Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 223
________________ सप्तमो भानुः (स्रग्धरा) प्राप्योत्कृष्टं गुरुं तं ह्यभिलषति मनो, नाऽपि नाकं तु सौख्यं, नाऽप्यर्थो मे यशोभिर्ह्यविचलगुरुपद्भक्तिमेवार्थयेऽहम्। तत्प्राप्तौ नास्ति याच्ञेयमपि च हृदये, दासकल्याणबोधेः, वाणीसन्दोहदेहे ! भवविरहवरं, देहि मे देवि ! सारम् ।।४।। भुवनभानु-संसारदावा० इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्ये भुवनभानु-संसारदावा० नामा सप्तमो भानुः ।। २०१ ઉત્કૃષ્ટ એવા તે ગુરુને પામીને હવે મનને સ્વર્ગના સુખની ય અભિલાષા નથી. હવે મને यश-नामनानुं य ोध प्रयोरन नथी... जस, हुं માંગુ છું અવિચલ ગુરુચરણસેવા.. અને તે મળી જાય તો દાસ કલ્યાણબોધિના હૃદયમાં આ યાચના પણ નથી કે, “હે જિનવાણીના સમૂહરૂપ દેહવાળી સરસ્વતી દેવી ! મને ઉત્તમ એવો ભવવિરહ આપો.” ઈતિ વૈરાગ્યદેશનાદક્ષાચાર્યશ્રીહેમચંદ્રસૂરિશિષ્ય પંન્યાસકલ્યાણબોધિગણિવર્યવિરચિતે ભુવનભાનવીયમહાકાવ્યે ભુવનભાનુ સંસારદાવા૦ નામનો ॥ सप्तभो ભાનુ || न्यायविशारदम् (३) वाणीत्यादि । न चैवं श्रुतदेव्यवज्ञाप्रसङ्गः, विधेयस्तुत्यर्थत्वादस्य, प्राग्वत् । (दृश्यतां प्रथमभानौ ।। ११ । । ) मुक्तयधिक-स्पृहणीयता तु गुरुभक्तेर्दशाविशेषेऽदुष्टेति विवेचनीयम् । इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके सप्तमभानुचिन्तनम् शक्तिः क्षान्तिर्धनं दानमुन्नतिर्गुरुनम्रता । स्वार्थः परार्थसम्पत्तिः सतां चरितमद्भुतम् ।।

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252