिषु नृपवद्विहरणमपि न सङ्गतिमङ्गति ।
सर्वविषयभोगोपभोगः... आनुकूल्यपरिभोगः.... धनसमृद्धिपरिग्रहः... तरुणयुवतिबालप्रमुखकृतविश्रामणादिसेवनम्... स्वदेशमास्फातिहेतुमहाऽऽडम्बरप्रसिद्धियत्न... इत्यादिषु प्रकटपापिलिङगेषु सत्स्वपि मुग्धप्रतारणाय धर्मक्रियानैष्फल्यं प्रतिपाद्य शुद्धोपयोगकथाकरणं कथमपि शोभास्पदतां न गच्छति ।
'क्रियावाद्यवश्यं शुक्लपाक्षिक' (किरियावाई०णियमा सक्कयपक्खिओ - दशाचूर्णिः) इति सिद्धान्तोऽप्येतदेव दर्शयति यत् 'यस्य बाढं धर्मक्रियाभिरूचिरसौ लघुकर्मा शीघ्रमुक्तिगामी' । ततश्च निश्चयनयच्छद्मना तन्निन्दादिप्रवृत्तस्य तु शुक्लपाक्षिकत्वेऽपि सन्देह: । (सोऽपि न, बोधिबीजनि शनात्तत्त्वविरहनिश्चयात्, उक्तं च - 'लुंपइ बझं किरियं जो खलु आहच्चभावकहणेणं । सो हणइ बोहिबीअं उम्मग्गपरुवणं काउं ।।' इत्यध्यात्ममतपरीक्षायाम् ।।४३ ।।) ___ - शुभयोगा अकारणम्, शुद्धोपयोगस्यैव तत्त्वादित्यसारम्, तदेकान्तवादिना स्वाचरणेनैवास्य निरस्तत्वात्, स हि स्वदेशनां शुभयोगं मत्वैव तत्र प्रवर्तते, न तु शुद्धोपयोगं मत्वा, तत्र तद्विरहेऽविगानात् ।।
एवं निश्चयव्यवहाराख्यग्रन्थेन स्वदेशनाभिश्च श्रीपूज्यनैकान्तवादस्य निराकरणेनानेकभव्यानामुन्मार्गगामित्वं निवारितम् । यस्मान्नेह धीराः स्वलक्ष्यमनासाद्य व्यवसायोपरति प्रयान्ति, नाऽपि तदप्राप्तिरपि तेषाम, उक्तं च - 'अप्राप्यं नाम नेहाऽस्ति धीरस्य व्यवसायिनः ।' इति कथासरित्सागरे । विश्वोपकारकारिणेऽस्मै महर्षये नमो नमः ।
(उन्मार्गतमउन्मूलने न्यायभुवनभानुभानवः