________________
षष्ठो भानुः
तादृशान्यदुरुक्तस्य, जीवदयाविरोधिनः ।
नमस्कारपदानां च,
पञ्चत्वं प्रतिपादिनः ।। ३० ।।
-
उत्सूत्रप्रतिकारः
-
न्यायविशारदम्
(३०) जीवदयाविरोधिन इति । एतद्धि तन्मतम् “बालत्वप्रकटीकरणमेतज्जीवदयादि, मोचितप्राणिकृतहिंसाजनिताघभाजनत्वात्, तन्मोचननिबन्धनत्वाद्धिंसायाः, तस्यास्तदविनाभावित्वात्, निघसाऽऽहारवत् । न च जीवदयाऽऽदेया, धर्मस्य दयामूलत्वात् । तथोक्तं- 'कृपामहानदीतीरे, सर्वे धर्मास्तृणाङ्कुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिर' - मिति वाच्यम्, जीवदयाव्याजेन तन्मोचनस्य पाश्चात्यानेकजीवहिंसामूलत्वात्, परमार्थतः महाहिंसात्वात्, जीवदयाया एव दुर्वचत्वात् । ननु सूनास्थितं लोललोचनं प्रवेपमानाङ्गं मृत्युभीतं दीनस्वरं प्राणिनं दृष्ट्वा दयार्द्रचेतसा तन्मोचने कथं न जीवदयेति चेत् ? कार्यकारणभावरहितं हतं तर्हि जगत्, यतः प्रदर्शितमपि तद्भावमुपेक्षते भवान् । तदुक्तम् 'नाकारणं भवेत् कार्यं, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः क्वचित् ।।' इति । जीवदयादिव्याजेनेत्यादिग्रन्थेनाऽस्य सूक्तत्वात् । न हि साम्प्रतेक्षिणा भाव्यं बुद्धिमता, परिणामविचारकत्वं हि तल्लिङ्गम् । उक्तं च 'कृती हि सर्वं परिणामरम्यं, विचार्य गृह्णाति चिरस्थितीहे - त्यध्यात्मकल्पद्रुमे ।।१-२१।। अन्यथा - परिणामाप्रमाणत्वे तु ग्लानाद्यवस्थायामसहिष्णोरपि सदोषभक्तं न युज्येत, तस्य सहिंसत्वात्, सदोषत्वादेव, यतः साम्प्रतमेवेक्षते भवान्निति ।
अत्रोच्यते - तदिदं स्वबालत्वप्रकटीकरणं, जिनशासनहृदयापरिज्ञानात्, तत्र मनःपरिणामस्यैव प्रमाणत्वात्, तस्यैव द्वादशाङ्गीसारत्वात् । यथोक्तम् - 'परमरहस्समिसीणं समत्थगणिपिडगहत्थसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ।।' इति बृहत्कल्पे ।।१-१-८३ ।। तथा 'सव्वं पि य बारसंगं परिणामविसुद्धिहेउमित्तागं' ।। इति पुष्पमालायाम् ।। ४३४ ।। अत एवोक्तं भावकुलके – 'भाव च्चिय परमत्थो' इति ।। १९ ।। ततश्च क्रूरतया विशस्यमानं प्राणिनं दृष्ट्वाऽपि कुतर्केरुपेक्ष्यमाणस्य का परिणामविशुद्धि: ? शक्यप्रवृत्तिं विना तस्याः खपुष्पायमाणत्वात् ।
एतेन ग्लानाद्यवस्थायामसहिष्णोः सदोषभक्तमपि समर्थितम्, दुर्ध्याननिरोधाऽर्थत्वेनास्याऽपि परिणामविशुद्धिहेतुत्वात् । भवदुक्ताध्यात्मकल्पद्रुमोक्तिरपि सैव वाच्या, नवरं 'परिणामरम्य' - मित्यत्र परिणामपदेन 'अन्त' इति 'मनःपरिणाम' इति चैवं द्वावप्यर्थो ग्राह्यौ । मनःशुद्धिहेतुभूता जीवदयैव मुक्तिनिबन्धनत्वेन परिणामेऽन्ते रम्या भवति । स स्वयं तु निरूपमसुखसङ्गतः स्यादेव, तदुक्तं पञ्चसूत्रे - 'निरुवमसुहसंगया 'त्ति ।। प्रथमसूत्रे ।। उक्तं च धर्मबिन्दौ - 'परमसुखलाभ' इति ।।८-५ ।। अन्यत्राऽप्युक्तम् ‘यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । वीतरागसुखस्येदमनन्तांशो न वर्तते ।।' - इति । उक्तं च सौन्दरनन्दे – 'दुःखक्षयो हेतुपरिक्षयाच्चे' ति, स्थावर - जीवानामप्यनुपद्रावकत्वेन सर्वजीवशिवङ्करो भवति, अत्यन्तमहिंस्रत्वात्। अतः परिणामे मनःपरिणामे यद्रम्यं तदेव ग्राह्यं सुधिया ।
-
भवन्मते त्वेकाऽपि परिणामरम्यता न सङ्गतिमङ्गति, म्रियमाणजन्तूपेक्षया निस्त्रिंशीभूतचित्तस्यात्यन्तमशुद्धपरिणामापन्नस्य सुदीर्घसंसारत्वात्, परिणामे स्वयमपि दुःखिनोऽसङ्ख्यानन्तजीवहिंसापरायणत्वात् । एतेन भवदुक्तकार्यकारणभावोऽपि निरस्तः । अन्यथा तु स्वप्राणधारणमपि न युज्येत, तस्यैव हिंसाहेतुत्वात् ।
केचित्तु कुतर्कगराघ्रातमानसाः प्राणिघातमपि तत्प्राणिसम्भाविताघनिवारकतया शोभनं प्रतिपादयन्ति तेषामभिप्रायेण त्वात्मघात एव युक्ततमः । तेऽप्युक्तरीत्या निराकर्तव्याः ।
तस्माद्विमुच्य मानं, कदर्थ्य कदाग्रहं, माध्यस्थ्यमास्थाय, निमील्य नेत्रे, चिरं विचार्यं परिणामरम्यत्वम्, तस्यैव निःश्रेयसत्वादिति
दिक् ।
તેવા અન્ય પણ દુષ્ટ વચનના, જીવદયાના વિરોધિનો, નવકારના માત્ર પાંચ જ પદ भाननारनो... ॥30॥
१७५
जीवदयाविरोधिविरोध:
-
-