Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 246
________________ २२४ अहो ! साम्यं सत्त्वं जलधिजलजैत्री च करुणा, अहो ! शान्तिः क्षान्तिः स्वपरमतशास्त्रेषु परता। कलाकौशल्यं ते करणदमनेऽहो ! ऽसमबलं, भवद्भक्तिर्भूयाद् गुरुभुवनभानो ! प्रतिभवम् ।।१७।। भवद्वक्त्रं दृष्ट्वा भवतिमिरसूरोदयसमं, भवत्सेवां लब्ध्वा भवजलतरीं पापहरणीम् । न हीच्छा मे स्वामिन् ! पुनरपि पुनर्जन्ममरणे, भवद्भक्तिर्भूयाद् गुरुभुवनभानो ! ऽमृतकृते ।।१८।। १. मोक्ष प्रशस्तिः भुवनभानवीयमहाकाव्ये गुरु भुवनलानु ! अहो ! आपनी समता.. अहो સત્ત્વ.. જલધિજલને જીતી લેતી કરુણા.. અહો शान्ति.. अहो क्षान्ति स्व-परभतना शास्त्रोमां परमता... हे अध्भुत ङला डौशल्य.. हे धन्द्रियદમનમાં બેજોડ બળ ! ભવોભવ આપની ભક્તિ होते. ॥१७॥ ગુરુ ભુવનભાનુ ! ભવરૂપી તિમિરને હરવામાં सूर्योध्य समान सेवा आपना भुजने भेया GIE.. लव४सतरशी पापहरशी जेवी आपनी सेवा પામ્યા બાદ હવે ફરી ફરી જન્મ-મરણમાં મારી કોઈ ઈચ્છા રહી નથી. મારા નાથ ! આપની ભક્તિ મુક્તિ માટે હોજો. ૧૮ -सङ्घहितम् न्यायविशारदम् गुरुभुवनभानुप्रसादनतावच्छेदकसम्बन्धावच्छिन्नप्रसादनतावच्छेदकावच्छिन्नप्रतियोगिताकप्रसादनाभाववृत्तियावत्प्रसादनानिरूपित प्रतियोगित्व-तादृशप्रसादनानिरूपितप्रतियोगितावच्छेदकत्वा-ऽन्यतरावच्छेदकीभूततादृशप्रतियोगितावच्छेदकसम्बन्धेन तादृशप्रतियोगितानिरूपितावच्छेदकताघटकसम्बन्धेन वा प्रसादनाऽभावाऽधिकरणावृत्तिजन्मत्वावच्छिन्नशाली भूयासमित्याशंसावान्नहमित्यर्थः । स्वोपज्ञं वार्तिकं त्वेत- न्नाम्ना न्यायविशारदम् । गुरुभक्तिसमुल्लासं तनोतु भविकात्मनाम् ।। गुरुगौरवसत्तर्क-शास्त्रसन्दोहदोहनम् । वृणोतु वार्त्तिकं त्वेतत्, मतिमोहजयश्रियम् ।। नेत्रारिखयुगे ह्यब्दे, वैक्रमे पल्लीपत्तने । देवगुरुप्रभावेण, वार्त्तिकं पूर्णतां गतम् ।। आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।। मतिमान्द्येन चेत्किञ्चि-दनुचितमिहोदितम् । शुध्यतां शुद्धचेतोभिः, पामरे तत् कृपापरैः ।। छाद्मस्थ्यादिकदोषैश्चे-दुत्सूत्रं भाषितं मया । संसारकारणं तत्तु मिथ्या मे दुष्कृतं भवेत् ।। रत्नत्रयस्य संशुद्धयै लोककल्याणहेतवे । प्रवचनमहोन्नत्यै सत्तर्कोऽभ्यस्यतां बुधैः ।। चरणकरणप्रौढः, स्वेतरसमयाज्ञकः । निश्चयेन तु संशुद्धं, तयोः सारं न पश्यति ।। मोहं रुणद्धि विमलीकुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिम् । शास्त्रान्तराभ्यसनयोग्यतया युनक्ति, तर्कश्रमो न तनुते किमिहोपकारम् ? ।। प्रमादं परिहायाऽस्मात्, कृत्वा गुरुप्रसादनम् । सत्तर्कं पठ्यतां शास्त्रं, शास्त्रं सर्वार्थसाधनम् ।। श्रीप्रेमसूरिर्गुरुभानुसूरिः, पद्मर्षिशिष्यो गुरुहेमसूरिः । कल्याणबोधिं जगते ददाना, भवन्तु ते श्रीगुरवः प्रसन्नाः ।। ( शार्दूलविक्रीडितम्) सिद्धान्तोपनिषद्विचारचतुरं, गीतादिगीतागमम्, व्युत्पत्तिप्रतिपत्तिकृत् प्रतिपदं, सत्तर्कतः कर्कशम् । श्रीमत्सद्गुरुपादपङ्कजकृपा-पीयूषवृष्टेः फलं दद्यान्यायविशारदं शरदुदं - स्वच्छां मुदं वार्त्तिकम् ।। १. इत्यर्थतः सम्मतितर्कप्रकरणे । २. गीतादिपरदर्शनशास्त्रैर्गीता जिनागमा एव तत्त्वतो यत्र येन वा तद्, सद्वचसो दृष्टिवादमूलत्वात् । ३. शारदजलम् । प्रशस्तिः

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252