Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 228
________________ २०६ - प्रान्तेऽपि पराक्रमः । भुवनभानवीयमहाकाव्ये परिणामपरत्वशालिह પ્રકૃષ્ટ પરિણામથી શોભતા હૃદયધારી પૂજ્યશ્રી ___ ददृशे चाऽपटुतावशो निशि । રાત્રિસમયે અસ્વસ્થતામાં સતત પ્રભુના સૂત્રો બોલતા जिनसूत्रवचःपरायणः, રહ્યા અને આમ બેભાન જેવી અવસ્થામાં ય સુંદર सततं सौम्यसमाधिसुस्थितः ।।१२।। સમાધિમાં મગ્ન રહ્યા. ૧ણા उपयोगपरश्च यः करोत्, જીવનની અંતિમ ઉષા પણ આવી ગઈ. अपि कल्ये चरमे प्रतिक्रमम् । પૂજ્યશ્રીએ ઉપયોગથી પરિપૂર્ણ પ્રતિક્રમણ કર્યું. स्वनुबन्धवती सुसाधना હા.. સુંદર અનુબંધોથી યુક્ત સાધના અન્યભવમાં ऽन्यभवे स्यान्न किमन्तिमे क्षणे? ॥१३॥ पा रहे छ तो संत सभये भ न रहे ? ||१३|| दिनमध्यमितोऽमितांशुमान्, હવે આ ભાનુ દિવસના મધ્યભાગને આંબી ગયો. वमथु हन्त ! चकार सारभृत् । (Gपोरे १.१० वाग) पूज्यश्रीने Bceी थ/. रेम मदमोहवमिं यथाऽकरो સારને ગ્રહણ કરીને.. અલ્પ સમયમાં અનલ્પ સાધના ल्लघुकालालघुसाधनाधनः ।।१४।। કરી લઈને મદમોહનું ચ વમન કરી લીધું હતું. ll૧૪ -सङ्घहितम्१. सुंE२ २. due ३. सवार ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ मरूदेव्या व्यभिचार इति चेत् ? न, तस्या अनन्तकालेऽप्यभूताश्चर्यरूपत्वात्, तदालम्बनस्यात्महितदर्शिनोऽनादेयत्वात्, प्रायः सर्वेषामपि संयमाराधनाप्रकर्षमन्तरेण निस्ताराऽयोगात्, प्रतिक्रुष्टाश्च तदालम्बनिन उपदेशमालायाम्- 'के इत्थ करेंतालम्बण' - मित्यादिना ।।१७९ ।। तस्मादात्मगुणप्रकर्षमिच्छताऽऽचरमक्षणं पराक्रान्तव्यम्, श्रीपूज्यवत्, उक्तं चोत्तराध्ययनेषु - 'कंखे गुणे जाव सरीरभेओ' त्ति ।।४-१३।। द्वादशाब्दयनन्तरं तत्त्यागिनां का तत्सिद्धिवार्ताऽपि ? तत्त्यागस्यापि रागादिकारितत्वात् । वस्तुतस्तु षट्कायारम्भान्वि-तत्वात्तत्र दीक्षात्वमपि दुर्वचमित्याचाराङ्गादेर्भावनीयम् । रागादिनामविश्वसनीयत्वेनान्तसमयेऽपि दृढं यतितव्यमेव, उक्तं च - ‘ताव न विससियव्वं सेयट्ठी धम्मिओ जाव' त्ति उपदेशमालायाम् ।।१८२।। नात्र मुक्त्यभिलाषातिशयशालिनां निर्वेदलेशोऽपि, श्रीपूज्यवत्, इहैव प्रशमसौख्येन मुक्तिसुखास्वादलाभात्, आमुक्तेर्जन्मान्तरेष्वपि सुखानुबन्धावन्ध्यनिबन्धनत्वात्, सूपपादितं च प्राक् निरूपमं श्रमणसुखम्, अत एवोक्तं परैरपि - 'धर्मचारी सुखं शेते अस्मिंल्लोके परत्र चेत्ति धर्मपदे ।।१६८।। वस्तुतस्त्वनादिकर्मसन्ततिक्षयकारिण्याः प्रव्रज्याया आजीवनाचरिताया अपि नातिभूयस्त्वम्, अत एव देशोनपूर्वकोटिं यावद-प्रमत्तचर्याया अप्यल्पकालेन मुक्तिप्रापकत्वमुक्तमुत्तराध्ययनेषु - 'पुव्वाइ वासाइ चरऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं'।। इति ।।४-८ ।। न चैवं तत्साफल्यसन्देहोऽपि, भगवद्वचन प्रामाण्यात, प्रायः काङ्क्षामोहनीयोदयविरहात् । तस्मात् श्रीपूज्यानां प्रान्तेऽप्यप्रतिमसाधना युक्तैव, ततश्च सिद्धं जैनीदीक्षाया उपादेयत्वमिति । १. व्याख्याप्रज्ञप्तिसूत्रानुरोधेनाऽत्र प्राय:पदमिति बहुश्रुतसेवासुज्ञेयम्। अविरामसाधना-शैवदर्शनाशिवम

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252