________________
सप्तमो भानुः
(स्रग्धरा)
प्राप्योत्कृष्टं गुरुं तं ह्यभिलषति मनो, नाऽपि नाकं तु सौख्यं, नाऽप्यर्थो मे यशोभिर्ह्यविचलगुरुपद्भक्तिमेवार्थयेऽहम्।
तत्प्राप्तौ नास्ति याच्ञेयमपि च हृदये, दासकल्याणबोधेः,
वाणीसन्दोहदेहे ! भवविरहवरं,
देहि मे देवि ! सारम् ।।४।।
भुवनभानु-संसारदावा०
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते
भुवनभानवीयमहाकाव्ये
भुवनभानु-संसारदावा० नामा सप्तमो भानुः ।।
२०१
ઉત્કૃષ્ટ એવા તે ગુરુને પામીને હવે મનને સ્વર્ગના સુખની ય અભિલાષા નથી. હવે મને यश-नामनानुं य ोध प्रयोरन नथी... जस, हुं માંગુ છું અવિચલ ગુરુચરણસેવા.. અને તે મળી જાય તો દાસ કલ્યાણબોધિના હૃદયમાં આ યાચના પણ નથી કે, “હે જિનવાણીના સમૂહરૂપ દેહવાળી સરસ્વતી દેવી ! મને ઉત્તમ એવો ભવવિરહ આપો.”
ઈતિ વૈરાગ્યદેશનાદક્ષાચાર્યશ્રીહેમચંદ્રસૂરિશિષ્ય
પંન્યાસકલ્યાણબોધિગણિવર્યવિરચિતે
ભુવનભાનવીયમહાકાવ્યે
ભુવનભાનુ સંસારદાવા૦ નામનો ॥ सप्तभो ભાનુ ||
न्यायविशारदम्
(३) वाणीत्यादि । न चैवं श्रुतदेव्यवज्ञाप्रसङ्गः, विधेयस्तुत्यर्थत्वादस्य, प्राग्वत् । (दृश्यतां प्रथमभानौ ।। ११ । । ) मुक्तयधिक-स्पृहणीयता तु गुरुभक्तेर्दशाविशेषेऽदुष्टेति विवेचनीयम् ।
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य
पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके सप्तमभानुचिन्तनम्
शक्तिः क्षान्तिर्धनं दानमुन्नतिर्गुरुनम्रता । स्वार्थः परार्थसम्पत्तिः सतां चरितमद्भुतम् ।।